सामग्री पर जाएँ

मत्स्यपुराणम्/अध्यायः २१५

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







अभिषिक्तस्यराज्ञः कृत्यवर्णनम्।
मनुरुवाच।
राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत्।
एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ।। २१५.१ ।।

मत्स्य उवाच।
अभिषेकार्द्र शिरसा राज्ञा राज्यावलोकिना।
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ।। २१५.२ ।।

यदप्यल्पतरं कर्म तदप्येकेन दुश्चरम्।
पुरुषेणासहायेन किमु राज्यं महोदयम् ।। २१५.३ ।।

तस्मात्सहायान् वरयेत् कुलीनान्नृपतिः स्वयम्।
शूरान् कुलीनजातीयान् बलयुक्तान् श्रियान्वितान् ।। २१५.४ ।।

रूपसत्वगुणोपेतान् सज्जनान् क्षमयान्वितान्।
क्लेशक्षमान् महोत्साहान् धर्मज्ञांश्च प्रियं वदान् ।। २१५.५ ।।

हितोपदेशकान्राज्ञः स्वामिभक्तान्यशोऽर्थिनः।
एवं विधान् सहायांश्च शुभकर्मस्तु योजयेत् ।। २१५.६ ।।

गुणहीना अपि तथा विज्ञाय नृपतिः स्वयम्।
कर्मस्वेव नियुञ्जीत यथा योग्येषु भागशः ।। २१५.७ ।।

कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः।
हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषिता ।। २१५.८ ।।

निमित्ते शकुने ज्ञाने वेत्ता चैव चिकित्सिते।
कृतज्ञः कर्मणां शूरस्तथा क्लेशसहो ऋजुः ।। २१५.९ ।।

व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित्।
राज्ञासेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथवा ।। २१५.१० ।।

प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः।
चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ।। २१५.११ ।।

यथोक्तवादी दूतः स्याद्देशभाषा विशारदः।
शक्तुः क्लेशसहो वाग्मी देशकालविभागवित् ।। २१५.१२ ।।

विज्ञाता देशकालश्च दूतः स स्यान् महीक्षितः।
वक्ता न यस्य यः काले स दूतो नृपतेर्भवेत् ।। २१५.१३ ।।

प्रांशवो व्यायताः शूराः दृढभक्ता निराकुलाः।
राज्ञा तु रक्षिण कार्याः सदा क्लेशसहा हिताः ।। २१५.१४ ।।

अनाहार्यो नृशंसश्च दृढभक्तिश्च पार्थिवे।
ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ।। २१५.१५ ।।

षाड्गुण्यविधितत्त्वज्ञो देशभाषा विशारदः।
सन्धिविग्रहकः कार्यो राज्ञा नयविशारदः ।। २१५.१६ ।।

कृताकृतज्ञो भृत्यानां ज्ञेयः स्याद्देशरक्षिता।
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ।। २१५.१७ ।।

सुरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः।
शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ।। २१५.१८ ।।

शूरश्च बलयुक्तश्च गजाश्वरथकोविदः।
धनुर्धारी भवेद्राज्ञः सर्वक्लेशसहः शुचिः ।। २१५.१९ ।।

निमित्तशकुनज्ञानी हयशिक्षाविशारदः।
हयायुर्वेदतत्त्वज्ञो भुवो भागविचक्षणः ।। २१५.२० ।।

बलावलज्ञो रथिनः स्थिरदृष्टिः प्रियम्वदः।
शूरश्च कृतविद्यश्च सारथिः परिकीर्तितः ।। २१५.२१ ।।

अनाहार्यः रुचिर्दक्षश्चिकित्सित विदाम्वरः।
सूपशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ।। २१५.२२ ।।

सूदशस्त्रविधानज्ञाः परभेद्या कुलोद्गताः।
सर्वे महानसे धार्याः कृत्तकेशनखा नराः ।। २१५.२३ ।।

समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः।
विप्रमुख्यः कुलीनश्च धर्माधिकरणी भवेत् ।। २१५.२४ ।।

कार्यास्तथा विधास्तत्र द्विजमुख्याः सभासदः।
सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ।। २१५.२५ ।।

लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै।
शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान् समान् ।। २१५.२६ ।।

आन्तरान्वै लिखेद्यस्तु लेखकः स वरः स्मृतः।
उपायवाक्यकुशलः सर्वशास्त्रविशारदः ।। २१५.२७ ।।

बह्वर्थवक्ता चाल्पेन लेखकः स्यान्नृपोत्तम!।
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ।। २१५.२८ ।।

धर्माधिकारिणः कार्याः जना दानकरा नराः।
एवम्विधास्तथा कार्या राज्ञा दौवारिका जनाः ।। २१५.२९ ।।

लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित्।
विज्ञाता फल्गुसाराणामनाहार्यः शुचिः सदा ।। २१५.३० ।।

निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्तितः।
आयद्वारेषु सर्वेषु धनाध्यक्ष समा नराः ।। २१५.३१ ।।

व्यवहारेषु च तथा कर्तव्याः पृथिवीक्षिता।
परम्परागतो यः स्यादष्टाङ्गे सुचिकित्सिते ।। २१५.३२ ।।

अनाहार्यः स वैद्यः स्यात् धर्मात्मा च कुलोद्गतः।
प्राणाचार्यः स विज्ञेयो वरुणात्तस्य भूभुजा ।। २१५.३३ ।।

राजन्! राज्ञा सदा कार्यं यथाकार्यं पृथक् जनैः।
हस्तिशिक्षा-विधानज्ञो वनजातिविशारदः ।। २१५.३४ ।।

क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते।
एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः ।। २१५.३५ ।।

गजारोही नरेन्द्रस्य सर्वकर्मसु शस्यते।
हयशिक्षाविधानज्ञश्चिकित्सित विशारदः ।। २१५.३६ ।।

अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते।
अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ।। २१५.३७ ।।

दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्वकर्मसु।
वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः ।। २१५.३८ ।।

दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः।
यन्त्रमुक्ते पाणिमुक्ते विमुक्ते मुक्तधारिते ।। २१५.३९ ।।

अस्त्राचार्यो निरुद्वेगः कुशलश्च विशिष्यते।
वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचि ।। २१५.४० ।।

राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते।
एवं सप्ताधिकारेषु पुरुषाः सप्त ते पुरे ।। २१५.४१ ।।

परीक्ष्य चाधिकार्याः स्युः राज्ञा सर्वेषु कर्मसु।
स्थापना जाति तत्त्वज्ञः सततं प्रतिजाग्रता ।। २१५.४२ ।।

राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः।
कर्माण्यपरिमेयानि राज्ञो नृपकुलोद्वह!।। २१५.४३ ।।

उत्तमाधम मध्यानि बुद्ध्वा कर्माणि पार्थिवः।
उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ।। २१५.४४ ।।

नरकर्मविपर्यासाद्राजा नाशमवाप्नुयात्।
नियोगं पौरुषं भक्ति श्रुतं शौर्यं कुलं नयम् ।। २१५.४५ ।।

ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणां महीक्षिता।
पुरुषान्तरविज्ञान तत्त्वसारनिबन्धनात् ।। २१५.४६ ।।

बहुभिर्मन्त्रयेत् कामं राजा मन्त्रं पृथक् पृथक्।
मन्त्रिणामपि नो कुर्यान्मन्त्रिमन्त्र प्रकाशनम् ।। २१५.४७ ।।

क्वचिन्न कस्य विश्वासो भवतीह सदा नृणाम्।
निश्चयस्तु सदा मन्त्रे कार्य एकेन सूरिणा ।। २१५.४८ ।।

भवेद्वा निश्चयावाप्तिः परबुध्युपजीवनात्।
एकस्यैव महीभर्तुर्भूयः कार्यो विनिश्चयः ।। २१५.४९ ।।

ब्राह्मणान् पर्युपासीत त्रयी शास्त्रसु निश्चितान्।
नासच्छास्त्रवतो मूढास्ते हि लोकस्य कण्टकाः ।। २१५.५० ।।

वृद्धान् हि नित्यं सेवेत विप्रान् वेदविदः शुचीन्।
तेम्यः शिक्षेत विनयं विनीतात्मा च नित्यशः ।। २१५.५१ ।।

समग्रां वशगां कुर्य्यात् पृथिवीं नात्र संशयः।
बहवो विनयाद्भ्रष्टा राजानः सपरिच्छदाः ।। २१५.५२ ।।

वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे।
त्रैविद्येभ्यस्त्रयीविद्यां दण्डनीतिं च शाश्वतीम् ।। २१५.५३ ।।

आन्वीक्षिकीं त्वात्मविद्याम्वार्तारम्भाश्च लोकतः।
इन्द्रियाणां जये योगं समातिष्ठेद्दिवा निशम् ।। २१५.५४ ।।

जितेन्द्रियोहि शक्नोति वशे स्थापयितुं प्रजाः।
यजेत राजा बहुभिः क्रतुभिश्च सदक्षिणैः ।। २१५.५५ ।।

धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान्धनानि च।
साम्वत्सरिकमाप्तैश्च राष्ट्रादाहारयेद् बलिम् ।। २१५.५६ ।।

स्यात् स्वाध्याय-परो-लोके वर्तेत पितृबन्धुवत्।
आवृत्तानां गुरुकुलात्द्विजानां पूजको भवेत् ।। २१५.५७ ।।

नृपाणामक्षयो ह्येष विधिर्ब्राह्मोऽभिधीयते।
ततस्तेनानवा मित्रा हरन्ति न विनश्यति ।। २१५.५८ ।।

तस्माद्राज्ञा विधातव्यो ब्राह्मो वै ह्यक्षयो विधिः।
समोत्तमाधमै राजा ह्याहूय पालयेत्प्रजाः ।। २१५.५९ ।।

न निवर्तेत संग्रामात् क्षात्रं व्रतमनुस्मरन्।
संग्रामेश्वनिवर्तित्वं प्रजानां परिपालनम् ।। २१५.६० ।।

शुश्रूषा ब्राह्मणानाञ्च राज्ञां निश्रेयसम्परम्।
कृपणा नाथवृद्धानां विधवानाञ्च पालनम् ।। २१५.६१ ।।

योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत्।
वर्णाश्रमव्यवस्थानं तथा कार्यं विशेषतः ।। २१५.६२ ।।

स्वधर्मप्रच्युतान् राजा स्वधर्मे स्थापयेत्तथा।
आश्रमेषु तथा कार्यमन्नं तैलञ्च भाजनम् ।। २१५.६३ ।।

स्वयमेवानयेद्राजा सत्कृतान्नावमानयेत्।
तापसे सर्वकार्यापि राज्यमात्मानमेव च ।। २१५.६४ ।।

निवेदयेत्प्रयत्नेन देववच्चिरमर्चयेत्।
द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ।। २१५.६५ ।।

वक्रां ज्ञात्वा न सेवेत प्रतिबाधेत चागताम्।
नास्य च्छिद्रं परो विन्द्याद्विन्द्याच्छिद्रं परस्य तु ।। २१५.६६ ।।

गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः।
न विश्वसेदविश्वस्ते विश्वस्तेनातिविश्वसेत् ।। २१५.६७ ।।

विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति।
विश्वासयेच्चाप्यपरन्तत्त्वभूतेन हेतुना ।। २१५.६८ ।।

बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमे।
वृकवच्चापि लुम्पेन शशवच्च विनिक्षिपेत् ।। २१५.६९ ।।

दृढप्रहारी च भवेत् तथा सूकरवन्नृपः।
चित्राकारश्च शिखिवद्दृढभक्तस्तथाश्ववत् ।। २१५.७० ।।

तथा च मधुरा भाषी भवेत्कोकिलवन्नृपः।
काकशङ्की भवेन्नित्यमज्ञातवसतिं वसेत् ।। २१५.७१ ।।

नापरीक्षितपूर्वञ्च भोजनं शयनं व्रजेत्।
वस्त्रं पुष्पमलङ्कारं यच्चान्यन्मनुजोत्तम! ।। २१५.७२ ।।

न गाहेज्जनसम्बाधं न चाज्ञातजलाशयम्।
अपरीक्षितपूर्वञ्च पुरुषैराप्तकारिभिः ।। २१५.७३ ।।

नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा।
नाविज्ञातां स्त्रियं गच्छेन्नैव देवोत्सवे वसेत् ।। २१५.७४ ।।

नरेन्द्रलक्ष्म्या धर्मज्ञ त्राता यत्तो भवेन्नृपः।
सद्भृत्याश्च तथा पुष्टाः सततं प्रतिमानिताः ।। २१५.७५ ।।

राज्ञा सहायाः कर्तव्याः पृथिवीं जेतुमिच्छता।
यथार्हञ्चाप्यसुभृतो राजा कर्मसु योजयेत् ।। २१५.७६ ।।

धर्मिष्ठान् धर्मकार्येषु शूरान् संग्रामकर्मसु।
निपुणानर्थकृत्येषु सर्वत्रैव तथा शुचीन् ।। २१५.७७ ।।

स्त्रीषु षण्ढं नियुञ्जीत तीक्ष्णं दारुणकर्मसु।
धर्मे चार्थे च कामे च नये च रविनन्दन!।। २१५.७८ ।।

राजा यथार्हङ्कुर्याच्च उपधाभिः परीक्षणम्।
समतीतोपदान् भृत्यान् कुर्याच्छस्तवने चरान् ।। २१५.७९ ।।

तत्पादान्वेषणो यत्तांस्तदध्यक्षांस्तु कारयेत्।
एवमादीनि कर्माणि नृपैः कार्याणि पार्थिव ।। २१५.८० ।।

सर्वथा नेष्यते राज्ञस्तीक्ष्णोपकरक्रमः।
कर्माणि पापसाध्यानि यानि राज्ञो नराधिप! ।। २१५.८१ ।।

सन्तस्तानि न कुर्वन्ति तस्मात्तानि त्यजेन्नृपः।
नेष्यते पृथिवीशानान् तीक्ष्णोपकरणक्रिया ।। २१५.८२ ।।

यस्मिन् कर्मणि यस्य स्याद्विशेषेण च कौशलम्।
तस्मिन् कर्मणि तं राज्ञा परीक्ष्य विनिवेशयेत् ।। २१५.८३ ।।

पितृपैतामहान् भृत्यान् सर्वकर्मसु योजयेत्।
विना दायाद कृत्येषु परीक्षां स्वकृतान्तरान् ।। २१५.८५ ।।

नियुञ्जीत महाभाग! तस्य ते हितकारिणः।
परराज गृहात् प्राप्तान् जनसंग्रहकाम्यया ।। २१५.८६ ।।

दुष्टान् वाप्यथवा दुष्टान् आश्रयीत प्रयत्नतः।
दुष्टं विज्ञाय विश्वासं न कुर्यात्तत्र भूमिपः ।। २१५.८७ ।।

मामयं देशसम्प्राप्तो बहुमानेन चिन्तयेत्।
कामं भृत्यार्जनं राजा नैव कुर्यान्नराधिप ।। २१५.८८ ।।

न च वा संविभक्तांस्तान् भृत्यान् कुर्यात् कथञ्चन।
शत्रवोऽग्निर्विषं सर्पो निस्त्रिंश इति चिन्तयेत् ।। २१५.८९ ।।

भृत्या मनुजशार्दूल! रुषिताश्च तथैकतः।
तेषां चारेण चारित्रं राजा विज्ञाय नित्यशः ।। २१५.९० ।।

गुणिनां पूजनं कुर्यात् निर्गुणानाञ्च शासनम्।
कथिताः सततं राजन्! राजानश्चारचक्षुषः ।। २१५.९१ ।।

स्वके देशे परे देशे ज्ञानशीलान् विचक्षणान्।
अनाहार्यान् क्लेशसहान्नियुञ्जीत तथाचरान् ।। २१५.९२ ।।

जनस्याविदितान् सौम्यान् तथा ज्ञातान् परस्परम्।
वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ।। २१५.९३ ।।

तथा प्रवाजिताकारान् चारान् राजा नियोजयेत्।
नैकस्य राजा श्रद्दध्यात् चारस्यापि सुभाषितम्।। २१५.९४ ।।

द्वयोः सम्बन्धमाज्ञाय श्रद्दध्यान्नृपतिस्तदा।
परस्परस्याविदितौ यदि स्याताञ्च तावुभौ ।। २१५.९५ ।।

तस्माद्राजा प्रयत्नेन गूढांश्चारान्नियोजयेत्।
रागापरागौ भृत्यानां जनस्य च गुणागुणान् ।। २१५.९६ ।। 

सर्वं राज्ञां चरायत्तन्तेषु यत्नपरो भवेत्।
कर्मणा केन मे लोके जनः सर्वोऽनुरज्यते ।। २१५.९७ ।।

विरज्यते केन तथा विज्ञेयं तन्महीक्षिता।
विरागजनकं लोके वर्जनीयं विशेषतः ।। २१५.९८ ।।

तथा च रागप्रभवा हि लक्ष्म्यो राज्ञां मता भास्करवंशचन्द्र!।
तस्मात्प्रयत्नेन नरेन्द्रमुख्यैः कार्योऽनुरागो भुवि मानवेषु ।। २१५.९९ ।।