मत्स्यपुराणम्/अध्यायः १३१
मयाख्यानवर्णनम्।
सूत उवाच।
निर्मिते त्रिपुरे दुर्गे मयेनासुरशिल्पिना।
तद्दुर्गं दुर्गतां प्राप बद्धवैरैः सुरासुरैः।। १३१.१ ।।
सकलत्राः सुपुत्राश्च शस्त्रवन्तोऽथ कोपमाः।
मयादिष्टानि विविशुर्गृहाणि हृषिताश्च ते।। १३१.२ ।।
सिंहा वनमिवानेके मकरा इव सागरम्।
रोशैश्चैवातिपारुष्यैः शरीरमिव संहतैः।। १३१.३ ।।
तद्वद्बलिभिरध्यस्तं तत् पुरं देवतारिभिः।
त्रिपुरं संकुलं जातं दैत्यकोटिशताकुलम्।। १३१.४ ।।
सुतलादपि निष्पत्य पातालाद्दानवालयात्।
उपतस्थुः पयोदाभा ये च गिर्युपजीविनः।। १३१.५ ।।
योऽयं प्रार्थयते कामं संप्राप्तस्त्रिपुरात् त्रयात्।
तस्य तस्य मयस्तत्र मायया विदधाति सः।। १३१.६ ।।
सचन्द्रेषु च दोषेषु साम्बुजेषु सरः सु च।
आरामेषु स चूतेषु तपोधान वनेषु च।। १३१.७ ।।
स्वङ्गाश्चन्दनदिग्धाङ्गा मातङ्गाः समदा इव।
मृष्टाभरणवस्त्राश्च मृष्टस्रगनुलेपनाः।। १३१.८ ।।
प्रियाभिः प्रियकामाभिर्हावभावप्रसूतिभिः।
नारीभिः सततं रेमुर्मुदिताश्चैव दानवाः।। १३१.९ ।।
मयेन निर्मिते स्थाने मोदमाना महासुराः।
अर्थे धर्मे च कामे च निदधुस्ते मतिः स्वयम्।। १३१.१० ।।
तेषां त्रिपुरयुक्तानां त्रिपुरे त्रिदशारिणाम्।
व्रजतिस्म सुखं कालः स्वर्गस्थानां यथा तथा।। १३१.११ ।।
शुश्रूषन्तो पितॄन् पुत्रा पत्न्यश्चापि पतींस्तथा।
विमुक्तकलहाश्चापि प्रीतयः प्रचुराभवन्।। १३१.१२ ।।
नाधर्मस्त्रिपुरस्थानां बाधते वीर्य्यवानपि।
अर्चयन्तो दितेः पुत्रास्त्रिपुरायतने हरम्।। १३१.१३ ।।
पुण्याहशब्दानुच्चेरुराशीर्वादांश्च वेदवान्।
स्वनूपुररवोन्मिश्रान् वेणुवीणारवानपि।। १३१.१४ ।।
हासश्च वरनारीणां चित्तव्याकुलकारकः।
त्रिपुरे दानवेन्द्राणां रमतां श्रूयते सदा।। १३१.१५ ।।
तेषामर्चयतां देवान् ब्राह्मणांश्च नमस्यताम्।
धर्मार्थकामतन्त्राणां महान् कालोऽभ्यवर्तत।। १३१.१६ ।।
अथालक्ष्मीरसूया च तृड् बुभुक्षे तथैव च।
कलिश्च कलहश्चैव त्रिपुरं विविशुः सह।। १३१.१७ ।।
सन्ध्याकालं प्रविष्टास्ते त्रिपुरञ्च भयावहाः।
समध्यासुः समं घोराः शरीराणि यथामयाः।। १३१.१८ ।।
सर्व एते विशन्तस्तु मयेन त्रिपुरान्तरम्।
स्वप्ने भयावहा द्रृष्टा आविशन्तस्तु दानवान्।। १३१.१९ ।।
उदिते च सहस्रांशौ शुभभासाकरे रवौ।
मयः सभामाविवेश भास्कराभ्यामिवाम्बुदः।। १३१.२० ।।
मेरुकूटनिभे रम्ये आसने स्वर्णमण्डिते।
आसीनाः काञ्चनगिरेः श्रृङ्गे तोयमुचो यथा।। १३१.२१ ।।
पार्श्वयोस्तारकाख्यश्च विद्युन्मालीच दानवः।
उपविष्टो मयस्यान्ते हस्तिनः कलभाविव ।। १३१.२२ ।।
ततः सुरारयः सर्वे शेषकोपारणाजिरे।
उपविष्टा द्रृढ़ं बद्ध्वा दानवा देवशत्रवः।। १३१.२३ ।।
तेष्वासीनेषु सर्वेषु सुखासनगतेषु च।
मयो मायाविजनक इत्युवाच स दानवान्।। १३१.२४ ।।
खेचराः खेचरारावा भो भो दाक्षायणीसुताः।
निशामयध्वं स्वप्नोऽयं मया द्रृष्टो भयावहः।। १३१.२५ ।।
चतस्रः प्रमदास्तत्र त्रयोमर्त्या भयावहाः।
कोपानला दीप्तमुखाः प्रविष्टास्त्रिपुरार्दिनः।। १३१.२६ ।।
प्रविश्य रुषितास्ते च पुराण्यतुलविक्रमाः।
प्रविष्टास्तच्छरीराणि भूत्वा बहुशरीरिणः।। १३१.२७ ।।
नगरं त्रिपुरञ्चेदं तमसा समवस्थितम्।
सगृहं सह युष्माभिः सागराम्भसिमज्जितम्।। १३१.२८ ।।
उलूकं रुचिरा नारी नाम्ना रूढ़ा खरं तथा।
पुरुषः सिन्दुतिलकश्चतुरङ्घ्रिस्त्रिलोचनः।। १३१.२९ ।।
येन सा प्रमदा नुन्ना अहञ्चैव विबोधितः।
ईद्रृशी प्रमदा द्रृष्टा मया चाति भयावहा।। १३१.३० ।।
एष ईद्रृशिकः स्वप्नो द्रृष्टो वै दितिनन्दनाः!।
द्रृष्टः कथं हि कष्टाय असुराणां भविष्यति।। १३१.३१ ।।
यदि वोऽहं क्षमो राजा यदिदं वेत्थ चेद्धितम्।
निबोधध्वं सुमनसो नचासूयितुमर्हथ।। १३१.३२ ।।
कामं चेर्ष्याञ्च कोपञ्च असूयां संविहाय च।
सत्येदमे च धर्मे च मुनिवादे च तिष्ठत।। १३१.३३ ।।
शान्तयश्च प्रयुज्यन्तां पूज्यताञ्च महेश्वरः।
यदि नामास्य स्वप्नस्य ह्येवञ्चोपरमो भवेत्।। १३१.३४ ।।
कुप्येत नो ध्रुवं रुद्रो देवदेवस्त्रिलोचनः।
भविष्याणि च द्रृश्यन्ते यतो नस्त्रिपुरे सुराः।। १३१.३५ ।।
कलहं वर्जयन्तश्च अर्जयन्तस्तथार्जवम्।
स्वप्नोदयं प्रतीक्षध्वं कालोदयमथापि च।। १३१.३६ ।।
श्रुत्वा दाक्षायणीपुत्रा इत्येवं मयभाषितम्।
क्रोधेर्ष्यावस्थया युक्ता द्रृश्यन्ते च विनाशगाः।। १३१.३७ ।।
विनाशमुपपश्यन्तो ह्यलक्ष्म्याध्यापिता सुराः।
तत्रैव द्रृष्ट्वा तेन्योऽन्यं संक्रोधा पूरितेक्षणाः।। १३१.३८ ।।
अथ दैवपरिध्वस्ता दानवास्त्रिपुरालयाः।
हित्वा सत्यञ्च धर्म्मञ्च अकार्य्याण्यपि चक्रमुः।। १३१.३९ ।।
द्विषन्ति ब्राह्मणान् पुण्यान्नचार्चन्ति हि देवताः।
गुरुं चैव नमन्यन्ते ह्यन्योन्यञ्चापि चुक्रुधुः।। १३१.४० ।।
कलहेषु च सज्जन्ते स्वधर्मेषु ह्रसन्ति च।
परस्परञ्च निन्दन्ति अहमित्येव वादिनः।। १३१.४१ ।।
उच्चैर्गुरून् प्रभाषन्ते नाभिभाषन्ते पूजिताः।
अकस्मात् साश्रुनयना जायन्ते च समुत्सुकाः।। १३१.४२ ।।
दधिसक्तून् पयश्चैव कपित्थानि च रात्रिषु।
भक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा।। १३१.४३ ।।
मूत्रं कृत्वोपस्पृशन्ति चाकृत्वा पादधावनम्।
संविशन्ति च शय्यासु शौचाचारविवर्जिताः।। १३१.४४ ।।
सङ्कुचन्ति भयाच्चैव मार्जाराणां यथाखुकः।
भार्य्यां गत्वा न शुध्यन्ति रहोवृत्तिषु निस्त्रपाः।। १३१.४५ ।।
पुरा सुशीला भूत्वा च दुःशीलत्वमुपागताः।
देवांस्तपोधनां श्चैव बाधन्ते त्रिपुरालयाः।। १३१.४६ ।।
मयेन वार्यमाणापि ते विनाशमुपस्थिताः।
विप्रियाण्येव विप्राणां कुर्व्वाणाः कलहैषिणः।। १३१.४७ ।।
वैभ्राजं नन्दनं चैव तथा चैत्ररथं वनम्।
अशोकं च वराशोकं सर्वर्त्तुकमथापि च।। १३१.४८ ।।
स्वर्गं च देवतावासं पूर्वदेववशानुगाः।
विध्वंसयन्ति संक्रुद्धास्तपोधनवनानि च।। १३१.४९ ।।
विध्वस्तदेवायतनाश्रमं च संभग्नदेवद्विजपूजकं तु।
जगद्बभूवामरराजदुष्टैरभिद्रुतं सस्यमिवालिवृन्दैः।। १३१.५० ।।