मत्स्यपुराणम्/अध्यायः १८५
वाराणसीमाहात्म्यम्।
सूत उवाच।
अविमुक्ते महापुण्ये आस्तिकाः शुभदर्शनाः।
विश्मयं परमं जग्मुर्हर्ष गद्गद निस्वनाः ।। १८५.१ ।।
उचुस्ते हृष्टमनसः स्कन्दं धर्म्म विदां वरम्।
ब्रह्मणो देव! पौत्रस्त्वं ब्रह्मण्यो ब्रह्मणः प्रियः ।। १८५.२ ।।
ब्राह्मणो ब्रह्म विद् ब्रह्मा ब्रह्मेन्द्रो ब्रह्मलोककृत्।
ब्रह्मकृद्ब्रह्मचारी त्वं ब्रह्मादिर्ब्रह्मवत्सलः ।। १८५.३ ।।
ब्रह्मतुल्योद्भवकरो ब्रह्मतुल्य नमोऽस्तु ते।
ऋषयो भावितात्मानः श्रुत्वेदं पावनं महत् ।। १८५.४ ।।
तत्वन्तु परमं ज्ञातं यज्ज्ञात्वाऽमृतमश्नुते।
स्वस्तितेऽस्तु गमिष्यामो भूर्लोकं शङ्करालयम् ।। १८५.५ ।।
यत्रासौ सर्वभूतात्मा स्थाणुभूतः स्थितः प्रभुः।
सर्वलोक हितार्थाय तपस्युग्रे व्यवस्थितः ।। १८५.६ ।।
संयोज्य योगेनात्मानं रौद्रीं तनुमुपाश्रितः।
गुह्यकैरात्मभूतस्तु आत्मतुल्य गुणैर्वृतः ।। १८५.७ ।।
ततो ब्रह्मादिभिर्देवैः सिद्धैश्च परमर्षिभिः।
विज्ञप्तः परया भक्त्या त्वत्प्रसादाद् गणेश्वर! ।। १८५.८ ।।
वक्तुमिच्छाम नियतमविमुक्ते सुनिश्चिताः।
एवं गुणे तथा मर्त्या ह्यविमुक्ते वसन्ति ये ।। १८५.९ ।।
धर्मशीला जितक्रोधा निर्ममा नियतेन्द्रियाः।
ध्यान योगपराः सिद्धिं गच्छन्ति परमाव्ययाम् ।। १८५.१० ।।
योगिनो योगसिद्धाश्च योगमोक्षप्रदं विभुम्।
उपासन्ते भक्तियुक्ताः शान्ता योगगतिङ्गताः ।। १८५.११ ।।
स्थानं गुह्यं श्मशानानां सर्वेषामेतदुच्यते।
न हि योगादृते मोक्षः प्राप्यते भुवि मानवैः ।। १८५.१२ ।।
अविमुक्ते तु वसतां योगो मोक्षश्च सिध्यति।
अनेन जन्मनैवेह प्राप्यते गतिरुत्तमा ।। १८५.१३ ।।
एक एव प्रभावोऽस्ति क्षेत्रस्य परमेश्वरि!।
एकेन जन्मना देवि! मोक्षं पश्यन्त्यनुत्तमम् ।। १८५.१४ ।।
अविमुक्ते निवसता व्यासेनामिततेजसा।
नैव लब्धा क्वचिद्भिक्षा भ्रममाणेन यत्नतः ।। १८५.१५ ।।
क्षुधाविष्टस्ततः क्रुद्धोऽचिन्तयत् छापमुत्तमम्।
दिनं दिनं प्रति व्यासः षण्मासं योऽवतिष्ठति ।। १८५.१६ ।।
कथं ममेदं नगरं भिक्षादोषाद्धतन्त्विदम्।
विप्रो वा क्षत्रियो वापि विधवा ब्राह्मणी पिवा ।। १८५.१७ ।।
संस्कृतासंस्कृता वापि परिपक्वाः कथन्नु मे।
न प्रयच्छन्ति वै लोका ब्राह्मणाश्चर्य कारकम् ।। १८५.१८ ।।
एषां शापं प्रदास्यामि तीर्थस्य नगरस्य तु।
तीर्थञ्चातीर्थतां यातु नगरं शापयाम्यहम् ।। १८५.१९ ।।
मा भूत्त्रिपुरुषी विद्या मा भूत्त्रिपुरुषं धनम्।
मा भूत् त्रिपुरुषं सव्यं व्यासो वाराणसीं शपन् ।। १८५.२० ।।
अविमुक्ते निवसतां जनानां पुण्यकर्मणाम्।
विघ्नं सृजामि सर्वेषां येन सिद्धिर्न विद्यते ।। १८५.२१ ।।
व्यासचित्तं तदा ज्ञात्वा देवदेव उमापतिः।
भीतभीतस्तदा गौरीं तां प्रियां पर्य्यभाषत ।। १८५.२२ ।।
श्रृणु देवि! वचो मह्यं यादृशं प्रत्युपस्थितम्।
कृष्णद्वैपायनः कोपाच्छापं दातुं समुद्यतः ।। १८५.२३ ।।
देव्युवाच।
क्रिमर्थं शपते क्रुद्धो व्यासः केन प्रकोपितः।
किं कृतं भगवंस्तस्य येन शापं प्रयच्छति ।। १८५.२४ ।।
देवदेव उवाच।
अनेन सुतपस्तप्तं बहून् वर्षगणान् प्रिये!।
मौनिना ध्यानयुक्तेन द्वादशाब्दान् वरानने ।। १८५.२५ ।।
ततः क्षुधा सुसञ्जाता भिक्षामटितुमागतः।
नैवास्य केनचिद्भिक्षा ग्रासार्द्धमपि भामिनि ।। १८५.२६ ।।
एवं भगवतः काल आसीत् षाण्मासिको मुनेः।
ततः क्रोधपरीतात्मा शापं दास्यति सोऽधुना ।। १८५.२७ ।।
यावन्नेष शपेत्तावदुपायस्तत्र चिन्त्यताम्।
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रिये ।। १८५.२८ ।।
कोऽस्य शापान्न बिभेति ह्यपि साक्षात् पितामहः।
अदैवं दैवतं कुर्य्याद् दैवं चाप्यपदैवतम् ।। १८५.२९ ।।
आवान्तु मानुषौ भूत्वा गृहस्थाविहवासिनौ।
तस्य तृप्तिकरीं भिक्षां प्रयच्छावो वरानने ।। १८५.३० ।।
एवमुक्त्वा ततो देवी देवेन शम्भुना तदा।
व्यासस्य दर्शनं दत्त्वा कृत्वा वेषन्तु मानुषम् ।। १८५.३१ ।।
एह्येहि भगवन्! सद्यो भिक्षां ग्राहय सत्तम!।
अस्मद् गृहे कदाचित्त्वं नागतोऽसि महामुने! ।। १८५.३२ ।।
एतच्छ्रुत्वा प्रीतमना भिक्षां ग्रहीतुमागतः।
भिक्षां दत्त्वा तु व्यासाय षड्रसाममृतोपमाम् ।। १८५.३३ ।।
अनास्वादितपूर्वा सा भक्षिता मुनिना तदा।
भिक्षां व्यासस्ततो भुक्त्वा चिन्तयन्हृष्टमानसः ।। १८५.३४ ।।
ववन्दे वरदं देवं देवीञ्च गिरिजां तदा।
व्यासः कमलपत्राक्ष इदं वचनमब्रवीत् ।। १८५.३५ ।।
देवो देवी नदी गङ्गामिष्टमन्नं शुभा गतिः।
वाराणस्यां विशालाक्षि! वासः कस्य न रोचते ।। १८५.३६ ।।
एवमुक्त्वा ततो व्यासो नगरीमवलोकयन्।
चिन्तयानस्ततो भिक्षां हृदयानन्दकारिणीम् ।। १८५.३७ ।।
अपश्यत् पुरतो देवं देवीञ्च गिरिजां तदा।
गृहाङ्गणस्थितं व्यासं देवदेवोऽब्रवीदिदम् ।। १८५.३८ ।।
इह क्षेत्रे न वस्तव्यं क्रोधनस्त्वं महामुने!।
एवं विस्मयमापन्नो देवं व्यासोऽब्रवीद्वचः ।। १८५.३९ ।।
व्यास उवाच।
चतुर्दश्यामथाष्टम्यां प्रवेशं दातुमर्हसि।
एवमस्त्वित्यनुज्ञाय तत्रैवान्तरधीयत ।। १८५.४० ।।
न तद् गृहं न सा देवी न देवो ज्ञायते क्वचित्।
एवं त्रैलोक्यविख्यातः पुरा व्यासो महातपाः ।। १८५.४१ ।।
ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्यैव पार्श्वतः।
एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं शंसन्ति पण्डिताः ।। १८५.४२ ।।
अविमुक्तगुणानान्तु कः समर्थो वदिष्यति।
देवब्राह्मण-विद्विष्टा देवभक्तिविडम्बकाः ।। १८५.४३ ।।
ब्रह्मघ्नाश्च कृतघ्नाश्च तथा नैष्कृतिकाश्च ये।
लोकद्विषो गुरुद्विषस्तीर्थायतन दूषकाः ।। १८५.४४ ।।
सदा पापरताश्चैव ये चान्ये कुत्सिता भुवि।
तेषां नास्तीति वासो वै स्थितोऽसौ दण्डनायकः ।। १८५.४५ ।।
रक्षणार्थं नियुक्तं वै दण्डनायकमुत्तमम्।
पूजयित्वा यथा शक्त्या गन्धपुष्पादि धूपकैः ।। १८५.४६ ।।
नमस्कारं ततः कृत्वा नायकस्य तु मन्त्रवित्।
सर्ववर्णावृते क्षेत्रे नानाविध-सरीसृपे ।। १८५.४७ ।।
ईश्वरानुगृहीता हि गतिं गाणेश्वरीं गताः।
नानारूपधरा दिव्या नानावेषधरास्तथा ।। १८५.४८ ।।
सुरा वै ये तु सर्वे च तन्निष्ठास्तत्परायणाः।
यदिच्छन्ति परं स्थानमक्षयन्तदवाप्नुयुः ।। १८५.४९ ।।
परं पुरं दैवपुराद्विशिष्यते तदुत्तरं ब्रह्मपुरात् पुरस्थितम्।
तपोबलादीश्वरयोगनिर्मितं न तत् समं ब्रह्मदिवौकसालयम्।
मनोरमं कामगमं ह्यनामयमतीत्य तेजांसि तपांसि योगवत् ।। १८५.५० ।।
अधिष्ठितस्तु तत्स्थाने देवदेवो विराजते।
तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये ।। १८५.५१ ।।
सर्वतीर्थाभिषेकं तु सर्वदानफलानि च।
सर्वयज्ञेषु यत् पुण्यमविमुक्ते तदाप्नुयात्।। १८५.५२ ।।
अतीतं वर्तमानञ्च ज्ञानादज्ञानतोऽपि वा।
सर्वं तस्य च यत् पापं क्षेत्रं दृष्ट्वा विनश्यति ।। १८५.५३ ।।
शान्तैर्दान्तैस्तपस्तप्तं यत् किञ्चित् धर्मसंज्ञितम्।
सर्वं च तदवाप्नोति अविमुक्ते जितेन्द्रियः ।। १८५.५४ ।।
अविमुक्तं समासाद्य लिङ्गमर्चयते नरः।
कल्पकोटिशतैश्चापि नास्ति तस्य पुनर्भवः ।। १८५.५५ ।।
अमरा ह्यक्षयाश्चैव क्रीडन्ति भवसन्निधौ।
क्षेत्रतीर्थोपनिषदमविमुक्तं न संशयः ।। १८५.५६ ।।
अविमुक्ते महादेवमर्चयन्ति स्तुवन्ति वै।
सर्वपापविनिर्मुक्तास्ते तिष्ठन्त्यजरामराः ।। १८५.५७ ।।
सर्वकामाश्च ये यज्ञाः पुनरावृत्तिकाः स्मृताः।
अविमुक्ते मृता ये च सर्वे ते ह्यनिवर्तकाः ।। १८५.५८ ।।
ग्रहनक्षत्रताराणां कालेन पतनाद्भयम्।
अविमुक्ते मृतानान्तु पतनं नैव विद्यते ।। १८५.५९ ।।
कल्पकोटिसहस्रैस्तु कल्पकोटिशतैरपि।
न तेषां पुनरावृत्तिर्मृता ये क्षेत्र उत्तमे ।। १८५.६० ।।
संसारसागरे घोरे भ्रमन्तः कालपर्ययात्।
अविमुक्तं समासाद्य गच्छन्ति मणिकर्णिकाम् ।। १८५.६१ ।।
ज्ञात्वा कलियुगं घोरं हाहा भूतमचेतनम्।
अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि।। १८५.६२ ।।
अविमुक्तं प्रविष्टस्तु यदि गच्छेत्ततः पुनः।
तदा हसन्ति भूतानि अन्योन्यं करताडनम् ।। १८५.६३ ।।
कामक्रोधेन लोभेन ग्रस्ता ये भुवि मानवाः।
निष्क्रमन्ते नरा देवि! दण्डनायकमोहिताः ।। १८५.६४ ।।
जपध्यानविहीनानां ज्ञानवर्जित चेतसाम्।
ततो दुःखहतानाञ्च गतिर्वाराणसी नृणाम्।। १८५.६५ ।।
तीर्थानां पञ्चकं सारं विश्वेशानन्दकानने।
दशाश्वमेधं लोलार्कः केशवो बिन्दुमाधवः ।। १८५.६६ ।।
पञ्चमी न महाश्रेष्ठा प्रोच्यते मणिकर्णिका।
एभिस्तु तीर्थवर्यैश्च वर्ण्यते ह्यविमुक्तकम् ।। १८५.६७ ।।
एतद्वै कथितं सर्वं देव्यै देवेन भाषितम्।
अविमुक्तस्य क्षेत्रस्य तत् सर्वं कथितं द्विजाः ।। १८५.६८ ।।