मत्स्यपुराणम्/अध्यायः ९१
रौप्याचलदानवर्णनम्।
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम्।
यत्प्रदानान्नरो याति सोमलोकमनुत्तमम्।। ९१.१ ।।
दशभिः पलसाहस्रैरुत्तमो रजताचलः।
पञ्चभिर्मध्यमः प्रोक्तस्तदर्द्धेनाधमः स्मृतः।। ९१.२ ।।
अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितस्तदा।
विष्कम्भपर्वतास्तद्वत्तुरीयांशेन कल्पयेत्।। ९१.३ ।।
पूर्ववद्राजतान् कुर्वन् मन्दरादीन् विधानतः।
कलधौतमयांस्तद्वल्लोकेशानर्चयेद् बुधः।। ९१.४ ।।
ब्रह्मविष्ण्वर्कवान् कार्यो नितम्बोऽत्र हिरण्मयः।
राजतं स्याद्यदन्येषां सर्वं तदिह काञ्चनम्।। ९१.५ ।।
शेषन्तु पूर्ववत् कुर्यात् होमजागरणादिकम्।
दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम्।। ९१.६ ।।
विष्कम्भशैलानृत्विग्भ्यः पूज्य वस्त्रविभूषणैः।
इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्विमत्सरः।। ९१.७ ।।
पितॄणां वल्लभो यस्माद् हरीन्द्राणां शिवस्य च।
पाहि राजत! तस्मात् त्वं शोकसंसारसागरात्।। ९१.८ ।।
इत्थं निवेद्य यो दद्याद्रजताचलमुत्तमम्।
गवामयुतदानस्य फलं प्राप्नोति मानवः।। ९१.९ ।।
सोमलोकेसगन्धर्वैः किन्नराप्सरसाङ्गणैः।
पूज्यमानो वसेद्विद्वान् यावदाभूतसंप्लवम्।। ९१.१० ।।