मत्स्यपुराणम्/अध्यायः ३६
ययातिशक्रसम्वादवर्णनम्।
शौनक उवाच।
स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि।
पूजितस्त्रिदशैः साध्यैः मरुद्भिर्वसुभिस्तथा।। ३६.१ ।।
देवलोकात् ब्रह्मलोकं सञ्चरन् पुण्यकृद्वशी।
अवसत् पृथिवीपालो दीर्घकालमितश्रुतिः।।३६.२ ।।
स कदाचिन्नृपश्रेष्ठः ययातिः शक्रमागतः।
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः।। ३६.३ ।।
शक्र उवाच।
यदा स पूरुस्तव पुत्रेषु राजन्!
जरां गृहीत्वा प्रचचार लोके।
तदा राज्यं सम्प्रदायैव त्वमस्मै
त्वया किमुक्तः कथयेह सत्यम्।। ३६.४ ।।
ययातिरुवाच।
प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम्।
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तवा।
मध्ये पृथिव्या स्त्वं राजा भ्रातरोन्तेऽधिपास्तव
अक्रोधनः क्रोधनेभ्यो विशिष्ट स्तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः।। ३६.६ ।।
आक्रोश्यमानो नाक्रोशेन्मन्युमेव तितिक्षति।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति।। ३६.७ ।।
नारुन्तुदस्यान्न नृशंसवादी न हीनतः परमभ्याददीत।
ययाऽस्य वाचा पर उद्विजेत न तां वदे द्रुशतीं पापलौल्याम्।। ३६.८ ।।
अरुन्तुदं परुषं तीव्रवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्।
विन्द्यादलक्ष्मीकतमं जनानां मुखे निवद्धन्निर्ऋतिं वहन्तम्।। ३६.९ ।।
सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात्।
सदा सतामतिवादां स्तितिक्षेत् सतां वृतं पालयन् साधुवृत्तः।। ३६.१० ।।
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति वा त्र्यहानि।
परस्य नो मर्मसु ते पतन्ति तान् पण्डितो नावसृजेत् परेषु।।३६.११ ।।
नास्तीद्रृशं सम्वननं त्रिषु लोकेषु किञ्चन।
यथा मैत्री च लोकेषु दानञ्च मधुरा च वाक्।। ३६.१२।।
तस्मात् सान्त्वं सदा वाच्यं परुषं नैव कुत्रचित्।
पूज्यान् संपूजयेद्दद्यान्नभिशापं कदाचन।। ३६.१३ ।।