मत्स्यपुराणम्/अध्यायः २५०
क्षीरोदमथनवर्णनम्।
सूत उवाच।
नारायण वचः श्रुत्वा बलिनस्ते महोदधिम्।
तत्पयः सहिता भूत्वा चक्रिरे भृशमाकुलम् ।। २५०.१ ।।
ततः शतसहस्रांशु समान इव सागरात्।
प्रसन्नाभः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ।। २५०.२ ।।
श्रीरनन्तरमुत्पन्ना घृतात् पाण्डुरवासिनी।
सुरादेवी समुत्पन्ना तुरगः पाण्डुरस्तथा ।। २५०.३ ।।
कौस्तुभश्च मणिर्दिव्यश्चोत्पन्नोऽमृतसम्भवः।
मरीचिविकचः श्रीमान् नारायण उरोगतः ।। २५०.४ ।।
पारिजातश्च विकच कुसुमस्तवकाञ्चितः।
अनन्तरमपश्यंस्ते धूममम्बरसन्निभम् ।। २५०.५ ।।
आपूरितदिशाम्भागं दुःसहं सर्वदेहिनाम् ।
तमाघ्राय सुराः सर्वे मूर्च्छितापरिलङ्घिताः ।। २५०.६ ।।
उपाविशन्नब्धितटे शिरः संगृह्य पाणिना।
ततः क्रमेण दुर्वारः सोऽनलः प्रत्यदृश्यत ।। २५०.७ ।।
ज्वालामालाकुलाकारः समन्ताद् भीषणोऽर्चिषा।
तेनाग्निनापरिक्षिप्ताः प्रायशस्तु सुरासुराः ।। २५०.८ ।।
दग्धाश्चाप्यर्द्धदग्धाश्च बभ्रमुः सकला दिशः।
प्रधाना देवदैत्याश्च भीषितास्तेन वह्निना ।। २५०.९ ।।
अनन्तरं समुद्भूतास्तस्मात् डुण्डुभजातयः।
कृष्णसर्पा महादंष्ट्रा रक्ताश्च पवनाशनाः ।। २५०.१० ।।
श्वेतपीतास्तथा चान्ये तथा गोनस-जातयः।
मशकाभ्रमरा दंशा मक्षिकाः शलभास्तथा ।। २५०.११ ।।
कर्णशल्याः कृकलासा अनेकाश्चैव बभ्रमुः।
प्रापिनो दंष्ट्रिणो रौद्रास्तथा हि विषजातयः ।। २५०.१२ ।।
शाङ्गहालाहलामुस्त वत्सकं गुरुभस्मगाः।
नीलपत्रादयश्चान्ये शतशो बहुभेदिनः।
येषां गन्धेन दह्यन्ते गिरिश्रृङ्गाण्यपि द्रुतम् ।। २५०.१३ ।।
अनन्तरं नीलरसौघभृङ्ग भिन्नाञ्जनाभं विषमं श्वसन्तम्।
कायेन लोकान्तरपूरकेण केशैश्च वह्निप्रतिमैर्ज्वलद्भिः ।। २५०.१४ ।।
सुवर्णमुक्ताफलभूषिताङ्गं किरीटिनं पीतदुकूलजुष्टम्।
नीलोत्पलाभैः कुसुमैः कृतार्धं गर्जन्तमम्भोधरभीमवेगम् ।। २५०.१५ ।।
अद्राक्षुरम्भोनिधिमध्यसंस्थं सविग्रहं देहि भयाश्रयन्तम्।
विलोक्य तं भीषणमुग्रनेत्रं भूताश्च वित्रेसुरथापि सर्वे ।। २५०.१६ ।।
केचिद्विलोक्यैव गता ह्यभावं निःसंज्ञतां चाप्यपरे प्रपन्नाः।
वेमुर्मुखेभ्योऽपि च फेनमन्ये केचित्त्ववाप्ता विषमामवस्थाम् ।। २५०.१७ ।।
श्वासेन तस्य निर्दग्धा ततो विष्ण्विन्द्रदानवाः।
दग्धाङ्गारनिभा जाता ये भूता दिव्यरूपिणः।
ततस्तु सम्भ्रमाद्विष्णुस्तमुवाच सुरात्मकम्।। २५०.१८ ।।
श्रीभगवानुवाच।
को भवानन्तकप्रख्यः किमिच्छसि कुतो।़पि च।
किं कृत्वा ते प्रियं जाये देवमाचक्ष्व मेऽखिलम् ।। २५०.१९ ।।
तच्च तस्य वचः श्रुत्वा विष्णोः कालाग्निसन्निभः।
उवाच कालकूटस्तु भिन्नदुन्दुभि निस्वनः ।। २५०.२० ।।
कालकूट उवाच।
अहं हि कालकूटाख्यो विषोऽम्बुधिसमुद्भवः।
यदा तीव्रतरामर्षैः परस्परवधैषिभिः ।। २५०.२१ ।।
सुरासुरैर्विमथितो दुग्धाम्भो निधिरद्भुतः।
सम्भूतोऽहं तदा सर्वान् हन्तुं देवान् सदानवान् ।। २५०.२२ ।।
सर्वानिह हनिष्यामि क्षणमात्रेण देहिनः।
मा मां ग्रसत वै सर्वे यात वा गिरिशान्तिकम् ।। २५०.२३ ।।
श्रुत्वैतद्वचनं तस्य ततो भीताः सुरासुराः।
ब्रह्मविष्णू पुरस्कृत्य गतास्ते शङ्करान्तिकम् ।। २५०.२४ ।।
निवेदितास्ततो द्वास्थैस्ते गणेशैः सुरासुराः।
अनुज्ञाताः शिवेनाथ विविशुर्गिरिशान्तिकम् ।। २५०.२५ ।।
मन्दरस्य गुहां हैमीं मुक्ता माला विभूषिताम्।
सुखच्छमणि सोपानं वैढूर्य्यस्तम्भ मण्डिताम् ।। २५०.२६ ।।
तत्र देवासुरैः सर्वैर्जानुभिर्धरणीं गतैः।
ब्रह्मणामग्रतः कृत्वा इदं स्तोत्रमुदाहृतम् ।। २५०.२७ ।।
देवदानवा ऊचुः।
नमस्तुभ्यं विरूपाक्ष! सर्वतोऽनन्तचक्षुषे।
नमः पिनाकहस्ताय वज्रहस्ताय धन्विने । २५०.२८ ।।
नमस्त्रिशूलहस्ताय दण्डहस्ताय धूर्जटे।
नमस्त्रैलोक्यनाथाय भूतग्रामशरीरिणे ।। २५०.२९ ।।
नमः सुरारिहन्त्रे च सोमाग्न्यर्काग्य्रचक्षुषे।
ब्रह्मणे चैव रुद्राय नमस्ते विष्णुरुपिणे ।। २५०.३० ।।
ब्रह्मणे वेदरूपाय नमस्ते देवरूपिणे।
साङ्ख्ययोगाय भूतानां नमस्ते शम्भवाय ते ।। २५०.३१ ।।
मन्मथाङ्गविनाशाय नमः कालक्षयङ्कर।
रंहसे देवदेवाय नमस्ते च सुरोत्तम! ।। २५०.३२ ।।
एकवीराय शर्वायः नमः पिङ्गकपर्दिने।
उमाभर्त्रे नमस्तुभ्यं यज्ञत्रिपुरघातिने ।। २५०.३३ ।।
शुद्धबोधप्रबुद्धाय मुक्तकैवल्यरूपिणे।
लोकत्रयविधात्रे च वरुणेन्द्राग्निरूपिणे ।। २५०.३४ ।।
ऋग्यजुः सामवेदाय पुरुषायेश्वराय च।
अग्य्राय चैव चोग्राय विप्राय श्रुतिचक्षुषे ।। २५०.३५ ।।
रजसे चैवसत्त्वाय नमस्ते स्तिमितात्मने।
अनित्यनित्यभावाय नमो नित्यचरात्मने ।। २५०.३६ ।।
व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः।
भक्तानामार्तिनाशाय प्रियनारायणाय च ।। २५०.३७ ।।
उमाप्रियाय शर्वाय नन्दिवक्त्राञ्चिताय च।
ऋतुमन्वन्तकल्पाय पक्षमासदिनात्मने ।। २५०.३८ ।।
नानारुपाय मुण्डाय वरूथ पृथुदण्डिने।
नमः कमलहस्ताय दिग्वासाय शिखण्डिने ।। २५०.३९ ।।
धन्विने रथिने चैव यतये ब्रह्मचारिणे।
इत्येवमादिचरितैः स्तुतं तुभ्यं नमो नमः ।। २५०.४० ।।
एवं सुरासुरै स्थाणुस्ततस्तोषमुपागतः।
उवाच वाक्यं भीतानां स्मितान्वित शुभाक्षरम् ।। २५०.४१ ।।
श्रीशङ्कर उवाच।
किमर्थमागता ब्रूत त्रासग्लानमुखाम्बुजा!।
किं वाऽभीष्टं ददाम्यद्य कामं प्रब्रूत मा चिरम् ।
इत्युक्तास्ते तु देवेन प्रोचुस्तं ससुरासुराः ।। २५०.४२ ।।
सुरासुरा ऊचुः।
अमृतार्थे महादेव! मथ्यमाने महोदधौ।
विषमद्भुतमुद्भूतं लोकसंक्षयकारकम् ।। २५०.४३ ।।
स उवाचाथ सर्वेषां देवानां भयकारकः।
सर्वान्वा भक्षयिष्यामि अथवा मा पिबस्तथा ।। २५०.४४ ।।
तमशक्ताः वयं ग्रस्तुं सोऽस्मान् शक्तो बलोत्कटः।
एषनिश्वासमात्रेण शतपर्वसमद्युतिः ।। २५०.४५ ।।
विष्णुः कृष्णः कृतस्तेन यमश्च विषमात्मवान्।
मूर्च्छिताः पतिताश्चान्ये विप्रनाशङ्गताः परे ।। २५०.४६ ।।
अर्थाऽनर्थक्रियां याति दुर्भगानां यथा विभो!
दुर्बलानाञ्च संकल्पो यथा भवति चापदि ।। २५०.४७ ।।
विषमेतत्समुद्भूतं तस्माद्वामृतकाक्षया।
अस्माद् भयान् मोचयत्वं गतिस्त्वञ्च परायणम्।। २५०.४८ ।।
भक्तानुकम्पी भावज्ञो भुवनादीश्वरो विभुः।
यज्ञाग्रभुक्त सर्वहविः सौम्यः सोमः स्मरान्तकृत् ।। २५०.४९ ।।
त्वमेको नो गतिर्देव गीर्वाणगणशर्मकृत्।
रक्षास्मान् भक्षसंकल्पाद् विरूपाक्ष! विषज्वरात् ।। २५०.५० ।।
तच्छ्रुत्वा भगवानाह भगनेत्रान्तकृद्भवः।
भक्षयिष्याम्यहं घोरं कालकूटं महाविषम् ।। २५०.५१ ।।
तथान्यदपि यत्कृत्यं कृच्छ्रसाध्यं सुरासुराः!।
तच्चापि साधयिष्यामि तिष्ठध्वं विगतज्वराः ।। २५०.५२ ।।
इत्युक्त्वा हृष्टरोमाणो बाष्पगद्गदकण्ठिनः।
आनन्दाश्रु परीताक्षाः स नाथा इव मेनिरे ।।
सुरा ब्रह्मादय सर्वे समाश्वस्ताः सुमानसाः ।। २५०.५३ ।।
ततोऽव्रजद् द्रुतगतिना ककुद्मिना हरोऽम्बरे पवनगतिर्जगत्पतिः।
प्रधावितैरसुरसुरेन्द्रनायकैः स्ववाहनैर्विगृहीत शुभ्रचामरैः।
पुरः सरैः स तु शुशुभे शुभाश्रयैः शिवो वशी शिखिकपिशोर्ध्वजूटकः ।। २५०.५४ ।।
आसाद्य दुग्धसिन्धुं तं कालकूटं विषं यतः।
ततो देवो महादेवो विलोक्य विषमं विषम् ।। २५०.५५ ।।
च्छाया स्थानकमास्थाय सोऽपिबद्वामपाणिना।
पीयमाने विषे तस्मिंस्ततो देवाः महासुराः ।। २५०.५६ ।।
जगुश्च ननृतुश्चापि सिंहनादांश्च पुष्कलान्।
चक्रुः शक्रमुखाद्याश्च हिरण्याक्षादयस्तथा ।। २५०.५७ ।।
स्तुवन्तश्चैव देवेशं प्रसन्नाश्चाभवंस्तदा।
कण्ठदेशे ततः प्राप्तो विषे देवमथाब्रुवन् ।। २५०.५८ ।।
विरिञ्चिप्रमुखा देवा बलिप्रमुखतोऽसुराः।
शोभते देव! कण्ठस्ते गात्रे कुन्दनिभप्रभे ।। २५०.५९ ।।
भृङ्गमालानिभं कण्ठेऽप्यत्रैवास्तु विषं तव।
इत्युक्तः शङ्करो देवस्तथा प्राह पुरान्तकृत् ।। २५०.६० ।।
पीते विषे देवगणान् विमुच्य गतो हरो मन्दरशैलमेव।
तस्मिन् गते देवगणाः पुनस्तं ममन्थुरब्धिं विविधप्रकारैः ।। २५०.६१ ।।