मत्स्यपुराणम्/अध्यायः १९०
नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।
मार्कण्डेय उवाच।
नर्मदे चोत्तरे कूले तीर्थं योजनविस्तृतम्।
मन्त्रेश्वरेति विख्यातं सर्वपापहरं परम् ।। १९०.१ ।।
तत्र स्नात्वा नरो राजन्! दैवतैः सह मोदते।
पञ्चवर्षसहस्राणि क्रीडते कामरूप धृक्।। १९०.२ ।।
गर्जनञ्च ततो गच्छेद्यत्र मेघस्ततोत्थितः।
इन्द्रजिन्नाम संप्राप्तस्तस्य तीर्थ प्रभावतः ।। १९०.३ ।।
मेघनादं ततो गच्छेद्यत्र मेघानुगर्जितम्।
मेघनादो गणस्तत्र परमां गणताङ्गतः ।। १९०.४ ।।
ततो गच्छेत्तु राजेन्द्र! तीर्थमाम्रातकेश्वरम्।
तत्र स्नात्वा नरो राजन्! गो सहस्रफलं लभेत् ।। १९०.५ ।।
नर्मदोत्तरतीरेतु तीर्थन्तु विश्रुतं भवेत्।
तस्मिंस्तीर्थे नरः स्नात्वा तर्पयेत् पितृदेवताः ।। १९०.६ ।।
सर्वान् कामानवाप्नोति मनसा ये विचिन्तिताः।
ततो गच्छेत्तु राजेन्द्र! ब्रह्मावर्तमिति स्मृतम् ।। १८९.७ ।।
तत्र सन्निहितो ब्रह्मा नित्यमेव युधिष्ठिर!।
तत्र स्नात्वा तु राजेन्द्र! ब्रह्मलोके महीयते ।। १९०.८ ।।
ततोऽगारेश्वरं गच्छेन्नियतो नियताशनः।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ।। १९०.९ ।।
ततो गच्छेच्च राजेन्द्र! कपिला तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्! कपिला दानमाप्नुयात् ।। १९०.१० ।।
गच्छेत् करजतीर्थन्तु देवर्षिगणसेवितम्।
तत्र स्नात्वा नरो राजन्! गोलोकं समवाप्नुयात् ।। १९०.११ ।।
ततो गच्छेत्तु राजेन्द्र! कुण्डलेश्वरमुत्तमम्।
तत्र सन्निहितो रुद्रस्तिष्ठते ह्युमया सह।। १९०.१२ ।।
तत्र स्नात्वा तु राजेन्द्र! ह्यवध्यस्त्रिदशैरपि।
पिप्पलेशन्ततो गच्छेत् सर्वपापप्रणाशनम् ।। १९०.१३ ।।
तत्र स्नात्वा तु राजेन्द्र! रुद्रलोके महीयते।
ततो गच्छेत्तु राजेन्द्र! विमलेश्वरमुत्तमम् ।। १९०.१४ ।।
तत्र देवशिला रम्या चेश्वरेण विनिर्मिता।
तत्र प्राणपरित्यागाद् रुद्रलोकमवाप्नुयात् ।। १९०.१५ ।।
ततः पुष्करिणीं गच्छेत् तत्र स्नानं समाचरेत्।
स्नातमात्रो नरस्तत्र हीन्द्रस्यार्द्धासनं लभेत् ।। १९०.१६ ।।
नर्म्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिः सृता।
तारयेत् सर्वभूतानि स्थावराणि चराणि च ।। १९०.१७ ।।
सर्वदेवाधिदेवेन त्वीश्वरेण महात्मना।
कथिता ऋषिसङ्घेभ्यो ह्यस्माकञ्च विशेषतः ।। १९०.१८ ।।
मुनिभिः संस्तुता ह्येषा नर्म्मदा प्रवरा नदी।
रुद्रदेहाद्विनिष्क्रान्ता लोकानां हित काम्यया ।। १९०.१९ ।।
सर्वपापहरा नित्यं सर्वदेवनमस्कृता।
संस्तुता देवगन्धर्वैरप्सरोभि स्तथैव च ।। १९०.२० ।।
नमः पुण्यजले ह्याद्ये नमः सागरगामिनी!।
नमस्ते पापशमनि! नमो देवि! वरानने ! ।। १९०.२१ ।।
नमोऽस्तु ते ऋषिगणसिद्धसेविते! नमोऽस्तु ते शङ्करदेहनिःसृते!।
नमोऽस्तु ते धर्म्मभृतां वरप्रदे! नमोऽस्तु ते सर्वपवित्रपावने! ।। १९०.२२ ।।
यस्त्विदं पठते स्तोत्रं नित्यं श्रद्धासमन्वितः।
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत् ।। १९०.२३ ।।
वैश्यस्तु लभते लाभं शूद्रश्चैव शूभाङ्गतिम्।
अर्थार्थी लभते ह्यर्थं स्मरणादेव नित्यशः ।। १९०.२४ ।।
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणा ।। १९०.२५ ।।