मत्स्यपुराणम्/अध्यायः २६
कचदेवयानीसंवादकथनम्।
शैनक उवाच।
समापितव्रतं तन्तु विसृष्टं गुरुणा तदा।
प्रस्थितं त्रिदशावासं देवायानीदमब्रवीत्।। २६.१ ।।
देवयान्युवाच।
ऋषेरङ्गिरसः पौत्र! वृत्तेनाभिजनेन च।
भ्राजसे विद्यया चैव तपसा च दमेन च।। २६.२ ।।
ऋषिर्यथाङ्गिरामान्यः पितु र्मम महायशाः।
तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः।। २६.३ ।।
एवं ज्ञात्वा विजानीहि यद् ब्रवीमि तपोधन!।
व्रतस्थे नियमोपेते यथा वर्त्ताम्यहं त्वयि।। २६.४ ।।
स समापितविद्यो मां भक्तान्न त्यक्तुमर्हसि।
गृहाणपाणिं विधिवन् मम मन्त्रपुरस्कृतम्।। २६.५ ।।
कच उवाच।
पूज्यो मान्यश्च भगवान् यथा मम पिता तव।
तथात्वमनवद्याङ्गि! पूजनीयतमा मता।। २६.६ ।।
आत्मप्राणेः प्रियतमा भार्गवस्य महात्मनः।
त्वं भद्रे! धर्मतः पूज्या गुरुपुत्री सदा मम।। २६.७ ।।
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव।
देवयानि! तथैवत्वं नैवं मां वक्तुमर्हसि।। २६.8 ।।
देवयान्युवाच।
गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः।
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम।। २६.९ ।।
असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः।
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे।। २६.१० ।।
सौहार्द्ये चानुरागे च वेत्थ मे भक्तिमुत्तमाम्।
न मामर्हसि धर्मज्ञ! त्यक्तुं भक्तामनागसम्।। २६.११ ।।
कच उवाच।
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते!।
प्रसीद सुभ्रु! मह्यन्त्वं गुरोर्गुरुतरा शुभे।।
यत्रोषितं विशालाक्षि! त्वया चन्द्रनिभानने!।
तत्राहमुषितो भद्रे! कुक्षौ काव्यस्त भामिनि।। २६.१२ ।।
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने!।
सुखेनाध्युषितो भद्रे! न मन्युर्विद्यते मम
आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे
अप्रमत्तोद्यता नित्यमाराधय गुरुं मम।
देवयान्युवाच।
दैत्यैर्हतस्त्वं यद्भर्तृ बुध्या त्वं रक्षितो मया।। २६.१३ ।।
यदि मां धर्मकामार्थां प्रत्याख्यास्यसि धर्मतः।
ततः कच न ते विद्या सिद्धिरेषा गमिष्यति।। २६.१४ ।।
कच उवाच।
गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः।
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्वमाम्।। २६.१५ ।।
आर्षं धर्मब्रुवाणोऽहं देवयानि! यथात्वया।
शप्तुं नार्होऽस्मि कल्याणि! कामतोऽथ च धर्मतः।। २६.१६ ।।
तस्माद् भवत्या यः कामो न तथा संभविष्यति।
ऋषिपुत्रो न ते कश्चित् जातु पाणिं ग्रहीष्यति।। २६.१७ ।।
फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तथा।
अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति।।
शौनक उवाच।
एवमुक्त्वा नृप श्रेष्ठ! देवयानीं कचस्तदा।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः।। २६.१8 ।।
तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः।
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः।। २६.१९ ।।
त्वं कचास्मद्धितं कर्म कृतवान् महदद्भुतम्।
न ते यशः प्रणशिता भागभाग्च भविष्यसि।। २६.२० ।।