मत्स्यपुराणम्/अध्यायः १६५
चतुर्युगगतिवर्णनम्।
मत्स्य उवाच।
चत्वार्याहुः सहस्राणि वर्षाणान्तु कृतं युगम्।
तस्य तावच्छती सन्ध्या द्विगुणा रविनन्दन! ।। १६५.१
यत्र धर्मश्चतुष्पाद स्त्वधर्मः पादविग्रहः।
स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः ।। १६५.२
विप्राः स्थिता धर्मपरा राजवृत्तौ स्थिता नॄपाः।
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः ।। १६५.३
तदा सत्यञ्च शौचञ्च धर्मश्चैव विवर्धते।
सद्भिराचरितं कर्म क्रियते ख्यायते च वै ।। १६५.४
एतत् कार्त्तयुगं वृत्तं सर्वेषामपि पार्थिव!।
प्राणिनां धर्मसङ्गानामपि वै नीचजन्मनाम् ।। १६५.५
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते।
तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्त्यते ।। १६५.६
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः।
यत्र सत्यञ्च सत्वञ्च त्रेताधर्मो विधीयते ।। १६५.७
त्रेतायां विकृतिं यान्ति वर्णास्त्वेतेन संशयः।
चतुर्वर्णस्य वैकृत्यात् यान्ति दौर्बल्यमाश्रमाः ।। १६५.८
एषा त्रेतायुगगतिः विचित्रा देवनिर्मिता।
द्वापरस्य तु या चेष्टा तामपि श्रोतुमर्हसि ।। १६५.९
द्वापरन्द्वे सहस्रे तु वर्षाणां रविनन्दन!।
तस्य तावच्छती सन्ध्या द्विगुणा युगमुच्यते ।। १६५.१०
तत्र चार्थपराः सर्वे प्राणिनो रजसा हताः।
सर्वे नैष्कृतिकाः क्षुद्रा जायन्ते रविनन्दन! ।। १६५.११
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः।
विपर्ययाच्छनैर्धर्मः क्षयमेति कलौ युगे ।। १६५.१२
ब्राह्मण्य भावस्य ततो तथौत्सुक्यं व्यशीर्यते।
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये।। १६५.१३
तथा वर्षसहस्रन्तु वर्षाणां द्वेशते अपि।
सन्ध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम्।। १६५.१४
यत्राधर्मश्चतुष्पादः स्याद् धर्मः पादविग्रहः।
कामिनस्तपसाच्छन्ना जायन्ते तत्र मानवाः ।। १६५.१५
नैवातिसात्त्विकः कश्चिन्न साधुर्न च सत्यवाक्।
नास्तिका ब्रह्मभक्ता वा जायन्ते तत्र मानवाः ।। १६५.१६
अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः।
विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे ।। १६५.१७
आश्रमाणां विपर्यासः कलौ संपरिवर्तते।
वर्णानाञ्चैव सन्देहो युगान्ते रविनन्दन!।। १६५.१८
विद्याद् द्वादशसाहस्रीं युगाख्यां पूर्वनिर्मिताम्।
एवं सहस्रपर्यन्तं तदहो ब्राह्ममुच्यते ।। १६५.१९
ततोऽहनि गते तस्मिन् सर्वेषामेव जीविनाम्।
शरीरनिर्वृतिं दृष्ट्वा लोकसंहार बुद्धितः ।। १६५.२०
देवतानाञ्च सर्वासां ब्रह्मादीनां महीपते!।
दैत्यानां दानवानाञ्च यक्षराक्षसपक्षिणाम्।। १६५.२१
गन्धर्वाणामप्सरसां भुजङ्गानाञ्च पार्थिव!।
पर्वतानां नदीनाञ्च पशूनाञ्चैव सत्तम!।। १६५.२२
तिर्यग्योनिगतानाञ्च सत्वानां कृमिणान्तथा।
महाभूतपतिः पञ्च हृत्वा भूतानि भूतकृत् ।। १६५.२३
जगत्संहरणार्थाय कुरुते वैशसं महत्।
भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः प्राणिनां प्राणजालम्।
भूत्वा वह्निर्निर्दहन् सर्व लोकान् भूत्वा मेघो भूय उग्रोऽप्यवर्षत् ।। १६५.२४