मत्स्यपुराणम्/अध्यायः २०१
ऋषीणामाख्याने निमेराख्यानवर्णनम्।
मत्स्य उवाच।
वसिष्ठस्तु महातेजा निमे पूर्वपुरोहितः।
बभूव पार्थिवश्रेष्ठ! यज्ञास्तस्य समन्ततः ।। २०१.१ ।।
श्रान्तात्मा पार्थिवश्रेष्ठ! विशश्राम तदा गुरुः।
तं गत्वा पार्थिवश्रेष्ठो निमिर्वचनमब्रवीत् ।। २०१.२ ।।
भगवन्यष्टुमिच्छामि तन्मां याजयमाचिरम्।
तमुवाच महातेजा वसिष्ठः पार्थिवोत्तमम् ।। २०१.३ ।।
कञ्चित्कालं प्रतीक्षस्व तव यज्ञैः सुसत्तमैः।
श्रान्तोऽस्मि राजन्! विश्रम्य याजयिष्यामि ते नृपः ।। २०१.४ ।।
एवमुक्तः प्रत्युवाच वसिष्ठं नृपसत्तम!।
पारलौकिककार्ये तु कः प्रतीक्षितुमुत्सहेत् ।। २०१.५ ।।
न च मे सौहृदं ब्रह्मन्! कृतान्तेन बलीयसा।
धर्मकार्ये त्वरा कार्या चलं यस्माद्धि जीवितम् ।। २०१.६ ।।
धर्मपथ्यौदनो जन्तुर्मृतोऽपि सुखमश्नुते।
श्वः कार्य्यमद्य कुर्वीत पूर्वाह्णे चापराह्निकम् ।। २०१.७ ।।
न हि प्रतीक्षते मृत्युः कृतञ्चास्य न वा कृतम्।
क्षेत्रापणगृहासक्तमन्यत्र गतमानसम् ।। २०१.८ ।।
वृकश्चोरणमासाद्य मृत्युरादाय गच्छति।
नैकान्तेन प्रियः कश्चित्द्वेष्य चास्य न विद्यते ।। २०१.९ ।।
आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम्।
प्राणवायोश्चलत्वञ्च त्वया विदितमेव च ।। २०१.१० ।।
यदत्र जीव्यते ब्रह्मन्! क्षणमात्रन्तदद्भुतम्।
शरीरं शाश्वतं मन्ये विद्याभ्यासे धनार्जने ।। २०१.११ ।।
अशाश्वतं धर्मकार्ये ऋणवानस्मि सङ्कटे।
सोऽहं संभृत सम्भारो भवन्मूलमुपागतः ।। २०१.१२ ।।
नचेद्याजयसे मां त्वं अन्यं यास्यामि याजकम्।
एवमुक्तस्तदा तेन निमिना ब्राह्मणोत्तमः ।। २०१.१३ ।।
शशाप तं निमिं क्रोधाद्विदेहस्त्वं भविष्यसि।
श्रान्तं मां त्वं समुत्सृज्य यस्मादन्यं द्विजोत्तमम् ।। २०१.१४ ।।
धर्मज्ञस्तु नरेन्द्र! त्वं याजकं कर्तुमिच्छसि।
निमिस्तं प्रत्युवाचाथ धर्मकार्यरतस्य मे ।। २०१.१५ ।।
विघ्नङ्करोषि नान्येन याजनं च तथेच्छसि।
शापं ददासि यस्मात्वं विदेहोऽथ भविष्यसि ।। २०१.१६ ।।
एवमुक्ते तु तौ जातौ विदेहौ द्विजपार्थिवौ।
देहहीनौ तयोर्जीवौ ब्रह्मणमुपजग्मतुः ।। २०१.१७ ।।
तावागतौ समीक्ष्याथ ब्रह्मा वचनमब्रवीत्।
अद्य प्रभृति ते स्थानं निमि जीव ददाम्यहम् ।। २०१.१८ ।।
नेत्र पक्ष्मसु सर्वेषां त्वं वसिष्यसि पार्थिव।
त्वत् सम्बन्धात्तथा तेषां निमेषः सम्भविष्यति ।। २०१.१९ ।।
चालयिष्यन्ति तु तदा नेत्र पक्ष्माणि मानवाः।
एवमुक्ते मनुष्याणां नेत्र पक्ष्मसु सर्वशः ।। २०१.२० ।।
जगाम निमिजीवस्तु वरदानात् स्वयम्भुवः।
वसिष्ठ जीवं भगवान् ब्रह्मा वचनमब्रवीत् ।। २०१.२१ ।।
मित्रावरुणयोः पुत्रो वसिष्ठ! त्वं भविष्यसि।
वसिष्ठेति च ते नाम तत्रापि च भविष्यति ।। २०१.२२ ।।
जन्मद्वयमतीतञ्च तत्रापि त्वं स्मरिष्यसि।
एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ।। २०१.२३ ।।
बदर्याश्रममासाद्य तपस्तेपतुरव्ययम्।
तपस्यतोस्तयोरेवं कदाचिन्माधवे ऋतौ ।। २०१.२४ ।।
पुष्पितद्रुमसंस्थाने शुभे द्वयितमारुते।
उर्वशी तु वरारोहा कुर्वती कुसुमोच्चयम् ।। २०१.२५ ।।
सुसूक्ष्मरक्तवसना तयोर्दृष्टिपथङ्गता।
तां दृष्ट्वा सुमुखीं सुभ्रं नीलनीरजलोचनाम् ।। २०१.२६ ।।
उभौ चुक्षुभतुर्धैर्यात्तद्रूपपरिमोहितौ।
तपस्यतोस्तयो वीर्यमस्खलच्च मृगासने ।। २०१.२७ ।।
स्कन्नं रेतस्ततो दृष्ट्वा शापभीतौ परस्परम्।
चक्रतुः कलशे शुक्रं तोयपूर्णे मनोरमे ।। २०१.२८ ।।
तस्मादृषिवरौ जातौ तेजसा प्रतिमौ भुवि।
वसिष्ठश्चाप्यगस्त्यश्च मित्रावरुणयोर्द्वयोः ।। २०१.२९ ।।
वसिष्ठस्तूपयेमेऽथ भगिनीं नारदस्य तु।
अरुन्धतीं वरारोहां तस्यां शक्तिमजीजनत् ।। २०१.३० ।।
शक्तेः पराशरः पुत्रस्तस्य वंशं निबोध मे।
यस्य द्वैपायनः पुत्रः स्वयं विष्णुरजायत ।। २०१.३१ ।।
प्रकाशो जनितो येन लोके भारत चन्द्रमाः।
पराशरस्य तस्य त्वं श्रृणु वंशमनुत्तमम् ।। २०१.३२ ।।
काण्डषपो वाहनपो जैह्मपो भौमतापनः।
गोपालिरेषां पञ्चम एते गौराः पराशराः ।। २०१.३३ ।।
प्रपोहयावाह्य मयाः ख्याते याः कौतुजातयः।
हर्यश्विः पञ्चमो ह्येषां नीलाज्ञेयाः पराशराः ।। २०१.३४ ।।
कार्ष्णायनाः कपि सुखाः काकेयस्था जपातयः।
पुष्करः पञ्चमश्चैषां कृष्णाज्ञेयाः पराशराः ।। २०१.३५ ।।
आविष्टायन वालेया स्वायष्टाश्चोपयाश्च ये।
इषीकहस्ताश्चैते वै पञ्चश्वेताः पराशराः ।। २०१.३६ ।।
पाटिको बादरिश्चैवस्तम्बा वै क्रोधनायनाः।
क्षैमिरेषां पञ्चमस्तु एते श्यामाः पराशराः ।। २०१.३७ ।।
खल्यायनाः वार्ष्णायनास्तैलेयः खलु यूथपाः।
तन्तिरेषां पञ्चमस्तु एते धूम्राः पराशराः ।। २०१.३८ ।।
उक्तास्तवैते नृप! वंशमुख्याः पराशराः सूर्यसमप्रभावाः।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ।। २०१.३९ ।।