मत्स्यपुराणम्/अध्यायः १७३
दैत्यसैन्यविस्तारवर्णनम्।
मत्स्य उवाच।
ततो भयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः।
उद्योग विपुलं चक्रुर्युद्धाय विजयाय च ।। १७३.१ ।।
मयस्तु काञ्चनमयं त्रिनल्वायतमक्षयम्।
चतुश्चक्रं सुविपुलं सुकल्पित महायुगम् ।। १७३.२ ।।
किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्।
रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम् ।। १७३.३ ।।
ईहामृगगणाकीर्णं पक्षिपङ्क्ति विराजितम्।
दिव्यास्त्रतूणीरधरं पयोधर विनादितम् ।। १७३.४ ।।
स्वक्षं रथवरोदारं सूपस्थं गगनोपमम्।
गदापरिघसंपूर्णं मूर्तिमन्तमिवार्णवम् ।। १७३.५ ।।
हेमकेयूरवलयं स्वर्णमण्डल कूवरम्।
सपताक ध्वजोपेतं सादित्यमिव मन्दरम् ।। १७३.६ ।।
गजेन्द्रा भोगवपुषं क्वचित् केसरि वर्चसम्।
युक्तमृक्षसहस्रेण समृद्धाम्बुद नादितम् ।। १७३.७ ।।
दीप्तमाकाशगं दिव्यं रथं पररथारुजम्।
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ।। १७३.८ ।।
तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम्।
शैलाकारमसम्बाधं नीलाञ्जन च योपमम् ।। १७३.९ ।।
कार्ष्णायसमयं दिव्यं लोहेषा बद्ध कूबरम्।
तिमिरोद्गारि किरणं गर्जन्तमिव तोयदम् ।। १७३.१० ।।
लोहजालेन महता सगवाक्षेण दंशितम्।
आयसैः परिधैः पूर्णं क्षेपणीयैश्च मुद्गरैः ।। १७३.११ ।।
प्रासैः पाशैश्च विततैर्नर संयुक्त कण्टकैः।
शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः ।। १७३.१२ ।।
उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम्।
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ।। १७३.१३ ।।
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः।
प्रमुखे तस्य सैन्यस्य दीप्तग्रह इवाचलः ।। १७३.१४ ।।
युक्तं रथसहस्रेण हयग्रीवस्तु दानवः।
स्यन्दनं वाहयामास सपत्नानीक मर्दनः ।। १७३.१५ ।।
व्यायतं किष्कु साहस्रं धनुर्विस्फारयन्महत्।
वाराहः प्रमुखे तस्थौ सप्ररोह इवाचलः ।। १७३.१६ ।।
खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम्।
स्फुरद्दन्तोष्ठ नयनं संग्रामं सोऽभ्यकाङ्क्षत ।। १७३.१७ ।।
त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः।
व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान् ।। १७३.१८ ।।
विप्रचित्ति वपुश्चैव श्वेत कुण्डल भूषणः।
श्वेतः श्वेतप्रतीकाशो युद्धायाभिमुखे स्थितः ।। १७३.१९ ।।
अरिष्टो बलिपुत्रश्च वरिष्ठाद्रि शिलायुधः।
युद्धायाभिमुखस्तस्थौ धराधर विकम्पनः ।। १७३.२० ।।
किशोरस्त्वभिसंघर्षात् किशोर इति चोदितः।
सबला दानवाश्चैव सन्नह्यन्ते यताक्रमम् ।। १७३.२१ ।।
अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः।
लम्बस्तु नवमेघाभः प्रलम्बाम्बर भूषणः ।। १७३.२२ ।।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्।
स्वर्भानुरास्ययोधी तु दशनौष्ठे क्षणायुधः ।। १७३.२३ ।।
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः।
अन्ये हयगतास्तत्र गजस्कन्धगताः परे ।। १७३.२४ ।।
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे।
केचित् खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः ।। १७३.२५ ।।
पतिनस्त्वपरे दैत्या भीषणा विकृताननाः।
एकपादार्द्धपादाश्च ननृतुर्युद्दकाङ्क्षिणः ।। १७३.२६ ।।
आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथापरे।
हृष्टशार्दूलनिर्घोषा नेदुर्दानव पुङ्गवाः ।। १७३.२७ ।।
ते गदापरिघैरुग्रैः शिलामुसलपाणयः।
बाहुभिः परिघाकारैस्तर्जयन्तिस्म देवताः ।। १७३.२८ ।।
पाशैः प्रासैश्च परिघैस्तोमराङ्कुश पट्टिशैः।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ।। १७३.२९ ।।
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः।
चक्रैश्च दैत्यप्रवरा श्चक्रुरानन्दितं बलम् ।। १७३.३० ।।
एतद्दानवसैन्यं तत्सर्वं युद्ध मदोत्कटम्।
देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम् ।। १७३.३१ ।।
तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नि शैलाम्बुद तोयकल्पम्।
बलं रणौघाभ्युदयेऽभ्युदीर्णं युयुत्सयोन्मत्तमिवावभासे ।। १७३.३२ ।।