मत्स्यपुराणम्/अध्यायः १८१
वाराणसीस्थक्षेत्रमाहात्म्यम्।
सूत उवाच।
इमां पुण्योद्भवां स्निग्धां कथां पापप्रणाशिनीम्।
श्रृण्वन्तु ऋष्यः सर्वे सुविशुद्धास्तपोधनाः ।। १८१.१ ।।
गणेश्वरपतिं दिव्यं रुद्रतुल्यपराक्रमम्।
सनत्कुमारो भगवानपृच्छन्नन्दिकेश्वरम् ।। १८१.२ ।।
ब्रुहि गुह्यं यथा तत्त्वं यत्र नित्यं भव स्थितः।
माहात्म्यं सर्वभूतानां परमात्मा महेश्वरः।। १८१.३ ।।
घोररूपं समास्थाय दुष्करं देवदानवैः।
आभूतसंप्लवं यावत् स्थाणुभूतो महेश्वरः ।। १८०.४ ।।
नन्दिकेश्वर उवाच।
पुरा देवेन यत्प्रोक्तं पुराणं पुण्यमुत्तम्।
तत्सर्वं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ।। १८०.५ ।।
ततो देवेन तुष्टेन उमायाः प्रियकाम्यया।
कथितं भुवि विख्यातं यत्र नित्यं स्वयं स्थितः ।। १८०.६ ।।
रुद्रस्यार्धासनगता मेरुश्रृङ्गे यशस्विनी।
महादेवं ततो देवी प्रणता परिपृच्छति ।। १८०.७ ।।
भगवन्! देवदेवेश! चन्द्रार्द्धकृतशेखर!।
धर्मं प्रब्रूहि मर्त्यानां भुवि चैवोर्ध्वरेतसाम् ।। १८०.८ ।।
जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृत़ञ्च यत्।
ध्यानाध्ययनसम्पन्नं कथं भवति चाक्षयम् ।। १८०.९ ।।
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम्।
कथं तत्क्षयमायाति तन्ममाचक्ष्व शङ्कर ।। १८०.१० ।।
यस्मिन् व्यवस्थितो भक्त्या तुष्यसे परमेश्वर!।
व्रतानि नियमाश्चैव आचारो धर्म एव च ।। १८०.११ ।।
सर्वसिद्धिकरं यत्र ह्यक्षय्य गतिदायकम्।
वक्तुमर्हसि तत्सर्वं परं कौतूहलं हि मे ।। १८०.१२ ।।
महेश्वर उवाच।
श्रृणु देवि! प्रवक्ष्यामि गुह्यानां गुह्यमुत्तमम् ।।
सर्वक्षेत्रेषु विख्यातमविमुक्तं प्रिये मम ।। १८०.१३ ।।
अष्टषष्टिः पुरा प्रोक्ता स्थानानां स्थानमुत्तमम्।
यत्र साक्षात् स्वयं रुद्रः कृत्तिवासाः स्वयं स्थितः ।। १८०.१४ ।।
यत्र सन्निहितो नित्यमविमुक्ते निरन्तरम्।
तत्क्षेत्रं न मया मुक्तमविमुक्तं ततः स्मृतम्।। १८०.१५ ।।
अविमुक्ते परा सिद्धिरविमुक्ते परा गतिः।
जप्तं दत्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।। १८०.१६ ।।
ध्यानमध्ययनं दानं सर्वं भवति चाक्षयम्।
जन्मान्तरसहस्रेण यत्पापं पूर्वसञ्चितम् ।। १८०.१७ ।।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्।
अविमुक्ताग्निना दग्धमग्नौ तूलमिवाहितम् ।। १८०.१८ ।।
ब्राह्मणाः क्षत्रियाः वैश्याः शूद्रा वै वर्णसङ्कराः।
कृमिम्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ।। १८०.१९ ।।
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः।
कालेन निधनं प्राप्ता अविमुक्ते शृणु प्रिये! ।। १८०.२० ।।
चन्द्रार्द्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः।
शिवे मम पुरे देवि! जायन्ते तत्र मानवाः ।। १८०.२१ ।।
अकामो वा सकामो वा ह्यपि तिर्यग्गतोऽपि वा।
अविमुक्ते त्यजन् प्राणान् मम लोके महीयते ।। १८०.२२ ।।
अविमुक्तं यदागच्छेत् कदाचित् कालपर्ययात्।
अश्मना चरणौ बद्ध्वा तत्रैव निधनं व्रजेत् ।। १८०.२३ ।।
अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः।
सोऽपिबत्पदमाप्नोति बद्ध्वा तत्रैव निधनं व्रजेत् ।। १८०.२४ ।।
अविमुक्तं गतो देवि! न निर्गच्छेत् ततः पुनः।
सोऽपिबत्पदमाप्नोति नात्र कर्या विचारणा ।। १८०.२५ ।।
अमरञ्च महाकालं तथा कायावरोहणम्।
एतानि हि पवित्राणि सान्निध्यात् सन्ध्ययोर्द्वयोः ।। १८०.२६ ।।
कालिञ्जरवनञ्चैव शङ्कुकर्णं स्थलेश्वरम्।
एतानि च पवित्राणि सान्निध्याद्धि मम प्रिये
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ।। १८०.२७ ।।
इरिश्चन्द्रं परं गुह्यं गुह्यमाम्रातकेश्वरम्।
जलेश्वरं परं गुह्यं गुह्यं श्रीपर्वतं तथा ।। १८०.२८ ।।
महालयं तथा गुह्यं कृमिचण्डेश्वरं शुभम्।
गुह्यातिगुह्यं केदारं महाभैरवमेव च ।। १८०.२९ ।।
अष्टावेतानि स्थानानि सान्निध्याद्धि मम प्रिये!।
अविमुक्ते वरारोहे! त्रिसन्ध्यं नात्र संशयः ।। १८०.३० ।।
यानि स्थानानि श्रूयन्ते त्रिषु लोकेषु सुव्रते!।
अविमुक्तस्य पादेषु नित्यं सन्निहितानि वै ।। १८०.३१ ।।
अथोत्तरां कथां दिव्यामविमुक्तस्य शोभने।
स्कन्दो वक्ष्यति माहात्म्यमृषीणां भावितात्मनाम् ।। १८०.३२ ।।