मत्स्यपुराणम्/अध्यायः २४६

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६
  247. अध्यायः २४७
  248. अध्यायः २४८
  249. अध्यायः २४९
  250. अध्यायः २५०
  251. अध्यायः २५१
  252. अध्यायः २५२
  253. अध्यायः २५३
  254. अध्यायः २५४
  255. अध्यायः २५५
  256. अध्यायः २५६
  257. अध्यायः २५७
  258. अध्यायः २५८
  259. अध्यायः २५९
  260. अध्यायः २६०
  261. अध्यायः २६१
  262. अध्यायः २६२
  263. अध्यायः २६३
  264. अध्यायः २६४
  265. अध्यायः २६५
  266. अध्यायः २६६
  267. अध्यायः २६७
  268. अध्यायः २६८
  269. अध्यायः २६९
  270. अध्यायः २७०
  271. अध्यायः २७१
  272. अध्यायः २७२
  273. अध्यायः २७३
  274. अध्यायः २७४
  275. अध्यायः २७५
  276. अध्यायः २७६
  277. अध्यायः २७७
  278. अध्यायः २७८
  279. अध्यायः २७९
  280. अध्यायः २८०
  281. अध्यायः २८१
  282. अध्यायः २८२
  283. अध्यायः २८३
  284. अध्यायः २८४
  285. अध्यायः २८५
  286. अध्यायः २८६
  287. अध्यायः २८७
  288. अध्यायः २८८
  289. अध्यायः २८९
  290. अध्यायः २९०
  291. अध्यायः २९१

बलिशुक्रमन्त्रणम्।
शैनक उवाच।
सपर्वतमनामूर्वीं दृष्ट्वा संक्षोभितां बलिः।
पप्रच्छोशनसं शुद्धं प्रणिपत्य कृताञ्जलिः ।। २४६.१ ।।

आचार्य! क्षोभमायाता साब्धिभूभृद्वना मही।
कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्नयः ।। २४६.२ ।।

इति पृष्टोऽथ बलिना काव्यो वेदविदाम्वरः।
उवाच दैत्याधिपति चिरन् ध्यात्वा महामतिः ।। २४६.३ ।।

अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः।
वामनेनेह रूपेण जगदात्मा सनातनः ।। २४६.४ ।।

स एष यज्ञमायाति तव दानवपुङ्गव!।
तत्पादन्यासविक्षोभादियं प्रचलिता मही ।। २४६.५ ।।

कम्पन्ते गिरयश्चामी क्षुभितो मकरालयः।
नैनं भूतपतिं भूमिः सर्वार्था वोढुमीश्वरम् ।। २४६.६ ।।

सदेवासुरगन्धर्वा यक्षराक्षसकिन्नरा।
अनेनैव धृता भूमिरापोग्निः पवनो नभः ।। २४६.७ ।।

धारयत्यखिलान् देवो मन्त्रादींश्च महासुरः।
इयमेव जगद्धेतो_ माया कृष्णस्य गह्वरी ।। २४६.८ ।।

धार्यधारकभावेन यया संपीड़ितं जगत्।
तत्सन्निधानादसुरा भागार्हा नासुरोत्तम!
भुञ्जते नासुरान् भागानमी ते नैव चाग्नयः ।। २४६.९ ।।

बलिरुवाच।
धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम्।
यज्ञमभ्यागतो ब्रह्मन्! मत्तः कोऽन्योधिकः पुमान् ।। २४६.१० ।।

यं योगिनः सदा युक्ताः परमात्मानमव्ययम्।
द्रष्टुमिच्छन्ति देवेशं स मेऽध्वसमुपैष्यति ।। २४६.११ ।।

होता भागप्रदोऽयञ्च यमुद्गाता च गायति।
तमध्वरेश्वरं विष्णुं मत्तः कोऽन्य उपैष्यति ।। २४६.१२ ।।

सर्वेश्वरेश्वरे कृष्णे मदध्वरमुपागते।
यन्मया काव्य! कर्तव्यं तन्ममादेष्टुमर्हसि ।। २४६.१३ ।।

शुक्र उवाच।
यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर!
त्वया तु दानवा दैत्या मखभागभुजः कृताः ।। २४६.१४ ।।

अयञ्च देवः सत्यस्थः करोति स्थितिपालनम्।
विसृष्टेरनुचान्नेन स्वयमत्ति प्रजाः प्रभुः ।। २४६.१५ ।।

त्वत्कृते भविता नूनं देवो विष्णुः स्थितौ स्थितः।
विदित्वेतन्महाभाग! कुरुयत्नमनागतम् ।। २४६.१६ ।।

त्वया हि दैत्यादिपते! स्वल्पकेऽपि हि वस्तुनि।
प्रतिज्ञा न हि वोढव्या वाच्यं साम-वृथा-फलम् ।। २४६.१७ ।।

नालन्दातुमहं देव! दैत्य! वाच्यं त्वया वचः।
कृष्णस्य देवभूत्यर्थं प्रवृत्तस्य महासुर!।। २४६.१८ ।।

बलिरुवाच।
ब्रह्मन्! कथमहं ब्रूयामन्येनापि हि याचितः।
नास्तीति किमु देवेन संसार अघहारिणा ।। २४६.१९ ।।

व्रतोपवासैर्विविधैः प्रतिसंग्राह्यते हरिः।
स चेद्वक्ष्यति देहीति गोविन्दः किमतोऽधिकम् ।। २४६.२० ।।

यदर्थमुपहाराद्या तपः शौचगुणान्वितैः।
यज्ञाः क्रियन्ते देवेशः स मां देहीति वक्ष्यति ।। २४६.२१ ।।

तत्साधु सुकृतं कर्म तपः सुचरितं मम।
यन्मया दत्तमीशेषः स्वयमादास्यते हरिः ।। २४६.२२ ।।

नास्ति नास्तीत्यहं वक्ष्ये तमप्यागतमीश्वरम्।
यदा वञ्चामि तं प्राप्तं वृथा तज्जन्मनः फलम् ।। २४६.२३ ।।

यज्ञेऽस्मिन्यदि यज्ञेशो याचते मां जनार्दनः।
निजमूर्द्धानमप्यत्र तद्दास्याम्यविचारितम् ।। २४६.२४ ।।

नास्तीति यन्मया प्रोक्तमन्येषामपि याचताम्।
वक्ष्यामि कथमायाते तदनभ्यस्तमुच्यते ।। २४६.२५ ।।

श्लाघ्य एव हि वीराणां दानादापत्समागमः।
नाबाधकारि यद्दानं तदमङ्गलवत्स्मृतम् ।। २४६.२६ ।।

मद्राज्येनासुखी कश्चिन्न दरिद्रो न चातुरः।
नाभूषितो न चोद्विग्नो नस्रगादि विवर्जितः ।। २४६.२७ ।।

हृष्टस्तुष्टः सुगन्धिश्च तृप्तः सर्वसुखान्वितः।
जनः सर्वो महाभाग! किमुताहं सदा सुखी ।। २४६.२८ ।।

एतद्विशिष्टपात्रोऽयं दानबीजफलं मम।
विदितं भृगुशार्दूल! मयैतत्त्वत्प्रसादतः ।। २४६.२९ ।।

एतद्विजानता जानबीजं पतति चेद् गुरो!।
जनार्दनमहापात्रे किन्न प्राप्तन्ततो मया ।। २४६.३० ।।

मत्तो दानमवाप्येशो यदि पुष्णाति देवताः
उपभोगाद्दशगुणं दानं श्लाघ्यतमं मम ।। २४६.३१ ।।

मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः।
तैनाभ्येति न सन्देहो दर्शनादुपकारकृत् ।। २४६.३२

अथ कोपेन चाभ्येति देवभागोपरोधिनम्।
मां निहन्तुमनाश्चैव वधः श्लाघ्यतरोऽच्युतात् ।। २४६.३३ ।।

तन्मयं सर्वमेवेदं नाप्राप्यं यस्य विद्यते।
स मां याचितुमभ्येति नानुग्रहमृते हरिः ।। २४६.३४ ।।

यः सृजत्यात्मभूः सर्वञ्चेतसैव च संहरेत्।
स मां हन्तुं हृषीकेशः कथं यत्नं करिष्यति ।। २४६.३५ ।।

एतद्विदित्वा न गुरो! दानविघ्नकरेण च।
त्वया भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ।। २४६.३६ ।।

शौनक उवाच
इत्येवं वदतस्तस्य संप्राप्तः स जगत्पतिः।
सर्वदेवमयो चिन्त्यो मायावामन रूपधृक् ।। २४६.३७ ।।

तं दृष्ट्वा यज्ञवाटान्तः प्रविष्टमसुराः प्रभुम्।
जग्मुः सभासदः क्षोभन्तेजसा तस्य निष्प्रभाः ।। २४६.३८ ।।

जेपुश्च मुनयस्तत्र ये समेता महाध्वरे।
बलिश्चैवाखिलं जन्म मेने सफलमात्मनः ।। २४६.३९ ।।

ततः संक्षोभमापन्नो न कश्चित्किञ्चिदुक्तवान्।
प्रत्येकं देवदेवेशं पूजयामास चेतसा।। २४६.४० ।।

अथासुरपतिं प्रह्वं दृष्ट्वा मुनिवरांश्च तान्।
देवदेवपतिः साक्षी विष्णुर्वामन रूपधृक् ।। २४६.४१ ।।

तुष्टाव यज्ञवह्निञ्च यजमानमथर्त्विजः।
यज्ञकर्माधिकारस्थान् सदस्यान् द्रव्यसम्पदः ।। २४६.४२ ।।

ततः प्रसन्नमखिलं वामनं प्रतितत्क्षणात्।
यज्ञवाटस्थितं वीरः साधु साध्वित्युदीरयन् ।। २४६.४३ ।।

स चार्घ्यमादाय बलिः प्रोद्भूतपुलकस्तदा।
पूजयामास गोविन्दं प्राह चेदं महासुरः ।। २४६.४४ ।।

बलिरुवाच।
सुवर्णरत्नसंघातं गजाश्वममितन्तथा।
स्त्रियोवस्त्राण्यलङ्कारांस्तथा ग्रामाश्च पुष्कलान् ।। २४६.४५ ।।

सर्वस्वं सकलामुर्वीं भवतो वा यदीप्सितम्।
तद्ददामि श्रृणष्व त्वं येनार्थी वामनः प्रियः ।। २४६.४६ ।।

इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः।
प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ।। २४६.४७ ।।

ममाग्निशरणार्थाय देहि राजन्! पदत्रयम्।
सुवर्णग्रामरत्नानि तदर्थिभ्यः प्रदीयताम् ।। २४६.४८ ।।

बलिरुवाच।
त्रिभिः प्रयोजनं किन्ते पादैः पदवताम्वर!।
शतं शतसहस्राणां पदानां मार्गतां भवान् ।। २४६.४९ ।।

वामन उवाच।
एतावतैव दैत्येन्द्र! कृतकृत्योऽस्मि मार्गताम्।
अन्येषामर्थिनां वित्तमीहितं दास्यते भवान् ।। २४६.५० ।।

एतत्च्छ्रुत्वा तु गदितं वामनस्य महात्मनः।
ददौ तस्मै महाबाहु वामनाय पदत्रयम् ।। २४६.५१ ।।

पाणौतु पतिते तोये वामनोऽभूदवामनः।
सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ।। २४६.५२ ।।

चन्द्रसूर्यौ च नयने द्यौर्मूर्द्धा चरणौ क्षितिः।
पादाङ्गुल्यः पिशाचास्तु हस्ताङ्गुल्यश्च गुह्यकाः ।। २४६.५३ ।।

विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः।
यक्षा नखेषु सम्भूता रेखाश्चाप्सरसस्तथा ।। २४६.५४ ।।

दृष्टौ ऋक्षाण्यशेषाणि केशाः सूर्यांशवः प्रभोः।
तारकारोमकूपाणि रोमाणि च महर्षयः ।। २४६.५५ ।।

बाहवो विदिशस्तस्य दिशः श्रोत्रे महात्मनः।
अश्विनौ श्रवणे तस्य नासावायुर्महात्मनः ।। २४६.५६ ।।

प्रसादश्चन्द्रमा देवो मनोधर्मः समाश्रितः।
सत्यं तस्याभवद्वाणी जिह्वा देवी सरस्वती ।। २४६.५७ ।।

ग्रीवा दितिर्देवमाता विद्यस्तद्वलयस्तथा।
स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ।। २४६.५८ ।।

मुखं वैश्वनारश्चास्य वृषणौ तु प्रजापतिः।
हृदयञ्च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ।। २४६.५९ ।।

पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु।
सर्वसूक्तानि दशनाज्योतींषि विमलप्रभाः ।। २४६.६० ।।

वक्षस्थले महादेवो धैर्ये चास्य महार्णवाः।
उदरेवास्यगन्धर्वाः सम्भूताश्च महाबलाः ।। २४६.६१ ।।

लक्ष्मीर्मेधाधृतिः कान्तिः सर्वविद्याश्च वै कटिः।
सर्वज्योतींषि जानीहि तस्य तत्परमं महः ।। २४६.६२ ।।

तस्य देवाधिदेवस्य तेजः प्रोद्भूतमुत्तमम्।
स्तनौ कुक्षी च वेदाश्च उदरञ्च महामखाः ।। २४६.६३ ।।

इष्टयः पशुबन्धाश्च द्विजानां वीक्षितानि च।
तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महाबलाः ।। २४६.६४ ।।

उपासर्पन्त दैत्येन्द्राः पतङ्गा इव पावकम्।
प्रमथ्य सर्वानसुरान् पादहस्ततलैर्विभुः ।। २४६.६५ ।।

कृत्वा रूपं महाकायं जहाराशु स मेदिनीम्।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।। २४६.६६ ।।

नाभौ विक्रममाणस्य रिक्थदेशस्थितावुभौ।
परं विक्रमतस्तस्य जानुमूले प्रभाकरौ ।। २४६.६७ ।।

विष्णोरास्तं महीपाल! देवपालन-कर्मणि।
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ।। २४६.६८ ।।

पुरन्दराय त्रैलोक्यं ददौ विष्णुर्जगत्पत्ति।
सुतलं नाम पातालमधस्ताद्वसुधातलात् ।। २४६.६९ ।।

बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना।
अथ दैत्येश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः ।। २४६.७० ।।

यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया।
कल्पप्रमाणं तस्मात्ते भविष्यत्यायुरुत्तमम् ।। २४६.७१ ।।

वैवस्वते तथातिते बले! मन्वन्तरेह्यथ।
सावर्णिके तु संप्राप्ते भवानिन्द्रो भविष्यति ।। २४६.७२ ।।

साम्प्रतं देवराजाय त्रैलोक्यं सकलं मया।
दत्तं चतुर्युगानाञ्च साधिका ह्येकसप्ततिः ।। २४६.७३ ।।

नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः।
तेनाहं परया भक्त्या पूर्वमाराधितो बले! ।। २४६.७४ ।।

सुतलं नाम पातालं त्वमासाद्य मनोरमम्।
वसासुरे! ममादेशं यथावत्परिपालयन् ।। २४६.७५ ।।

तत्र दिव्यवनोपेते प्रासादशतसङ्कुले।
प्रोत्फुल्लपद्मसरसि स्रवच्छुद्धसरिद्वरे ।। २४६.७६ ।।

सुगन्धिधूपस्रग्वस्त्र वराभरणभूषितः।
स्रक्चन्दनादिमुदितो गेयनृत्यमनोरमे ।। २४६.७७ ।।

पानान्नबोगान् विविधान् उपभुङ्क्ष्व महासुर!।
ममाज्ञया कालमिमं तिष्ठ त्वं सततं वृतः ।। २४६.७८ ।।

यावत्सुरैश्च विप्रैश्च न विरोधं करिष्यसि।
तावदेतान् महाभोगानवाप्स्यसि महासुर! ।। २४६.७९ ।।

यदा च देवविप्राणां विरोधं त्वं करिष्यसि।
बन्धिष्यन्ति तदापाशा वारुणास्त्वामसंशयम् ।। २४६.८० ।।

एतद्विदित्वा भवता मयाज्ञप्तमशेषतः।
न विरोधः सुरैः कार्य्यो विप्रै र्वा दैत्यसत्तम! ।। २४६.८१ ।।

इत्येवमुक्तो देवेन विष्णुना प्रभविष्णुना।
बलिः प्राह महाराज! प्रणिपत्य मुदायुतः ।। २४६.८२ ।।

बलिरुवाच।
तत्रासतो मे पाताले भगवन्! भवदाज्ञया।
किं भविष्यत्युपादानमुपभोगोपपादकम् ।। २४६.८३ ।।

श्रीभगवानुवाच।
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च।
हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ।। २४६.८४ ।।

अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः।
फलानि तव दास्यन्ति अधीतान्यव्रतानि च ।। २४६.८५ ।।

शौनक उवाच।
बलेर्वरमिमं दत्त्वा शक्राय त्रिदिवं तथा।
व्यापिना तेन रूपेण जगामादर्शनं हरिः ।। २४६.८६ ।।

प्रशशास यथापूर्वमिन्द्रस्त्रैलोक्यपूजितः।
सिषेवे च परान् कामान्बलिः पाताल संस्थितः ।। २४६.८७ ।।

इहैव देवदेवेन बद्धोऽसौ दानवोत्तमः।
देवानां कार्य्यकरणे भूयोऽपि जगति स्थितः ।। २४६.८८ ।।

सम्बन्धी ते महाभाग! द्वारकायां व्यवस्थितः।
दानवानां विनाशाय भारावतरणाय च ।। २४६.८९ ।।

यतो यदुकुले कृष्णो भवतः शत्रुनिग्रहे।
सहायभूतः सारथ्यं करिष्यति बलानुजः ।। २४६.९० ।।

एतत्सर्वं समाख्यातं वामनस्य च धीमतः।
अवतारं महावीर! श्रोतुमिच्छेस्तवार्जुन! ।। २४६.९१ ।।

अर्जुन उवाच।
श्रुतवानिह ते पृष्टं माहात्म्यं केशवस्य च।
गङ्गाद्वारमितो यास्याम्यनुज्ञां देहि मे विभो
एवमुक्त्वा ययौ पार्थो नैमिषं शौनको गतः ।। २४६.९२ ।।

सूत उवाच।
इत्येतद्देवदेवस्य विष्णोर्माहात्म्यमुत्तमम्।
वामनस्य पठेद्यस्तु सर्वपापैः प्रमुच्यते ।। २४६.९३ ।।

बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः।
बलेर्विष्णोश्च कथितं यः स्मरिष्यति मानवः ।। २४६.९४ ।।

नाधयोव्याधयस्तस्य न च मोहाकुलं मनः।
भविष्यति कुरु श्रेष्ठ! पुंसस्तस्य कदाचन ।। २४६.९५ ।।

च्युतराज्यो निजं राज्यमिष्टाप्तिञ्च वियोगवान्।
अवाप्नोति महाभागो नरः श्रुत्वा कथामिमाम् ।। २४६.९६ ।।