मत्स्यपुराणम्/अध्यायः ८८
दिखावट
कार्पासपर्वतदानवर्णनम्।।
कार्पासपर्वतस्तद्वद्विंशद्भारैरिहोत्तमः।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः।।
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः।। ८८.१ ।।
धान्यपर्वतवत् सर्वमासाद्य मुनिपुङ्गव।
प्रभातायान्तु शर्वर्यां दद्यादिदमुदीरयेत्।। ८८.२ ।।
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा।
कार्पासाद्रे! नमस्तुभ्यमघौघध्वंसनो भव।। ८८.३ ।।
इति कार्पासशैलेन्द्रं यो दद्याच्छर्व सन्निधौ।
रुद्रलोके वसेत् कल्पं ततो राजा भवेदिह।। ८८.४ ।।