मत्स्यपुराणम्/अध्यायः ८४
लवणाचलदानवर्णनम्।
ईश्वर उवाच।
अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम्।
यत्प्रदानान्नरोलोकानाप्नोति शिवसंयुतान्।। ८४.१ ।।
उत्तमः षोड़शद्रोणैः कर्त्तव्यो लवणाचलः।
मध्यमः स्यात्तदर्द्धेन चतुर्भिरधमः स्मृतः।। ८४.१ ।।
वित्तहीनो यथाशक्त्या द्रोणादूद्र्ध्वन्तु कारयेत्।
चतुर्थांशेन विष्कम्भ पर्वतान् कारयेत् पृथक्।। ८४.३ ।।
विधानं पूर्ववत्कुर्य्याद् ब्रह्मादीनाञ्च सर्वदा।
तद्वद् हेममयान् सर्व्वान् लोकपालान्निवेशयेत्।। ८४.४ ।।
सरांसि कामदेवादींस्तद्वदत्रापि कारयेत्।
कुर्य्याज्जागरणञ्चापि दानमन्त्रान्निबोधत।। ८४.५ ।।
सौभाग्यसरसम्भूतो यतोऽयं लवणो रसः।
तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम।। ८४.६ ।।
यस्मादन्नरसाः सर्वे नोत्कटालवणं विना।
प्रियञ्चशिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे।। ८४.७ ।।
विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्द्धनम्।
तस्मात्पर्वतरूपेण पाहि संसारसागरात्।। ८४.८ ।।
अनेन विधिना यस्तु दद्याल्लवणपर्वतम्।
उमालोके वसेत्कल्पं ततो याति परां गतिम्।। ८४.९ ।।