मत्स्यपुराणम्/अध्यायः ९२
शर्कराशैलदानवर्णनम्।
अथातः संप्रवक्ष्यामि शर्कराशैलमुत्तमम्।
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा।। ९२.१ ।।
अष्टाभिः शर्कराभारैरुत्तमः स्यान्महाचलः।
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामदमः स्मृतः।। ९२.२ ।।
भारेण वार्द्धभारेण कुर्याद्यः स्वल्पवित्तवान्।
विष्कम्भपर्वतान् कुर्यात्तुरीयांशेन मानवः।। ९२.३ ।।
धान्यपर्वतवत् सर्वमासाद्यामरसंयुतम्।
मेरोरुपरि तद्वच्च स्थाप्य हेमतरुत्रयम्।। ९२.४ ।।
मन्दारः पारिजातश्च तृतीयः कल्पपादपः।
एतद् वृक्षत्रयं मूर्ध्नि सर्वेष्वपि नियोजयेत्।। ९२.५ ।।
हरिचन्दनसन्तानौ पूर्वपश्चिमभागयोः।
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कारचले।। ९२.६ ।।
मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत्।
गन्धमादनश्रृङ्गे तु धनदः स्यादुदङ्मुखः।। ९२.७ ।।
प्राङ्मुखो वेदमूर्तिस्तु हंसः स्याद्विपुलाचले।
हैमी सुपार्श्वेसुरभिर्दक्षिणाभिमुखो भवेत्।। ९२.८ ।।
धान्यपर्वतवत् सर्वमावाहनविधानकम्।
कृत्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमम्।।
ऋत्विग्म्यश्चतुरः शैलानिमान्मन्त्रानुदीरयन्।। ९२.९ ।।
सौभाग्यामृतसारोऽयं पर्वतः शर्करायुतः।
तस्मादानन्दकारीत्वं भवशैलेन्द्र! सर्वदा।। ९२.१० ।।
अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः।
देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल!।। ९२.११ ।।
मनो भवधनुर्मध्यादुद्भूता शर्करायतः।
तन्मयोऽसि महाशैल! पाहि संसारसागरात्।। ९२.१२ ।।
यो दद्याच्छर्कराशैलमनेन विधिना नरः।
सर्वपापैर्विनिर्मुक्तः स याति परमम्पदम्।। ९२.१३ ।।
चन्द्रतारार्कसङ्काशमधिरुह्यानुजीविभिः।
सहैव यानमातिष्ठेत् तत्र विष्णुप्रचोदितः।। ९२.१४ ।।
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्।
आयुरारोग्यसम्पन्नो यावज्जन्मार्बुदत्रयम्।। ९२.१५ ।।
भोजनं शक्तितः कुर्यात् सर्वशैलेष्वमत्सरः।
सर्वत्र क्षारलवणमश्नीयात्तदनुज्ञया।
पर्वतोपस्करान् सर्वान् प्रापयेद् ब्राह्मणालयम्।। ९२.१६ ।।
ईश्वर उवाच।
आसीत् पुरा बृहत्कल्पे धर्म्ममूर्त्तिर्जनाधिपः।
सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः।। ९२.१७ ।।
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः।
भवन्ति शतशो येन शत्रवश्चापराजिताः।
यथेच्छारूपधारी च मनुष्योऽप्यपराजितः।। ९२.१८ ।।
तस्य भानुमती नाम भार्या त्रैलोक्यसुन्दरी।
लक्ष्मीवद्दिव्यरूपेण निर्जितामरसुन्दरी।। ९२.१९ ।।
राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी।
दशनारीसहस्राणां मध्ये श्रीरिव राजते।। ९२.२० ।।
नृपकोटिसहस्रेण न कादिचत् समुच्यते।
कदाचिदास्थानगतः पप्रच्छ स पुरोधसम्।
विस्मयेनावृतो राजा वसिष्ठमृषिसत्तमम्।। ९२.२१ ।।
भगवन्! केन धर्मेण मम लक्ष्मीरनुत्तमा।
कस्माच्च विपुलन्तेजो मच्छरीरे सदोत्तमम्।। ९२.२२ ।।
पुरा लीलावती नाम वेश्या शिवपरायणा।
तथा दत्तश्चतुर्दश्याङ्गुरवे लवणाचलः।
हेमवृक्षादिभिः सार्द्धं यथावद्विधिपूर्वकम्।। ९२.२३ ।।
शूद्रः सुवर्णकारश्च नाम्ना शौण्डोऽभवत्तदा।
भृत्योलीलावती गेहे तेन हेम्ना विनिर्मिताः।। ९२.२४ ।।
तरवः सुरमुख्याश्च श्रद्धायुक्तेन पार्थिव।
अतिरूपेण संपन्ना घटयित्वा विनाभृतिम्।।
धर्म्मकार्य्यमिति ज्ञात्वा न गृह्णाति कथञ्चन।। ९२.२५ ।।
उज्वलिताश्च तत्पत्न्या सौवर्णामरपादपाः।
लीलावतीगिरेः पार्श्वे परिचर्याञ्च पार्थिव।। ९२.२६ ।।
कृत्वा ताभ्यामशाठ्ये न गुरुशुश्रूषणादिकम्।
सा च लीलावतीवेश्या कालेन महतापि च।। ९२.२७ ।।
कालधर्म्ममनुप्राप्ता कर्म्मयोगेन नारद।
सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम्।। ९२.२८ ।।
योऽसौ सुवर्णकारस्तु दरिद्रोऽप्यतिसत्ववान्।
न मौल्यमादाद्वेश्यातः स भवानिह साम्प्रतम्।। ९२.२९ ।।
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः।
यया सुवर्णकारस्य तरवो हेमनिर्मिताः।
सम्यगुज्वालिताः पत्न्या सेयम्भानुमती तव ।। ९२.३० ।।
उज्वालनादुज्वलरूपमस्याः सञ्जातमस्मिन् भुवनाधिपत्यम्।
यस्मात् कृतं तत्परिकर्म्म रात्रावनुद्धाताभ्यां लवणाचलस्य।
तस्माच्च लोकेष्वपराजितत्वमारोग्यसौभाग्युयुता च लक्ष्मीः।। ९२.३१ ।।
तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन् दशधा कुरुष्व।
तथेति सत्कृत्य स धर्म्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान्।
धान्याचलादीन् शतशो मुरारेर्लोकं जगामामरपूज्यमानः।। ९२.३२ ।।
पश्येदपीमान्नधनोऽति भक्त्या स्पृशेन्मनुष्यैरपि दीयमानान्।
श्रृणोति भक्त्याऽथ मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति।। ९२.३३ ।।
दुःस्वप्नं प्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यः।
यः कुर्यात् किमु मुनिपुङ्गवेह सम्यक् शान्तात्मा सकलगिरीन्द्रसम्प्रदानम्।। ९२.३४ ।।