मत्स्यपुराणम्/अध्यायः २२८
मनुमत्स्यसंवादे त्रिविधमहोत्पातेषु शान्तिविधानम् ।
मनुरुवाच।
दिव्यान्तरिक्षभौमेषु या शान्तिरभिधीयते।
तामहं श्रोतुमिच्छामि महोत्पातेषु केशव! ।। २२८.१ ।।
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि त्रिविधामद्भुतादिषु ।
विशेषेणतु भौमेषु शान्तिः कार्य्य तथा भवेत् ।। २२८.२ ।।
अभया चान्तरिक्षेषु सौम्या दिव्येषु पार्थिव!।
विजिगीषुः परं राजन्! भूतिकामस्तु यो भवेत् ।। २२८.३ ।।
विजिगीषुः परानेवमभियुक्तस्तथा परैः।
तताभिचारशङ्कायां शत्रूणामभिनाशने ।। २२८.४ ।।
भये महति संप्राप्ते अभया शान्तिरिष्यते।
राजयक्ष्माभि भूतस्य क्षतक्षीणस्य चाप्यथ।। २२८.५ ।।
सौम्या प्रशस्यते शान्तिर्यज्ञकामस्य चाप्यथ।
भूकम्पे च समुत्पन्ने प्राप्ते चान्नक्षये तथा ।। २२८.६ ।।
अतिवृष्ट्यामनावृष्ट्यां शलभानां भयेषु च।
प्रमत्तेषु च चोरेषु वैष्णवी शान्तिरिष्यते ।। २२८.७ ।।
पशूनां मारणे प्राप्ते नराणामपि दारुणे।
भूतेषु दृश्यमानेषु रौद्री शान्तिस्तथेष्यते ।। २२८.८ ।।
वेदनाशे समुत्पन्ने जने जाते च नास्तिके।
अपूज्यपूजने जाते ब्राह्मी शान्तिस्तथेष्यते ।। २२८.९ ।।
भविष्यत्यभिषेके च परचक्रभयेऽपि च।
स्वराष्ट्रभेदेऽरिवधे रौद्री शान्तिः प्रशस्यते ।। २२८.१० ।।
त्र्यहातिरिक्ते पवने भक्ष्ये सर्वविगर्हिते।
वैकृते वातजे व्याधौ वायवी शान्तिरिष्यते ।। २२८.११ ।।
अनावृष्टिभये जाते प्राप्ते विकृतिवर्षणे।
जलाशयविकारेषु वारुणी शान्तिरिष्यते ।। २२८.१२ ।।
अभिशापभये प्राप्ते भार्गवी च तथैव च।
जाते प्रसववैकृत्ये प्राजापत्या महाभुज!।। २२८.१३ ।।
उपस्कराणां वैकृत्ये त्वाष्ट्री पार्थिवनन्दन!।
बालानां शान्तिकामस्य कौमारी च तथा नृप! ।। २२८.१४ ।।
कुर्याच्छान्तिमथाग्नेयीं सम्प्राप्ते वह्निवैकृते।
आज्ञाभङ्गे तु सञ्जाते तथा भृत्यादि सङ्क्षये ।। २२८.१५ ।।
अश्वानां शान्तिकामस्य तद्विकारे समुत्थिते।
अश्वानां कामयानस्य गान्धर्वी शान्तिरिष्यते ।। २२८.१६ ।।
गजानां शान्तिकामस्य तद्विकारे समुत्थिते।
गजानां कामयानस्य शान्तिराङ्गिरसी भवेत् ।। २२८.१७ ।।
पिशाचादि-भये जाते शान्तिर्वै नैर्ऋती स्मृता।
अपमृत्युभये जाते दुःखप्ने च तथा स्थिते ।। २२८.१८ ।।
याम्यान्तु कारयेच्छान्तिं प्राप्ते तु नरके तथा।
धननाशे समुत्पन्ने कौवेरी शान्तिरिष्यते ।। २२८.१९ ।।
वृक्षाणाञ्च तथार्थानां वैकृते समुपस्थिते।
भूतिकामस्तथा शान्तिं पार्थिवीं प्रतियोजयेत् ।। २२८.२० ।।
प्रथमे दिनयामे च रात्रौ वा मनुजोत्तम!।
हस्ते स्वातौ च चित्रायामादित्ये चाश्विने तथा ।। २२८.२१ ।।
अर्यम्णि सौम्य! जातेषु वायव्यां त्वद्भुतेषु च।
द्वितीये दिनयामे तु रात्रौ च रविनन्दन! ।। २२८.२२ ।।
पुष्पाग्रे ये विशाखासु पित्र्यासु भरणीषु च।
उत्पातेषु तथा भाग्ये आग्नेयीं तेषु कारयेत् ।। २२८.२३ ।।
तृतीये दिनयामे च रात्रौ च रविनन्दन!।
रोहिण्यां वैष्णवे ब्राह्मे वासवे वैश्वदेवते ।। २२८.२४ ।।
ज्येष्ठायाञ्च तथा मैत्रे ये भवन्त्यद्भुताः क्वचित्।
ऐन्द्री तेषु प्रयोक्तव्या शान्ती रविकुलोद्वह! ।। २२८.२५ ।।
चतुर्थे दिनयामे रात्रौ वा रविनन्दन!।
सार्पे पौष्णे तथार्द्रायामहिर्बुध्न्ये च दारुणे ।। २२८.२६ ।।
मूले वरुणदैत्ये ये भवन्त्यद्भुतास्तथा।
वारुणी तेषु कर्त्तव्या महाशान्तिर्महीक्षिता ।। २२८.२७ ।।
मित्रमण्डलवेलासु ये भवन्त्यद्भुताः क्वचित्।
तत्र शान्तिद्वयं कार्यं निमित्तेषु च नान्यथा।
निर्निमित्तकृता शान्तिर्निमित्तेनोपयुज्यते ।। २२८.२८ ।।
बाणप्रहारा न भवन्ति यद्वद्राजन्नृणां सन्नहनैर्युतानाम्।
दैवोपघाता न भवन्ति तद्वद्धर्मात्मनां शान्तिपरायणानाम् ।। २२८.२९ ।।