मत्स्यपुराणम्/अध्यायः ३४
ययात्युपाख्यानम्।
शौनक उवाच।
एवमुक्तः सराजर्षिः काव्यं स्मृत्वा महाव्रतम्।
संक्रामयामास जरां तदा पुत्रे महात्मनि।। ३४.१ ।।
पौरवेणाथ वयसा ययातिर्नहुषात्मजः।
प्रीतियुक्तो नर श्रेष्टश्चचार विषयान् प्रियान्।। ३४.२ ।।
यथा कामं यथोत्साहं यथा कालं यथासुखम्।
धर्माविरुद्धान् राजेन्द्रो यथार्हति स एव हि।। ३४.३ ।।
देवानतर्पयद् यज्ञैः श्राद्धैरपि पितामहान्।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्।। ३४.४ ।।
अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः।
आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च।। ३४.५ ।।
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्।
ययातिः पालयामास साक्षादिन्द्र इवापरः।। ३४.६ ।।
स राजा सिंहविक्रान्तो युवा विषयगोचरः।
अविरोधेन धर्मस्य चचार सुखमुत्तमम्।। ३४.७ ।।
स सम्प्राप्य शुभान् कामान् तृप्तः खिन्नश्च पार्थिवः।
कालं वर्षसहस्रान्तं सस्मारमनुजाधिपः।। ३४.८ ।।
परिचिन्त्य स कालज्ञः कलाः काष्ठाश्च वीर्यवान्।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह।। ३४.९ ।।
न जातुकामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते।। ३४.१० ।।
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्।। ३४.११ ।।
यथासुखं यथोत्साहं यथाकाममरिन्दम!।
सेविता विषयाः पुत्र! यौवनेन मया तव।। ३४.१२ ।।
पूरो! प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्।
राज्यञ्चैवगृहाणेदं त्वं हि मे प्रियकृत्सुतः।। ३४.१३ ।।
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा।
यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः।। ३४.१४ ।।
अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम्।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्।। ३४.१५ ।।
कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो!।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि।। ३४.१६ ।।
ज्येष्ठो यदुस्तवसुतस्तुर्वसुस्तदनन्तरम्।
शर्मिष्ठायाः सुतो द्रुह्यस्तथानुः पूरुरेव च।। ३४.१७ ।।
कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति।
एतत्सम्बोधयामस्त्वां स्वधर्ममनुपालय।। ३४.१८ ।।
ययातिरुवाच।
ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः।
ज्येष्ठं प्रति यतो राज्यं न देयं मे कथञ्चन।। ३४.१९ ।।
मम ज्येष्ठेन यदुना नियोगो नानुपालितः।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः।। ३४.२० ।।
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु।। ३४.२१ ।।
यदुनाहमवाज्ञातस्तथा तुर्वसु नापि वा।
द्रुह्येण चानुना चैव मय्यवज्ञा कृता भृशम्।। ३४.२२ ।।
पूरुणा मे कृतं वाक्यं मानितञ्च विशेषतः।
कनीयान्मम दायादो जरा येन धृता मम।। ३४.२३ ।।
मम कामः स च कृतः पूरुणा पुत्ररूपिणा।
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्।। ३४.२४ ।।
पुत्रो यस्त्वानुवर्तेत सराजा पृथिवीपतिः।
भवन्तः प्रतिजानन्तु पूरुं राज्येऽभिषिच्यताम्।। ३४.२५ ।।
यः पुत्रोगुणसम्पन्नो मातापित्रोर्हितः सदा।
सर्वं सोऽर्हति कल्याणं कनीयानपि स प्रभुः।। ३४.२६ ।।
अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत्तव।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्।। ३४.२७ ।।
शौनक उवाच।
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा।
अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम्।। ३४.२८ ।।
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः।
पुरात् स निर्ययौ राजा ब्राह्मणैस्तापसैः सह।। ३४.२९ ।।
यदोस्तु यादवा जाता तुर्वसोर्यवनाः सुताः।
द्रुह्यस्य तु सुताभोजा अनोस्तु म्लेच्छजातयः।। ३४.३० ।।
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव!।
इदं वर्षसहस्रात्तु राज्यं कुरु कुलागतम्।। ३४.३१ ।।