मत्स्यपुराणम्/अध्यायः ८९
घृताचलदानवर्णनम्।
अतः परं प्रवक्ष्यामि घृताचलमनुत्तमम्।
तेजोऽमृतमयं दिव्यं महापातकनाशनम्।। ८९.१ ।।
विशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः।
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः।। ८९.२ ।।
अल्पवित्तोऽपि यः कुर्य्याद् द्वाभ्यामिह विधानतः।
विष्कम्भपर्वतास्तद्वच्चतुर्भागेन कल्पयेत्।। ८९.३ ।।
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत्।
कारयेत्संहतानुच्चान् यथाशोभं विधानतः।। ८९.४ ।।
वेष्टयेच्छुक्लवासोभिरिक्षुदण्डफलादिकैः।
धान्यपर्वतवच्छेषं विधानमिह पठ्यते।। ८९.5 ।।
अधिवासनपूर्वञ्च तद्वद्धोमसुरार्चनम्।
प्रभातायां तु शर्वर्य्यां गुरवे तन्निवेदयेत्।
विष्कम्भपर्वतांस्तद्वत् ऋत्विग्भ्यः शान्तमानसः।। ८९.६ ।।
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः।
तस्मद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शङ्करः।। ८९.7 ।।
यस्मात्तेजोमयं ब्रह्म घृते तद्विद्ध्यवस्थितम्।
धृतपर्वतरूपेण तस्मात्त्वं पाहिनोऽनिशम्।। ८९.८ ।।
अनेन विधिना दद्याद्घृताचलमनुत्तमम्।
महापातकयुक्तोऽपि लोकमाप्नोति शाङ्करम्।। ८९.९ ।।
हंससारसयुक्तेन किङ्किणीजालमालिना।
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः।।
विहरेत् पितृभिः सार्द्धं यावदाभूतसंप्लवम्।। ८९.१० ।।