मत्स्यपुराणम्/अध्यायः ११२
नन्दिकेश्वर उवाच।
भ्रातृभिः सहितः सर्वे द्रौपद्या सह भार्यया।
ब्राह्मणेभ्यो नमस्कृत्य गुरून् देवानतर्पयत्।। ११२.१ ।।
वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा।
पाण्डवैः सहितैः सर्वे (र्वैः) पूज्यमानस्तु माधवः।। ११२.२ ।।
कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः।
अभिषिक्तः स्वराज्ये च धर्मपुत्रो युधिष्ठिरः।। ११२.३ ।।
एतस्मिन्नन्तरे चैव मार्कण्डेयो महामुनिः।
ततः स्वस्तीति चोक्त्वा तु क्षणादाश्रममागमत्।। ११२.४ ।।
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितोऽवसत्।
महादानं ततो दत्त्वा धर्मपुत्रो महामनाः।। ११२.५ ।।
यस्त्विहं कल्प(ल्प) उत्थाय माहात्म्यं पठते नरः।
प्रयागं स्मरते नित्यं स याति परमं पदम्।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति।। ११२.६ ।।
वासुदेव उवाच।
मम वाक्यञ्च कर्त्तव्यं महाराज! ब्रवीम्यहम्।
नित्यं जपस्व जुह्वस्व प्रयागे विगतज्वरः।। ११२.७ ।।
प्रयागं स्मर वै नित्यं सहास्माभिर्युधिष्ठिर!।
स्वयं प्राप्स्यसि राजेन्द्र! स्वर्गलोकं न संशयः।। ११२.८ ।।
प्रयागमनुगच्छेद्वा वसते वापि यो नरः।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति।। ११२.९ ।।
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः।
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते।। ११२.१० ।।
अकोपनश्च सत्यश्च सत्यवादी द्रृढव्रतः।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते।। ११२.११ ।।
ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम्।
न हि शक्त्या दरिद्रेण यज्ञाः प्राप्तुं महीयते।। ११२.१२ ।।
बहूपकरणा यज्ञा नानासम्भारविस्तराः।
प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वा नरैः क्वचित्।। ११२.१३ ।।
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर!।
तुल्यो यज्ञफलैः पुण्यैस्तन्निबोधयुधिष्ठिर।। ११२.१४ ।।
ऋषिणां परमं गुह्यमिदं भरतसत्तम!।
तीर्थानुगमनं पुण्यं यज्ञेभ्योऽपि विशिष्यते।। ११२.१५ ।।
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथापगाः।
माघमासे गमिष्यन्ति गङ्गायां भरतर्षभ!।। ११२.१६ ।।
स्वस्थो भव महाराज! भुंक्ष्व राज्यमकण्टकम्।
पुनर्द्रक्ष्यसि राजेन्द्र! यजमानो विशेषतः।। ११२.१७ ।।
नन्दिकेश्वर उवाच।
इत्युक्त्वा स महाभागो मार्कण्डेयो महातपाः।
युधिष्ठिरस्य नृपतेस्तत्रैवान्तरधीयत।। ११२.१८ ।।
ततस्तत्र समाप्लाव्य गात्राणि सगणो नृपः।
यथोक्तेनाथ विधिना परां निर्वृतिमागमत्।। ११२.१९ ।।
तथा त्वमपि देवर्षे। प्रयागाभिमुखो भव।
अभिषेकन्तु कृत्वाद्य कृतकृत्यो भविष्यसि।। ११२.२० ।।
सूत उवाच।
एवमुक्त्वाऽथ नन्दीशस्तत्रैवान्तरधीयत।
नारदोऽपि जगामाशु प्रयागाभिमुखस्तदा।। ११२.२१ ।।
तत्र स्नात्वा च जप्त्वा च विधिद्रृष्टेन कर्मणा।
दानं दत्त्वा द्विजाग्र्येभ्यो गतः स्वभवनं तदा।। ११२.२२ ।।