मत्स्यपुराणम्/अध्यायः २८४
अथ चतुरशीत्यधिकद्विशततमोऽध्यायः
मत्स्य उवाच।
अथातः संप्रवक्ष्यामि धरादानमनुत्तमम्।
पापक्षयकरं नॄणाममङ्गल्यविनाशनम् 284.1।
कारयेत्पृथिवींहैमीं जम्बूद्वीपानुकारिणीम्।
मर्यादापर्वतवतीं मध्ये मेरुसमन्विताम् 2।
लोकपालाष्टकोपेतां नववर्षसमन्विताम्।
नदीनदसमोपेतां सप्तसागरवेष्टिताम् 3।
महारत्नसमाकीर्णां वसुरुद्रार्कसंयुताम्।
हेम्नः पलसहस्रेण तदर्धेनाथशक्तितः 4।
शतत्रयेण वा कुर्याद्द्विशतेन शतेन वा।
कुर्यात्पञ्चपलादूर्ध्वमशक्तोऽपि विचक्षणः 5।
तुलापुरुषवत्कुर्याल्लोकेशावाहनं बुधः।
ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम् 6।
वेद्यां कृष्णाजिनं कृत्वा तिलानुपरि विन्यसेत्।
तथाऽष्टादशधान्यानि रसांश्च लवणादिकान् 7।
तथाऽष्टौ पूर्णकलशान्समन्तात्परिकल्पयेत्।
वितानकं च कौशेयं फलानि विविधानि च 8।
तथांऽशुकानि रम्याणि श्रीखण्डशकलानि च।
इत्येवं कारयित्वा तामधिवासनपूर्वकम् 9।
शुक्लमाल्याम्बरधरः शुक्लाभरणभूषितः।
प्रदक्षिणं ततः कृत्वा गृहीतकुसुमाञ्जलिः 10।
पुण्यं कालमथाऽऽसाद्य मन्त्रानेतानुदीरयेत्।
नमस्ते सर्वदेवानां त्वमेव भवनं यतः 11।
धात्री त्वं सर्वभूतानामतः पाहि वसुंधरे।
वसु धारयसे यस्माद्वसुचातीवनिर्मलम्12।
वसुंधरा ततो जाता तस्मात्पाहि भयादलम्।
चतुर्मुखोऽपि न ोगच्छेद्यस्मादन्तं तवाचले13।
अनन्तायै नमस्तस्मात्पाहि संसारकर्दमात्।
त्वमेव लक्ष्मीर्गोविन्दे शिवे गौरीति चाऽऽस्थित ा14।
गायत्री ब्रह्मणः पार्श्वे ज्योत्स्ना चन्द्रे रवौ प्रभा।
बुद्धिर्बृहस्पतौ ख्याता मेधा मुनिषु संस्थिता 15।
विश्वं व्याप्य स्थिता यस्मात्ततो विश्वंभरा स्मृता।
धृतिः स्थितिः क्षमा क्षोणी पृथ्वी वसुमती रसा 16।
एताभिर्मूर्तिभिः पाहि देवि संसारसागरात्।
एवमुच्चार्य तां देवीं ब्राह्मणेभ्यो निवेदयेत् 17।
धरार्धं वा चतुर्भागं गुरवे प्रतिपादयेत्।
शेषं चैवाथ ऋत्विग्भ्यः प्रणिपत्य विसर्जयेत् 18।
अनेन विधिना यस्तु दद्याद्धेमधरां शुभाम्।
पुण्यकाले तु संप्राप्ते सपदं याति वैष्णवम् 19।
विमानेनार्कवर्णेन किङ्किणीजालमालिना।
नारायणपुरं गत्वा कल्पत्रयमथाऽऽवसेत्।
पितॄन्पुत्रांश्च पौत्रांश्च तारयेदेकविंशतिम् 20।
इति पठति य इत्थं यः शृणोति प्रसङ्गादपि कलुषवितानैर्मुक्तदेहः समन्तात्।
दिवममरवधूभिर्याति संप्रार्थ्यमानो पदममरसहस्रैः सेवितं चन्द्रमौलेः 21।
इति श्रीमात्स्येमहापुराणे महादानानुकीर्तने हेमपृथिवीदानमाहात्म्यंनाम चतुरशीत्यधिकद्विशततमोऽध्यायः284।