मत्स्यपुराणम्/अध्यायः ११६
हैमवतीनदीमाहात्म्यवर्णनम्।
सूत उवाच।
स ददर्शनदीं पुण्यां दिव्यां हैमवतीं शुभाम्।
गन्धर्वैश्च समाकीर्णां नित्यं शक्रेणसेविताम्।। ११६.१ ।।
सुरेभमदसंसिक्तां समन्तात्तु विराजिताम्।
मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा।। ११६.२ ।।
तपस्विशरणोपेतां महाब्राह्मणसेविताम्।
ददर्श तपनीयाभां महाराजः पुरूरवाः।। ११६.३ ।।
सितहंसावलिच्छन्नाङ्काशचामरराजिताम्।
साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ।। ११६.४ ।।
पुण्यां सुशीतलां हृद्यां मनसः प्रतिवर्द्धिनीम्।
क्षयवृद्धियुतां रम्यां सोममूर्त्तिमिवापराम्।। ११६.५ ।।
सुशीतशीघ्रपानीयां द्विजसङ्घनिषेविताम्।
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचि विराजिताम्।। ११६.६ ।।
अमृतस्वादुसलिलान्तापसैरुपशोभिताम्।
स्वर्गारोहणनिः श्रेणीं सर्वकल्मषनाशिनीम्।। ११६.७ ।।
अग्य्रां समुद्रमहिषीं महर्षिगणसेविताम्।
सर्वलोकस्य चौत्सुक्यकारिणीं सुमनोहराम्।। ११६.८ ।।
हितां सर्वस्य लोकस्य नाकमार्गं प्रदायिकाम्।
गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम्।। ११६.९ ।।
हंससारससंघुष्टां जलजैरुपशोभिताम्।
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम्।। ११६.१० ।।
नीलनीरजनेत्राभां उत्फुल्लकमलाननाम्।
हिमाभफेनवसनाञ्चक्रवाकाधरां शुभाम्।।
बलाकापङ्क्तिदशनाञ्चलन्मत्स्यावलिभ्रुवम्।। ११६.११ ।।
स्वजलोद्भूतमातङ्गरम्यकुम्भपयोधराम्।
हंसनूपुरसंघुष्टां मृणालवलयावलीम्।। ११६.१२ ।।
तस्यां रूपमहोन्मत्ता गन्धर्वानुगताः सदा।
मध्याह्नसमये राजन्! क्रीड़न्त्यप्सरसाङ्गणाः।। ११६.१३ ।।
तामप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम्।
स्वतीरद्रुमसम्भूतनानावर्णसुगन्धिनीम्।। ११६.१४ ।।
तरङ्गव्रतसंक्रान्त सूर्य्यमण्डलदुर्द्रृशम्।
सुरेभजनिताघातविकूलद्वयभूषिताम्।। ११६.१५ ।।
शक्रेभगण्डसलिलैर्देवस्त्रीकुलचन्दनैः
संयुतं सलिलं तस्याः षट्पदैरुपसेव्यते।। ११६.१६ ।।
तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाच्चिताः।
तथापकृष्टसम्भ्रान्तभ्रमरस्तनिताकुलाः।। ११६.१७ ।।
यस्यास्तीरे रितं यान्ति सदा कामवशा मृगाः।
तपोधनाश्च ऋषयस्तथा देवाः सहाप्सराः।। ११६.१८ ।।
लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः।
स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननः।। ११६.१९ ।।
या बिभर्ति सदा तोयं देवसंघैरपीड़ितम्।
पुलिन्दैर्नृपसङ्घैश्च व्याघ्रवृन्दैरपीड़ितम्।। ११६.२० ।।
सतामरसपानीयां सतारगगनामलाम्।
सतां पश्यन् ययौ राजा सतामीप्सितकामदाम्।। ११६.२१ ।।
यस्यास्तिररुहैः काशैः पूर्णैश्चन्द्रांशुसन्निभैः।
राजते विविधाकारैः रम्यं तीरं महाद्रुमैः।।
या सदा विविधैर्विप्रैर्देवैश्चापि निषेव्यते।। ११६.२२ ।।
या च सदा सकलोघविनाशं भक्तजनस्य करोत्यचिरेण।
यानुगता सरितां हिकदम्बैर्यानुगता सततं हि मुनीन्द्रैः।। ११६.२३ ।।
या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंधैः।
या च युता सततं सुरवृन्दैर्या च जनैः स्वहिताय श्रिता वै।। ११६.२४ ।।
युक्ता च केसरिगणैः करिवृन्दजुष्टा सन्तानयुक्तसलिलापि सुवर्णयुक्ता।
सूर्य्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा दद्रृशे नृपेण।। ११६.२५ ।।