मत्स्यपुराणम्/अध्यायः १४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







तारकासुरोपाख्यानम्।

तारक उवाच।
श्रृणुध्वमसुराः! सर्वे वाक्यं मम महाबलाः।
श्रेयसे क्रियतां बुद्धिः सर्वैः कृत्यस्य सम्विधौ ॥ १४८.१
वंशक्षयकरा देवाः सर्वेषामेव दानवाः।
अस्माकं जातिधर्मो वै विरूढं वैरमक्षयम् ॥ १४८.२
वयमद्य गमिष्यामः सुराणां निग्रहाय तु।
स्वबाहु बलमाश्रित्य सर्व एवमसंशयः ॥ १४८.३
किन्तु ना तपसा युक्तो मन्येऽहं सुरसङ्गमम्।
अहमादौ करिष्यामि तपो घोरन्दितेः सुताः॥ १४८.४
ततः सुरान् विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम्।
स्थिरोपायो हि पुरुषः स्थिरश्रीरपि जायते ॥ १४८.५
रक्षितुं नैव शक्नोति चपलश्चपलाः श्रियः।
तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु ॥ १४८.६
साधु साध्वित्यवोचंस्ते तत्र दैत्याः सविस्मयाः।
सोऽगच्छत्पारियात्रस्य गिरैः कन्दरमुत्तमम् ॥ १४८.७
सर्वर्तु कुसुमाकीर्णं नानौषधि विदीपितम्।
नानाधातुरसस्राव चित्रं नानागुहागृहम् ॥ १४८.८
गहनैः सर्वतो गूढं चित्रकल्प द्रुमाश्रयम्।
अनेकाकारबहुलं पृथक् पक्षि कुलाकुलम् ॥ १४८.९
नानाप्रस्रवणोपेतं नानाविधजलाशयम्।
प्राप्य तत् कन्दरं दैत्यश्चचार विपुलं तपः ॥ १४८.१०
निराहारः पञ्चतपा पत्रभुग्वारिभोजनः।
शतं शतं समानान्तु तपांस्येतानि सोऽकरोत् ॥ १४८.११
ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने।
मांसस्याग्नौ जुहावासौ ततो निर्मांसताङ्गतः ॥ १४८.१२
तस्मिन्निर्मांसतां याते तपोराशित्वमागते।
जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः ॥ १४८.१३
उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः।
एतस्मिन्नन्तरे ब्रह्मा परमं तोषमागतः ॥ १४८.१४
तारकस्य वरं दातुं जगाम त्रिदशालयात्।
प्राप्य तं शैलराजानं स गिरेः कन्दरस्थितम्
उवाच तारकं देवो गिरा मधुरया युतः॥ १४९.१५
पुत्रालं तपसा तेऽस्तु नास्त्यसाध्यं तवाऽधुना ॥ १४८.१६
वरं वृणीष्व रुचिरं यत्ते मनसि वर्त्तते।
इत्युक्तस्यारको दैत्यः प्रणम्यात्मभुवं विभुम्
उवाच प्राञ्जलिर्भूत्वा प्रणतः पृथुविक्रमः॥ १४८.१७
तारक उवाच।
देव! भूतमनोवास! वेत्सि जन्तुविचेष्टितम् ॥ १४८.१८
कृतप्रतिकृताकाङ्क्षी जिगीषुः प्रायशो जनः।
वयञ्च जातिधर्मेण कृतवैराः सहामरैः॥ १४८.१९
तैश्च निःशेषिता दैत्याः क्रूरैः सन्त्यज्य धर्मिताम्।
तेषामहं समुद्धर्त्ता भवेयमिति मे मतिः ॥ १४८.२०
अवध्यं सर्वभूतानामस्त्राणाञ्च महौजसाम्।
स्यामहं परमो ह्येष वरो मम हुदि स्थितः ॥ १४८.२१
एतन्मे देहि देवेश! नान्यो मे रोचते वरः
तमुवाच ततो दैत्यं विरिञ्चिः सुरनायकः ॥ १४८.२२
न युज्यन्ते विना मृत्युं देहिनो दैत्यसत्तम।
यतस्ततोऽपि वरय मृत्युं यस्मान्न शङ्खसे ॥ १४८.२३
ततः सञ्चिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात्।
वव्रे महासुरो मृत्युमवलेपनमोहितः ॥ १४८.२४
ब्रह्मा चास्मै वरं दत्वा यत्किञ्चिन्मनसेप्सितम्।
जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम् ॥ १४८.२५
उत्तीर्णं तपसस्तं तु दैत्यं दैत्येश्वरास्तथा।
परिबब्रुः सहस्राक्षं दिवि देवगणा यथा॥ १४८.२६
तस्मिन् महति राज्यस्य तारके दैत्यनन्दने।
ऋतवो मूर्त्तिमन्तश्च स्वकाल गुणबृंहिताः १४८.२७
अभवन् किङ्करास्तस्य लोकपालाश्च सर्वशः।
कान्तिद्युतिर्धृतिर्मेधाः श्रीरवेक्ष्य च दानवम् ॥ १४८.२८
परिबब्रुर्गुणाकीर्णा निश्छिद्राः सर्व एव हि।
कालागुरुविलिप्ताङ्गं महामुकुटभूषणम् ॥ १४८.२९
रुचिराङ्गदनद्धाङ्गं महासिंहासने स्थितम्।
वीजयन्त्यप्सरः श्रेष्ठाः भृशं मुञ्चन्ति नैव ताः ॥ १४८.३०
चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः।
कृतान्तोऽग्रेसरस्तस्य बभूवुर्मुनिसत्तमाः॥ १४८.३१
एवं प्रयाति काले तु वितते तारकासुरः।
बभाषे सचिवान् दैत्यः प्रभूतवरदर्पितः॥ १४८.३२
तारक उवाच।
राज्येन कारणं किं मे त्वनाक्रम्य त्रिविष्टपम्।
अनिर्याप्य सुरैर्वैरं का शान्तिर्हृदये मम ॥ १४८.३३
भुञ्जतेऽद्यापि यज्ञांशानमरा नाक एव हि।
विष्णुः श्रियं न जहति तिष्ठते च गतभ्रमः ॥ १४८.३४
स्वस्थाभिः स्वर्गनारीभिः पीड्यन्तेऽमरवल्लभाः।
सोत्पलामदिरामोदा दिविक्रीड़ायनेषु च ॥ १४८.३५
लब्ध्वा जन्म न यः कश्चिद् घटयेत् पौरुषं नरः।
जन्म तस्य वृथा भूतम् जन्मना तु विशिष्यते ॥ १४८.३६
माता पितृभ्यां न करोति कामान् बन्धूनशोकान् न करोति यो वा।
कीर्त्तिं हि वानार्जयते हिमाभां पुमान् स जातोऽपि मृतो मतं मे ॥ १४८.३७
तस्माज्जयायामरपुङ्गवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम्।
संयोज्यतां मे रथमष्टचक्रं बलञ्च मे दुर्जय दैत्यचक्रम्।
ध्वजञ्च मे काञ्चनपट्टनद्धं छत्रञ्च मे मौक्तिकजालबद्धम् ॥ १४८.३८
तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः।
सेनानीर्दैत्यराजस्य तथा चक्रे बलान्वितः ॥ १४८.३९
आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः।
तुरगाणां सहस्रेण चक्राष्टकविधूषितम् ॥ १४९.४०
शुक्लाम्बरपरिष्कारं चतुर्थोजन विस्तृतम्।
नानाक्रीडागृहयुतं गीतवाद्यमनोहरम् ॥ १४८.४१
विमानमिव देवस्य सुरभर्त्तुः शतक्रतोः।
दशकोटीश्वरा दैत्या दैत्यास्ते चण्डविक्रमाः ॥ १४८.४२
तेषामग्रेसरो जम्भः कुजम्भोऽनन्तरस्ततः।
महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा॥ १४८.४३
मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः।
अन्येऽपि शतशस्तस्य पृथिवी दलन क्षमाः ॥ १४८.४४
दैत्येन्द्रा गिरिवर्ष्माणः सन्ति चण्डपराक्रमाः।
नानायुधप्रहरणा नानाशस्त्रास्त्रपारगाः १४८.४५
तारकस्याभवत् केतू रौद्रः कनकभूषण।
केतुना मकरेणापि सेनानीर्ग्रसनोऽरिहा ॥ १४८.४६
पैशाचं यस्य वदनं जम्भस्यासीदयोमयम्।
स्वरं विधूतलाङ्गूलं कुजम्भस्याभवद् ध्वजे ॥ १४८.४७
महिषस्य तु गोमायुङ्केतोर्हैमं तदा भवत्।
ध्वाङ्क्षं ध्वजेतु शुम्भस्य कृष्णायोमयमुच्छ्रितम् ॥ १४८.४८
अनेकाकारविन्यासाश्चान्येषान्तु ध्वजास्तथा।
शतेन शीघ्रवेगानां व्याघ्राणां हेममालिनाम् ॥ १४८.४९
ग्रसनस्य रथो युक्तो किङ्किणी जालमालिनाम्।
शतेनापि च सिंहानां रथो जम्भस्य दुर्जयः ॥ १४८.५०
कुजम्भस्य रथो युक्तः पिशाचवदनैः खरैः।
रथस्तु महिषस्योष्ट्रैर्गजस्य तु तुरङ्गमैः॥ १४८.५१
मेघस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः।
पर्वताभैः समारूढो निमिर्मत्तैर्महागजैः ॥ १४८.५२
चतुर्दन्तैर्गन्धवद्भिः शिक्षितैर्मेघभैरवैः।
शतहस्तायते कृष्णे तुरङ्गैर्हेमभूषणैः ॥ १४८.५३
सितचामरजालेन शोभिते दक्षिणां दिशम्।
सितचन्दन चार्वङ्गो नानापुष्पस्रजोज्ज्वलः ॥ १४८.५४
मथनो नाम दैत्येन्द्रः पाशहस्तो व्यराजत।
जम्भकः किङ्किणीजाल मालमुष्ट्रं समास्थितः ॥१४८.५५
कालशुक्लमहामेषमारूढः शुम्भदानवः।
अन्वेऽपि दानवा वीरा नाना वाहनगामिणः॥१४८.५६
प्रचण्डचित्रकर्माणः कुण्डलोष्णीषभूषणाः।
नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः ॥ १४८.५७
नानासुगन्धिगन्धाढ्या नानाबन्दिजनस्तुताः।
नानावाद्यपरिष्पन्दा श्चाग्रेसरमहारथा ॥ १४८.५८
नानाशौर्यकथासक्तास्तस्मिन् सैन्ये महासुराः।
तद् बलं दैत्यसिंहस्य भीमरूपं व्यजायत ॥ १४८.५९
प्रमत्त चण्डमातङ्ग तुरङ्ग रथसङ्कुलम्।
प्रतस्थेमरयुद्धाय बहुपत्तिपताकिनम् १४८.६०
एतस्मिन्नन्तरे वायुर्देवदूतोऽम्बरालये।
दृष्ट्वा स दानवबलं जगामेन्द्रस्य शंसितम् ॥ १४८.६१
स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः।
शशंस मध्ये देवानां तत्कार्यं समुपस्थितम् ॥ ६२
तच्छ्रुत्वा देवराजस्तु निमीलित विलोचनः।
बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः॥ ६३
इन्द्र उवाच।
संप्राप्नोति विमर्दोऽयं देवानां दानवैः सह।
कार्यं किमिति तद् ब्रूहि नीत्युपाय समन्वितम् ॥ ६४
एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरां पतिः।
इत्युवाच महाभागे बृहस्पतिरुदारधीः ॥ ६५
सामपूर्वा स्मृता नीतिश्चतुरङ्गां पताकिनीम्।
जिगीषतां सुरश्रेष्ठ! स्थितिरेषा सनातनी ॥ ६६
सामभेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम्।
नीतौ क्रमाद्देशकाल रिपुयोग्य क्रमादिदम् ॥ ६७
सामदैत्येषु नैवास्ति यतस्ते लब्धसंश्रयाः।
जातिधर्मेण वा भेद्या दानं प्राप्त श्रिये च किम् ॥ ६८
एकोऽभ्युपायो दण्डोऽत्र भवता यदि रोचते।
दुर्जनेषु कृतं साम महद्याति च वन्ध्यताम् ॥ ६९
भयादिति व्यवस्यन्ति क्रूराः साम महात्मनाम्।
ऋजुतामार्य्यबुद्धित्वं दयानीति व्यतिक्रमम् ॥ ७०
मन्यन्ते दुर्जना नित्यं साम चापि भयोदयात्।
तस्माद् दुर्जनमाक्रान्तुं श्रेयान् पौरुषसंश्रयः ॥ ७१
आक्रान्ते तु क्रिया युक्ता सतामेतन्महाव्रतम्।
दुर्जनः सुजनत्वाय कल्पते न कदाचन॥ ७२
सुजनोऽपि स्वभावस्य त्यागं वाञ्छेत् कदाचन।
एवं मे बुद्ध्यते बुद्धिर्भवन्तोऽत्र व्यवस्यताम् ॥ ७३
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम्।
कर्त्तव्यतां स सञ्चिन्त्य प्रोवाचामरसंसदि ॥ ७४
इन्द्र उवाच।
सावधानेन मे वाचं श्रृणुध्वं नाकवासिनः! ।
भवन्तो यज्ञभोक्तारः तुष्टात्मानोऽतिसात्विकाः ॥ ७५
स्वे महिम्नि स्थिता नित्यं जगतः परिपालकाः।
भवतश्चानिमेत्तेन बाधन्ते दानवेश्वराः ॥ ७६
तेषां सामादि नैषास्ति दण्ड एव विधीयताम्।
क्रियतां समरोद्योगः सैन्यं संयुज्यतां मम ॥ ७७
आद्रियन्तां च शस्त्राणि पूज्यन्तामस्त्रदेवताः।
वाहनानि च यानानि योजयन्तु सहामराः ॥ ७८
यमं सेनापतिं कृत्वा शीग्रमेवं दिवौकसः।
इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः ॥७९
वाजिनाम युतेनाजौ हेमघण्टापरिष्कृतम्।
नानाश्चर्यगुणोपेतं संप्राप्तं सर्वदैवतैः ॥ ८०
रथं मातलिना क्लृप्तं देवराजस्य दुर्जयम्।
यमो महिषमास्थाय सेनाग्रे समवर्त्तत ॥ ८१
चण्डकिङ्करवृन्देन सर्वतः परिवारितः।
कल्पकालोद्धतज्वाला पूरिताम्बरलोचनः ॥ ८२
हुताशनश्छागरूढः शक्तिहस्तो व्यवस्थितः।
पवनोऽङ्कुशपाणिस्तु विस्तारित महाजवः ॥ ८३
भुजगेन्द्रसमारूढो जलेशो भगवान् स्वयम्।
नरयुक्तरथे देवो राक्षसेशो वियच्चरः ॥ ८४
तीक्ष्णखङ्गयुतो भीमः समरे समवस्थितः।
महासिंहरवो देवो धनाध्यक्षो गदायुधः ॥ ८५
चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्वितौ।
राजभिः सहितास्तस्थुर्गन्धर्वा हेमभूषणाः ॥ ८६
हेमपीठोत्तरासङ्गा- श्चित्रधर्म-रथायुधाः।
नाकपृष्ठ शिखण्डास्तु वैढूर्य्य-मकरध्वजाः ॥ ८७
जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्द्धजाः।
गृध्रध्वजा महावीर्या निर्मलायो विभूषणाः ॥ ८८
मुसलासिगदाहस्ता रथे चोष्णीष दंशिताः।
महामेघरवा नागा भीमोल्काशनिहेतयः ॥ ८९
यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्द्धराः।
ताम्रोलूकध्वजा रौद्रा हेमरत्न विभूषणाः ॥ ९०
द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ।
गार्धपत्रध्वजप्रायमस्थिभूषण भूषितम् ॥ ९१
मुसलायुध दुष्प्रेक्ष्यं नाना प्राणि महारवम्।
किन्नराः श्वेतवसनाः सितपत्रिपताकिनः ॥ ९२
मत्तेभवाहनप्रायाः तीक्ष्ण तोमरहेतयः।
मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः ॥ ९३
केतुर्जलाधिनाथस्य भीमधूम ध्वजानिलः।
पद्मरागमहारत्न-विटपं धनदस्य तु ॥ ९४
ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम्।
वृकेण काष्ठलोहेन यमस्यासीत् महाध्वजः ॥ ९५
राक्षसेशस्य केतोर्वै प्रेतस्य सुखमाबभौ।
हेमसिंहध्वजौ देवो चन्द्रार्कावमितद्युती ॥ ९६
कुम्भेन रत्नचित्रेण केतुरश्विनयोरभूत्।
हेममातङ्गरचितं चित्र रत्न परिष्कृतम् ॥ ९७
ध्वजं शतक्रतोरासीत् सितचामरमण्डितम्।
सनाग यक्ष गन्धर्व महोरगनिशाचरा ॥ ९८
सेना सा देवराजस्य दुर्जया भुवनत्रये।
कोटयस्तास्त्रयस्त्रिंशद्दैवे देवनिकायिनाम् ॥ ९९
हिमाचलाभे सितकर्णचामरे सुवर्ण पद्मामल सुन्दरस्रजि।
कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसङ्कुले ॥ १००
स्थितस्तदैरावतनामकुञ्जरे महाबलश्चित्रविभूषणाम्बरः ।
विशालवस्त्रांशु-वितानभूषितः प्रकीर्णकेयूर-भुजाग्रमण्डलः ॥
सहस्रदृक् वन्दिसहस्रसंस्तुत-स्त्रिविष्टपेऽशोभत पाकशासनः ॥ १०१
तुरङ्ग मातङ्ग बलौध सङ्कुला सितात पत्रध्वज राजिशालिनी।
चमूश्च सा दुर्जयपत्रिसन्तता विभाति नानायुधयोधदुस्तरा ॥ १०२