मत्स्यपुराणम्/अध्यायः १८०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६
  247. अध्यायः २४७
  248. अध्यायः २४८
  249. अध्यायः २४९
  250. अध्यायः २५०
  251. अध्यायः २५१
  252. अध्यायः २५२
  253. अध्यायः २५३
  254. अध्यायः २५४
  255. अध्यायः २५५
  256. अध्यायः २५६
  257. अध्यायः २५७
  258. अध्यायः २५८
  259. अध्यायः २५९
  260. अध्यायः २६०
  261. अध्यायः २६१
  262. अध्यायः २६२
  263. अध्यायः २६३
  264. अध्यायः २६४
  265. अध्यायः २६५
  266. अध्यायः २६६
  267. अध्यायः २६७
  268. अध्यायः २६८
  269. अध्यायः २६९
  270. अध्यायः २७०
  271. अध्यायः २७१
  272. अध्यायः २७२
  273. अध्यायः २७३
  274. अध्यायः २७४
  275. अध्यायः २७५
  276. अध्यायः २७६
  277. अध्यायः २७७
  278. अध्यायः २७८
  279. अध्यायः २७९
  280. अध्यायः २८०
  281. अध्यायः २८१
  282. अध्यायः २८२
  283. अध्यायः २८३
  284. अध्यायः २८४
  285. अध्यायः २८५
  286. अध्यायः २८६
  287. अध्यायः २८७
  288. अध्यायः २८८
  289. अध्यायः २८९
  290. अध्यायः २९०
  291. अध्यायः २९१

वारणस्या माहात्म्यम्
ऋषय ऊचुः।
श्रुतोऽन्धक वधः सूत! यथावत्त्वदुदीरितः।
वाराणस्यास्तु महात्म्यं श्रोतुमिच्छाम साम्प्रतम् ।। १८०.१ ।।

भगवान् पिङ्लः केन गणत्वं समुपागतः।
अन्नदत्त्वञ्च सम्प्राप्तो वाराणस्यां महाद्युतिः ।। १८०.२ ।।

क्षेत्रपालः कथं जातः प्रियत्वञ्च कथङ्गतः।
एतदिच्छाम कथितं श्रोतुं ब्रह्मसुत! त्वया ।। १८०.३ ।।

सूत उवाच।
श्रृणुध्वं वै यथा लेभे गणेशत्वं स पिङ्गलः।
अन्नदत्वं च लोकानां स्थानं वाराणसी त्विह ।। १८०.४ ।।

पूर्णभद्रसुतः श्रीमानासीद्यज्ञः प्रतापवान्।
हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह ।। १८०.५ ।।

तस्य जन्मप्रभृत्यैव सर्वे भक्तिरनुत्तमा।
तदासीत्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ।। १८०.६ ।।

आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन्।
भुञ्जानोऽथ पिबन्वापि रुद्रमेवान्वचिन्तयत् ।। १८०.७ ।।

तमेवं युक्तमनसम्पूर्णभद्रः पिताब्रवीत्।
न त्वां पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा ।। १८०.८ ।।

न हि यक्ष कुलीनानामेतद्वृत्तं भवत्युत।
गुह्यका बत यूयं वै स्वभावात् क्रूरचेतसः ।। १८०.९ ।।

क्रव्यादाश्चैव किं भक्षा हिंसाशीलाश्च पुत्रक।
मैवं काषीर्नते वृत्तिरेवं दृष्टा महात्मना ।। १८०.१० ।।

स्वयम्भुवा यथादिष्टा त्यक्तव्या यदि नो भवेत्।
आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्तु तत् ।। १८०.११ ।।

हित्वा मनुष्यभावं च कर्मभिर्विविधैश्चर।
यत्त्वमेवं विमार्गस्थो मनुष्याज्जात एव च।। १८०.१२ ।।

यथावद्विविधन्तेषां कर्म तज्जाति संश्रयम्।
मयापि विहितं पश्य कर्मैतन्नात्र संशयः ।। १८०.१३ ।।

सूत उवाच।
एवमुक्त्वा स तं पुत्रं पूर्णभद्रः प्रतापवान्।
उवाच निष्क्रमन्क्षिप्रं गच्छपुत्र! यथेच्छसि ।। १८०.१४ ।।

ततः स निर्गतस्त्यक्त्वा गृहं सम्बन्धिनस्तथा।
वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम् ।। १८०.१५ ।।

स्थाणुभूतो ह्यनिमिषः शुष्क काष्ठोपलोपमः।
सन्नियम्येन्द्रियग्राममवतिष्ठत निश्चलः ।। १८०.१६ ।।

अथ तस्यैवमनिशन्तत्परस्य तदाशिषः।
सहस्रमेकं वर्षाणां दिव्यमप्यभ्यवर्तत ।। १८०.१७ ।।

वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः।
वज्रसूचीमुखैस्तीक्ष्णैः विध्यमानस्तथैव च ।। १८०.१८ ।।

निर्मांसरुधिरत्वक्च कुन्दशंखेन्दु सप्रभः।
अस्थिशेषोऽभवच्छर्वं देवं वै चिन्तयन्नपि ।। १८०.१९ ।।

एतस्मिन्नन्तरे देवी विज्ञापयत शङ्करम्।
देव्युवाच।
उद्यानं पुनरेवेह द्रष्ट्रमिच्छामि सर्वदा ।। १८०.२० ।।

क्षेत्रस्य देव माहात्म्यं श्रोतुं कौतूहलं हि मे।
यतश्च प्रियमेतत्ते तथास्य फलमुत्तमम् ।। १८०.२१ ।।

इति विज्ञापितो देवः शर्वाण्या परमेश्वरः।
शर्वः पृष्टोयथातथ्यमाख्यातुमुपचक्रमे ।। १८०.२२ ।।

निर्जगाम च देवेशः पार्वत्या सह शङ्करः।
उद्यानं दर्शयामास देव्या देवः पिनाकधृक् ।। १८०.२३ ।।

देवदेव उवाच।
प्रोत्फुल्लनानाविध गुल्मशोभितं लताप्रतानावनतं मनोहरम्।
विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः ।। १८०.२४ ।।

तमालगुल्मैर्निचितं सुगन्धिभिः सकर्णिकारैर्बकुलैश्च सर्वशः।
अशोकपुन्नागवरैः सुपुष्पितैर्द्विरेफमालाकुल पुष्पसञ्चयैः ।। १८०.२५ ।।

क्वचित् प्रफुल्लाम्बुजरेणुरूषितैः विहङ्गमैश्चारुकलप्रणादिभिः।
विनादितं सारसमण्डनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः ।। १८०.२६ ।।

क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्ब कदम्बकैर्युतम्।
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ।। १८०.२७ ।।

मदाकुलाभिस्त्वमराङ्गनाभिर्निषेवितञ्चारु सुगन्धिपुष्पम्।
क्वचित् सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिल कद्रुमैश्च ।। १८०.२८ ।।

प्रगीतविद्याधरसिद्धचारणं प्रवृत्तनृत्याप्सरसाङ्गणाकुलम्।
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ।। १८०.२९ ।।

मृगेन्द्रनादाकुलसत्वमानसैः क्वचित् क्वचित्द्वन्द्वकदम्बकैर्मृगैः।
प्रफुल्लनानाविधचारुपङ्कजैः सरस्तटाकैरुपशोभितं क्वचित् ।। १८०.३० ।।

निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहङ्गव्रातनादाभिरामम्।
कुसुमित तरुशाखा लीनमत्तद्विरेफं नवकिशलय शोभिशोभितप्रान्तशाखम् ।। १८०.३१ ।।

क्वचिच्च दन्तिक्षतचारुवीरुधं क्वचिल्लतालिङ्गितचारुवृक्षकम्।
क्वचिद्विलासालसगामिबर्हिणं निषेवितं किं पुरुषव्रजैः क्वचित् ।। १८०.३२ ।।

पारावतध्वनिविकूजितचारुश्रृङ्गैरभ्रङ्कषैः सितमनोहरचारुरूपैः।
आकीर्णपुष्पनिकुरम्बविमुक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः ।। १८०.३३ ।।

फुल्लोत्पलागुरुसहस्रवितानयुक्तै स्तोयावयैस्तमनुशोभितदेवमार्गम्।
मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम् ।। १८०.३४ ।।

तुङ्गाग्रैर्नीलपुष्पस्तवकभरनतप्रान्तशाखैरशोकै-
र्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तर्मनोज्ञैः
रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं
च्छाया सुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् ।। १८०.३५ ।।

हंसानां पक्षपातप्रचलितकमलस्वच्छविस्तीर्णतोयम् ।
तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम्।
मायुरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्मप्रदेशम्
देशे देशे विकीर्णप्रमुदितविलसन्मत्तहारीतवृक्षम्।। १८०.३६ ।।

सारङ्गः क्वचिदपि सेवितप्रदेशं सच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः।
हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिः क्षीबाभिः समधुरगीतवृक्षखण्डम् ।। १८०.३७ ।।

संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम्।
आमूलात् फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरहैरुपेतम् ।। १८०.३८ ।।

फुल्लातिमुक्तकलतागृहसिद्धलीलं सिद्धाङ्गना-कनकनूपुरनादरम्यम्।
रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीषु स्खलिताम्बु कदम्बपुष्पम् ।। १८०.३९ ।।

पुष्पोत्करानिलविघूर्णितपादपाग्रमग्रेसरे भुवि निपातित वंशगुल्मम्।
गुल्मान्तरप्रभृतिलीनमृगासमूहं संमुह्यतान्तनुभृतामपवर्गदातृ ।। १८०.४० ।।

चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः।
चामीकराभनिचयैरथ कर्णिकारैः फुल्लारिविन्दरचितं सुविशालशाखैः ।। १८०.४१ ।।

क्वचिद्रजतपर्णाभैः क्वचिद्विद्रुमसन्निभैः।
क्वचित्काञ्चनसङ्काशैः पुष्पैराचितभूतलम् ।। १८०.४२ ।।

पुन्नागेषु द्विजगणविरुतं रक्ताशोकस्तबकभरनमितम्।
रम्योपान्तं श्रमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् ।। १८०.४३ ।।

सकलभुवनभर्ता लोकनाथस्तदानीन्तुहिनशिखरिपुत्र्याः सार्द्धमिष्टैर्गणेशैः।
विविधतरुविशालं मत्तहृष्टान्यपुष्टमुपवनतरुरम्यं दर्शयामास देव्याः ।। १८०.४४ ।।

देव्युवाच।
उद्यानं दर्शितं देव! शोभया परया युतम्।
क्षेत्रस्य तु गुणान् सर्वान्पुनर्वक्तुमिहार्हसि ।। १८०.४५ ।।

अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तथा।
श्रुत्वापि हि न मे तृप्तिरतो भूयो वदस्व मे ।। १८०.४६ ।।

देवदेव उवाच।
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम।
सर्वेषामेव भूतानां हेतुर्मोक्षस्य सर्वदा ।। १८०.४७ ।।

अस्मिन् सिद्धाः सदा देवि! मदीयं व्रतमास्थिताः।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ।। १८०.४८ ।।

अभ्यसन्ति परं योगं मुक्तात्मानो जितेन्द्रियाः।
नानावृक्षसमाकीर्णे नानाविहगकूजिते।। १८०.४९ ।।

कमलोत्पलपुष्पाढ्यैः सरोभिः समलङ्कृते।
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ।। १८०.५० ।।

रोचते मे सदा वासो येन कार्येण तच्छृणु।
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ।। १८०.५१ ।।

यथा मोक्षमिहाप्नोति ह्यन्यत्र न तथा क्वचित्।
एतन्मम परं दिव्यं गुह्याद्गुह्यतरं महत् ।। १८०.५२ ।।

ब्रह्मादयस्तु जानन्ति येऽपि सिद्धा मुमुक्षवः।
अतः प्रियतमं क्षेत्रं तस्माच्चेह रतिर्मम ।। १८०.५३ ।।

विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन।
महत् क्षेत्रमिदं तस्मादविमुक्तमिदं स्मृतम् ।। १८०.५४ ।।

नैमिषेऽथ कुरुक्षेत्रे गङ्गाद्वारे च पुष्करे।
स्नानात्संसेविताद्वापि न मोक्षः प्राप्यते यतः ।। १८०.५५ ।।

इह संप्राप्यते येन तत एतद्विशिष्यते।
प्रयागे च भवेन्मोक्ष इह वा मत्परिग्रहात् ।। १८०.५६ ।।

प्रयागादपि तीर्थाग्य्रादिदमेव महत् स्मृतम्।
जैगीषव्यः परां सिद्धिं योगतः स महातपाः ।। १८०.५७ ।।

अस्य क्षेत्रस्य माहात्म्याद् भक्त्या च मम भावनात्।
जैगीषव्यो महाश्रेष्ठो योगिनां स्थानमिष्यते ।। १८०.५८ ।।

ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्।
कैवल्यं परमं याति देवानामपि दुर्लभम् ।। १८०.५९ ।।

अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्त वेदिभिः।
इह संप्राप्यते मोक्षो दुर्लभो देवदानवैः ।। १८०.६० ।।

तेभ्यश्चाहं प्रयच्छामि भोगैश्वर्यमनुत्तमम्।
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च ।। १८०.६१ ।।

कुबेरस्तु महायक्षस्तथा शर्वार्पितक्रियः।
क्षेत्रसम्वसनादेव गणेशत्वमवाप ह ।। १८०.६२ ।।

सम्वर्तो भविता यश्च सोऽपि भक्त्या ममैव तु।
इहैवाराध्य मां देवि! सिद्धिं यास्यत्यनुत्तमाम् ।। १८०.६३ ।।

पराशरसुतो योगी ऋषिर्व्यासो महातपाः।
धर्मकर्त्ता भविष्यश्च वेदसंस्था प्रवर्तकः ।। १८०.६४ ।।

रंस्यते सोऽपि पद्माक्षि! क्षेत्रेऽस्मिन् मुनिपुङ्गवः।
ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वायुर्दिवाकरः ।। १८०.६५ ।।

देवराजस्तथा शक्रो येऽपि चान्ये दिवौकसः।
उपासन्ते महात्मानः सर्वे मामेव सुव्रते ।। १८०.६६ ।।

अन्येऽपि योगिनः सिद्धाश्छन्नरूपा महाव्रताः।
अनन्यमनसो भूत्वा मामिहोपसते सदा ।। १८०.६७ ।।

अलर्कश्च पुरीमेतां मत्प्रसाददवाप्स्यति।
स चैनां पूर्ववत्कृत्वा चातुर्वर्ण्याश्रमाकुलाम् ।। १८०.६८ ।।

स्फीतां जनसमाकीर्णां भक्त्याच सुचिरं नृपः।
मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते ।। १८०.६९ ।।

ततः प्रभृति चार्वङ्गि! येऽपि क्षेत्रनिवासिनः।
गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः ।। १८०.७० ।।

मत्प्रसादाद् भजिष्यन्ति मोक्षं परम दुर्लभम्।
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ।। १८०.७१ ।।

इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत्।
ये पुनर्निर्ममा धीराः सत्वस्था विजितेन्द्रियाः ।। १८०.७२ ।।

व्रतिनश्च निरारम्भाः सर्वे ते मयि भाविताः।
देहभङ्गं समासाद्य धीमन्तः सङ्गवर्जिताः ।
गता एव परं मोक्षं प्रसादान्मम सुव्रते! ।। १८०.७३ ।।

जन्मान्तरसहस्रेषु युञ्जन् योगमवाप्नुयात्।
तमिहैव परं मोक्षं मरणादधिगच्छति ।। १८०.७४ ।।

एतत्सङ्क्षेपतो देवि! क्षेत्रस्यास्य महत्फलम्।
अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् ।। १८०.७५ ।।

अतः परतरं नास्ति सिद्धिगुह्यं महेश्वरि!।
एतद् बुध्यन्ति योगज्ञा ये च योगेश्वरा भुवि ।। १८०.७६ ।।

एतदेव परं स्थानमेतदेव परं शिवम्।
एतदेव परम्ब्रह्म एतदेव परम्पदम् ।। १८०.७७ ।।

वाराणसी तु भुवनत्रयसारभूता रम्या सदा मम पुरी गिरिराजपुत्रि!।।
अत्रागता विविध दुष्कृतकारिणोऽपि पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः ।। १८०.७८ ।।

एतत्स्मृतं प्रियतमं मम देवि! नित्यं क्षेत्रं विचित्रतरुगुल्मलतासु पुष्पम्।
अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति मूर्खागमेन रहितापि न संशयोऽत्र ।। १८०.७९ ।।

सूत उवाच।
एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम्।
दातुं प्रसादाद्यक्षाय वरं भक्ताय भामिनि ।। १८०.८० ।।

भक्तो मम वरारोहे! तपसा हतकिल्बिषः।
अहो वरमसौ लब्धमस्मत्तो भुवनेश्वरि! ।। १८०.८१ ।।

एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः।
जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः ।। १८०.८२ ।।

ततस्तं गुह्यकं देवी दृष्टिपातैर्निरीक्षती।
श्वेतवर्णं विचर्माणं स्नायुबद्धास्थिपञ्जरम् ।। १८०.८३ ।।

देवी प्राह तदा देवं दर्शयन्ती च गुह्यकम्।
सत्यं नाम भवानुग्रो देवैरुक्तस्तु शङ्कर!।। १८०.८४ ।।

ईदृशे चास्य तपसि न प्रयच्छसि यद्वरम्।
अत्र क्षेत्रे महादेव! पुण्ये सम्यगुपासिते ।। १८०.८५ ।।

कथमेवं परिक्लेशं प्राप्तो यक्षकुमारकः।
शीघ्रमस्य वरं यच्छ प्रसादात् परमेश्वर! ।। १८०.८६ ।।

एवं मन्वादयो देव! वदन्ति परमर्षयः।
रुष्टाद्वा चाथ तुष्टाद्वा सिद्धिस्तूभयतो भवेत् ।। १८०.८७ ।।

भोगप्राप्रिस्तथा राज्यमन्ते मोक्षः सदाशिवात्।
एवमुक्तस्ततो देवःसह देव्या जगत्पतिः ।। १८०.८८ ।।

जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः।
तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः ।। १८०.८९ ।।

दिव्यञ्चक्षुरदात्तस्मै येनापश्यत् स शङ्करम्।
अथ यक्षस्तदा देशाच्छनैरुन्मील्य चक्षुषी ।। १८०.९० ।।

अपश्यत् सगणं देवं वृषध्वजमुपस्थितम्।
देवदेव उवाच।
वरं ददामि ते पूर्वं त्रैलोक्ये दर्शनं तथा ।। १८०.९१ ।।

सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः।
सूत उवाच।
ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च ।। १८०.९२ ।।

पादयोः प्रणतस्तस्थौ कृत्वा शिरसि साञ्जलिम्।
उवाचाथ तदा तेन वरदोऽस्मीति चोदितः ।। १८०.९३ ।।

भगवन्! भक्तिमव्यग्रां त्वय्यनन्यां विधत्स्व मे।
अन्नदत्वं च ते लोकानां गाणपत्यं तथाऽक्षयम् ।। १८०.९४ ।।

अविमुक्तं च ते स्थानं पश्येयं सर्वदा यथा।
एतदिच्छामि देवेश त्वत्तो वरमनुत्तमम् ।। १८०.९५ ।।

देवदेव उवाच।
जरा मरणसन्त्यक्तः सर्वरोगविवर्जितः।
भविष्यसि गणाध्यक्षो धनदः सर्वपूजितः ।। १८०.९६ ।।

अजेयश्चापि सर्वेषां योगैश्वर्यं समाश्रितः।
अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि ।। १८०.९७ ।।

महाबलो महासत्वो ब्रह्मण्यो मम च प्रियः।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ।। १८०.९८ ।।

उद्भ्रमः सम्भ्रमश्चैव गणौतु परिचारकौ।
तवाज्ञाञ्च करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ।। १८०.९९व्

सूत उवाच।
एवं स भगवांस्तत्र यक्षं कृत्वा गणेश्वरम्।
जगाम वामदेवेशः सह तेनामरेश्वरः ।। १८०.१०० ।।