मत्स्यपुराणम्/अध्यायः १६८
भगवन्नाभितः कमलोत्पत्तिवर्णनम्।
मत्स्य उवाच।
आपवः स विभुर्भूत्वा चारयामास वै तपः।
च्छादयित्यात्मनो देहं यादसाङ्कुलसम्भवम् ।। १६८.१ ।।
ततो महात्मातिबलो मतिं लोकस्य सर्जने।
महतां पञ्चभूतानां विश्वो विश्वमचिन्तयत् ।। १६८.२ ।।
तस्य चिन्तयमानस्य निर्वाते संस्थितेऽर्णवे।
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ।। १६८.३ ।।
ईषत्सङ्क्षोभयामास सोऽर्णवं सलिलाश्रयः।
अनन्तरोर्मिभिःसूक्ष्ममथच्छिद्रमभूत् पूरा ।। १६८.४ ।।
शब्दं प्रति तदोद्भूतो मारुतश्छिद्रसम्भवः।
स लब्ध्वान्तरमक्षोभ्योण्यवर्धत समीरणः ।। १६८.५ ।।
विवर्द्धता बलवता वेगाद्विक्षोभितोऽर्णवः।
तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते ।। १६८.६ ।।
कृष्णवर्त्मा समभवत् प्रभुर्वैश्वानरो महान्।
ततः स शोषयामास पावकः सलिलं बहु ।। १६८. ७ ।।
क्षयाज्जलनिधेश्छिद्रमभवद्विस्तृतं नभः।
आत्मतेजोद्भवाः पुण्या आपोऽमृत रसोपमाः ।। १६८.८ ।।
आकाशं च्छिद्रसम्भूतं वायुराकाशसम्भवः।
आभ्यां सङ्घर्षणोद्भूतं पावकं वायुसम्भवम् ।। १६८.९ ।।
दृष्ट्वा प्रीतो महादेवो महाभूत विभावनः।
दृष्ट्वा भूतानि भगवांल्लोक सृष्ट्यर्थमुत्तमम् ।। १६८.१० ।।
ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत्।
चतुर्युगाभि संख्याते सहस्र युगपर्यये ।। १६८.११ ।।
बहुजन्मविशुद्धात्मा ब्राह्मणेह निरुच्यते।
यत् पृथिव्यां द्विजेन्द्राणां तपसा भवितात्मना ।। १६८.१२ ।।
ज्ञानं दृष्टन्तु विश्वार्थे योगिनां याति मुख्यताम्।
तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम् ।। १६८.१३ ।।
पदे ब्रह्मणि विश्वेशं न्ययोजयत योगवित्।
ततस्तस्मिन् महातोये महीशो हरिरच्युतः ।। १६८.१४ ।।
स्वयं क्रीडंश्च विधिवन्मोदते सर्वलोककृत्।
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा ।। १६८.१५ ।।
सहस्रपर्णं विरजं भास्कराभं हिरण्मयम्।
हुताशनज्वलितशिखोज्ज्वलत्प्रभमुपस्थितं शरदमलार्कतेजसम्।
विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम् ।। १६८.१६ ।।