मत्स्यपुराणम्/अध्यायः २८
शुक्रकृतदेवयानीसान्त्वनम्।
शुक्र उवाच।
यः परेषां नरो नित्यमतिवादां स्तितिक्षते।
देवयानि! विजानीहि तेन सर्वमिदञ्जितम्।। २८.१ ।।
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा।
संयते त्यज्यते सद्भिर्नयो रश्मिषु लम्बते।। २८.२ ।।
यः समुत्पतितं क्रोधमक्रोधेन नियच्छति।
देवयानि विजानीहि तेन सर्वमिदञ्जितम्।। २८.३ ।।
यः समुत्पतितं कोपं क्षमयैव निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते।। २८.४ ।।
यस्तु भावयते धर्मं योनिमात्रं तितिक्षति।
यश्च तप्तो न तपति भृशं सोऽर्थस्य भाजनम्।। २८.५ ।।
यो यजेदश्वमेधेन मासि मासि शतं समाः।
यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः।। २८.६ ।।
ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः।
नैतत् प्राज्ञस्तु कुर्वीत विदुस्तेन बलाबलम्।। २८.७ ।।
देवयान्युवाच।
वेदाहन्तात! बालापि कार्याणान्तु गतागतम्।
क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले।। २८.८ ।।
शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा।
असत्संकीर्णवृत्तेषु वासो मम न रोचते।। २८.९ ।।
पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु।। २८.१० ।।
ये नैनमभिजानन्तु वृत्तेनाभिजनेन च।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते।। २८.११ ।।
तन्मे मथ्नाति हृदयमग्निकल्पमिवारणिम्।
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः।। २८.१२ ।।
नह्यतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु।
या सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते।। २८.१३ ।।