मत्स्यपुराणम्/अध्यायः २३५
Jump to navigation
Jump to search
शान्तिविधानवर्णनम्।
गर्ग उवाच।
अकालप्रसवा नार्यः कालातीत प्रजास्तथा।
विकृतप्रसवाश्चैव युग्म संप्रसवास्तथा ।। २३५.१ ।।
अमानुषा ह्यतुण्डांश्च सञ्जात व्यसनास्तथा।
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ।। २३५.२ ।।
पश्वः पक्षिणश्चैव तथैव च सरीसृपाः।
विनाशन्तस्य देशस्य कुलस्य च विनिर्दिशेत् ।। २३५.३ ।।
विवासयेत्तान्नृपतिः स्वराष्ट्रात् स्त्रियश्च पूज्याश्च ततो द्विजेन्द्राः!।
कस्येच्छकैः ब्राह्मणतर्पणञ्च लोके ततः शान्तिमुपैति पापम् ।। ३५.४ ।।