मत्स्यपुराणम्/अध्यायः १३२
दानवानामुपद्रवं दृष्ट्वा देवैः ब्रह्मसमीपे गमनम्।
सूत उवाच।
अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु।
लोकेषूत्साद्यमानेषु तपोधनवनेषु च।। १३२.१ ।।
सिंहनादे व्योमगानान्तेषु भीतेषु जन्तुषु।
त्रैलोक्ये भयसंमूढ़े तमोन्धत्वमुपागते।। १३२.२ ।।
आदित्या वसवः साध्याः पितरो मरुताङ्गणाः।
भीताः शरणमाजग्युर्ब्रह्माणं प्रपितामहम्।। १३२.३ ।।
ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः।
नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम्।। १३२.४ ।।
वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः।
बाधन्तेऽस्मान्यथाप्रेष्याननुशाधि ततोऽनघ!।। १३२.५ ।।
मेधागमे यथा हंसा मृगाः सिंहभयादिव।
दानवानां भयात्तद्वद्बभ्राम प्रपितामहः।। १३२.६ ।।
पुत्राणां नामधेयानि कलत्राणां तथैव च।
दानवैर्भ्राम्यमाणानां विस्तृतानि ततोऽनघ।। १३२.७ ।।
देववेश्मप्रभङ्गाश्च आश्रमभ्रंशनानि च।
दानवैर्लोभमोहान्धैः क्रियन्ते च भ्रमन्ति च।। १३२.८ ।।
यदि न त्रायसे लोकं दानवैर्विद्रुतं द्रुतम्।
धर्षेणानेन निर्देवं निर्मनुष्याश्रमं जगत्।। १३२.९ ।।
इत्येवं त्रिदशैरुक्तः पद्मयोनिः पितामहः।
प्रत्याह त्रिदशान् सेन्द्रानिन्दुतुल्याननः प्रभुः।। १३२.१० ।।
मयस्य यो वरो दत्तो मया मतिमताम्वराः!।
तस्यान्त एष संप्राप्तो यः पुरोक्तो मया सुराः।। १३२.११ ।।
तच्च तेषामधिष्ठानं त्रिपुरं त्रिदशर्षभाः।
एतेषु पातमोक्षेण हन्तव्यं नेषुवृष्टिभिः।। १३२.१२ ।।
भवताञ्च न पश्यामि कमप्यत्र सुरर्षभाः।
यस्तु चैकप्रहारेण पुरं हन्यात् सदानवम्।। १३२.१३ ।।
त्रिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु।
एकं मुक्त्वा महादेवं महेशानं प्रजापतिम्।। १३२.१४ ।।
ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम्।
याचामः सहिता देवं त्रिपुरं स हनिष्यति।। १३२.१५ ।।
कृतः पुराणां विष्कम्भो योजनानां शतं शतम्।
यथा चैकप्रहारेण हन्यते वैभवेन तु।
पुष्पयोगेन युक्तानि तानि चैकक्षणेन तु।। १३२.१६ ।।
ततो देवैश्च संप्रोक्तो यास्याम इति दुःखितैः।
पितामहश्च तै सार्द्धं भवसंसदमागतः।। १३२.१७ ।।
तं भवं भूतभव्येशं गिरिशं शूलपाणिनम्।
पश्यन्ति चोमया सार्द्धन्नन्दिना च महात्मना।। १३२.१८ ।।
अग्निवर्णमजन्देवमग्निकुण्डनिभेक्षणम्।
अग्न्यादित्यसहस्राभमग्निवर्णविभूषितम्।। १३२.१९ ।।
चन्द्रावयवलक्ष्माणं चन्द्रसौम्यवराननम्।
आगम्य तमजन्देवमथ तं नीललोहितम्।। १३२.२० ।।
स्तुवन्तो वरदं शम्भुं गोपात पार्वतीपतिम्।। १३२.२१ ।।
देवा ऊचुः।
नमो भगवतेशाय रुद्राय वरदाय च।
पशूनाम्पतये नित्यमुग्राय च कपर्दिने।। १३२.२२ ।।
महादेवाय भीमाय त्र्यम्बकाय च शान्तये।
ईशानाय भयघ्नाय नमस्त्वन्धकघातिने।। १३२.२३ ।।
नीलग्रीवाय भीमाय वेधसे वेधसास्तुते।
कुमारशत्रुनिघ्नाय कुमारजनकाय च।। १३२.२४ ।।
विलोहिताय धूम्राय वराय क्रथनाय च।
नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने।। १३२.२५ ।।
उरगाय त्रिनेत्राय हिरण्यवसुरेतसे।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च।। १३२.२६ ।।
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च।। १३२.२७ ।।
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते।
नमोऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे।। १३२.२८ ।।
अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा।
भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम्।। १३२.२९ ।।