मत्स्यपुराणम्/अध्यायः २१२
सावित्र्युपाख्यानम्।
सावित्र्युवाच।
धर्मार्जने सुरश्रेष्ठ! कुतो ग्लानिः क्लमस्तथा।
त्वपादमूलसेवा च परमं धर्मकारणम् ।। २१२.१ ।।
धर्मार्जनन्तथा कार्यं पुरुषेण विजानता।
तल्लाभः सर्वलाभेभ्यो यदा देव विशिष्यते ।। २१२.२ ।।
धर्मश्चार्थश्च कामश्च त्रिवर्गो जन्मनः फलम्।
धर्महीनस्य कामार्थौ वन्ध्यासुतसमौ प्रभो! ।। २१२.३ ।।
धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा।
धर्मएकोऽनुयात्येनं यत्र क्वचन गामिनम् ।। २१२.४ ।।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति।
एको हि जायते जन्तुरेक एव विपद्यते ।। २१२.५ ।।
धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः।
क्रिया सौभाग्यलावण्यं सर्वं धर्मेण लभ्यते ।। २१२.६ ।।
ब्रह्मोन्द्रोपेन्द्रशर्वेन्दुर्यमार्काग्न्यनिलाम्भसाम्।
वस्वश्विधनदाद्यानां ये लोकाः सर्वकामदाः ।। २१२.७ ।।
धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक!।
मनोहराणि द्वीपानि वर्षाणि सुसुखानि च ।। २१२.८ ।।
प्रयान्ति धर्मेण नरास्तथैव नरगण्डिकाः।
नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ।। २१२.९ ।।
तानि पुण्येन लभ्यन्ते नाकपृष्ठन्तथा नरैः।
विमानानि विचित्राणि तथैवाप्सरसः शुभाः ।। २१२.१० ।।
तैजसानि शरीराणि सदा पुण्यवतां फलम्।
राज्यं नृपतिपूजा च कामसिद्धिस्तथेप्सिता ।। २१२.११ ।।
संस्काराणि च मुख्यानि फलं पुण्यस्य दृश्यते।
रुर्क्मवैदूर्यदण्डानि चण्डांशुसदृशानिच ।। २१२.१२ ।।
चामराणि सुराध्यक्ष! भवन्ति शुभकर्मणाम्।
पूर्णोन्दुमण्डलाभेन रत्नांशुकविकाशिना ।। २१२.१३ ।।
धार्यतां याति छत्रेण नरः पुण्येन कर्मणा।
जयशङ्खस्वरौघेण सूतमागधनिःस्वनैः ।। २१२.१४ ।।
वरासनं सभृङ्गरं फलं पुण्यस्य कर्मणः।
वरान्नपानं गीतञ्च भृत्यमाल्यानुलेपनम् ।। २१२.१५ ।।
रत्नवस्त्राणि मुख्यानि फलं पुण्यस्य कर्मणः।
रूपौदार्यगुणोपेतास्त्रियश्चातिमनोहराः ।। २१२.१६ ।।
वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मिणः।
सुवर्णकिङ्किणीमिश्रचामरापीडधारिणः ।। २१२.१७ ।।
वहन्ति तुरगा देव नरं पुण्येन कर्मणा।
तस्य द्वाराणि यजनन्तपोदानन्दमः क्षमा।। २१२.१८ ।।
ब्रह्मचर्यं तथा सत्यन्तीर्थानुमरणं शुभम्।
स्वाध्याय-सेवा-साधूनां सहवासः सुरार्चनम् ।। २१२.१९ ।।
गुरुणां चैव शुश्रूषा ब्राह्मणानां च पूजनम्।
इन्द्रियाणां जयश्चैव ब्रह्मचर्यममत्सरम् ।। २१२.२० ।।
तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता।
नहि प्रतीक्षते मृत्युः कृतमस्य च वा कृतम् ।। २१२.२१ ।।
बाल-एव-चरेद्धर्ममनित्यं देव! जीवितम्।
कोहि जानाति कस्याद्य मृत्युरेवापतिष्यति ।। २१२.२२ ।।
पश्यतोऽप्यस्य लोकस्य मरणं पुरतः स्थितम्।
अमरस्येव चरितमत्याश्चर्यं सुरोत्तम! ।। २१२.२३ ।।
युवत्वापेक्षया बालो वृद्धत्वापेक्षया युवा।
मृत्योरुत्सङ्गमारूढः स्थविरः किमपेक्षते ।। २१२.२४ ।।
तत्रापि विन्दतस्त्राणां मृत्युना तस्य का गतिः।
न भयं मरणञ्चैव प्राणिनामभयं क्वचित् ।। २१२.२५ ।।
यम उवाच।
तुष्टोऽस्मि ते विशालाक्षि! वचनैर्धर्मसङ्गतैः।
विना सत्यवतः प्राणान् वरं वरयमाचिरम् ।। २१२.२६ ।।
सावित्र्युवाच।
वरयामि त्वया दत्तं पुत्राणां शतमौरसम्।
अनपत्यस्य लोकेषु गतिः किल न विद्यते ।। २१२.२७ ।।
यम उवाच।
कृतेन कामेन निवर्त भद्रे! भविष्यतीदं सकलं यथोक्तम्।
ममोपरोधस्तव च क्लमः स्यात्तथाऽधुना तेन तव ब्रवीमि ।। २१२.२८ ।।