सामग्री पर जाएँ

मत्स्यपुराणम्/अध्यायः १८३

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 








वाराणसीमाहात्म्यम्।
देव्युवाच।
हिमवन्तं गिरिं त्यक्त्वा मन्दरं गन्धमादनम्।
कैलासं निषधञ्चैव मेरुपृष्टं महाद्युतिम् ।। १८३.१ ।।

रम्यं त्रिशिखरञ्चैव मानसं सुमहागिरिम्।
देवोद्यानानि रम्याणि नन्दनं वनमेव च ।। १८३.२ ।।

सुरस्थानानि मुख्यानि तीर्थान्यायतनानि च।
तानि सर्वाणि सन्त्यज्य अविमुक्ते रतिः कथम् ।। १८३.३ ।।

किमत्र सुमहत् पुण्यं परं गुह्यं वदस्व मे।
येन त्वं रमसे नित्यं भूतसम्पद् गुणैर्युतः ।। १८३.४ ।।

क्षेत्रस्य प्रवरत्वञ्च ये च यत्र निवासिनः।
तेषामनुग्रहः कश्चित्तत् सर्वं ब्रूहि शङ्कर!।। १८३.५ ।।

शङ्कर उवाच।
अत्यद्भुतमिमं प्रश्नं यत्त्वं पृच्छसि भामिनि।
तत् सर्वं सम्प्रवक्ष्यामि तन्मे निगदतः श्रृणु ।। १८३.६ ।।

वाराणस्यां नदीपुण्या सिद्धगन्धर्वसेविता।
प्रविष्टा त्रिपथा गङ्गा तस्मिन्क्षेत्रे मम प्रिये! ।। १८३.७ ।।

मामेव प्रीतिसन्तुष्टा कृत्तिवासाश्च सुन्दरि! ।
सर्वेषां चैवस्थानानां स्थानन्तत्तु यथाधिकम् ।। १८३.८ ।।

तेन कार्येण सुश्रोणि! तस्मिन् स्थाने रतिर्मम।
तस्मिन् लिङ्गे च सान्निध्यं मम देवि! सुरेश्वरि! ।। १८३.९ ।।

क्षेत्रस्य च प्रवक्ष्यामि गुणान् गुणवताम्वरे।
यान् श्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः ।। १८३.१० ।।

यदि पापो यदि शठो यदि वा धार्मिको नरः।
मुच्यते सर्वपापेभ्यो ह्यविमुक्तं व्रजेद्यदि ।। १८३.११ ।।

प्रलये सर्वभूतानां लोके स्थावरजङ्गमे।
न हि त्यक्ष्यामि तत् स्थानं महागणशतैर्वृतः ।। १८३.१२ ।।

यत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः।
वक्त्रं मम महाभागे! प्रविशन्ति युगक्षये।। १८३.१३ ।।

तेषां साक्षादहं पूजां प्रतिगृह्णामि पार्वति!
सर्वगुह्योत्तमं स्थानं मम प्रियतमं शुभम् ।। १८३.१४ ।।

धन्याः प्रविष्टाः सुश्रोणि! मम भक्ता द्विजातयः।
मद्भक्तिपरमा नित्यं ये मद्भक्तास्तु ते नराः ।। १८३.१५ ।।

तस्मिन् प्राणान् परित्यज्य गच्छन्ति परमाङ्गतिम्।
सदा जयति रुद्रेण सदा दानं प्रयच्छति ।। १८३.१६ ।।

सदा तपस्वी भवति अविमुक्त स्थितो नरः।
यो मां पूजयते नित्यं तस्य तुष्याम्यहं प्रिये!।। १८३.१७ ।।

सर्वदानानि यो दद्यात् सर्वयज्ञेषु दीक्षितः।
सर्वतीर्थाभिषिक्तस्य सप्रपद्येत मामिह ।। १८३.१८ ।।

अविमुक्तं सदा देवि! ये व्रजन्ति सुनिश्चिताः।
ते तिष्ठन्तीह सुश्रोणि! त्वद्भक्ताश्च त्रिविष्टपे ।। १८३.१९ ।।

मत्प्रसादात्तु ते देवि! दीव्यन्ति शुभलोचने!
दुर्द्धराश्चैव दुर्द्धर्षा भवन्ति विगतज्वराः ।। १८३.२० ।।

अविमुक्तं शुभं प्राप्य मद्भक्ताः कृतनिश्चयाः।
निर्धूतपापा विमला भवन्ति विगतज्वराः ।। १८३.२१ ।।

पार्वत्युवाच।
दक्षयज्ञस्त्वया देव! मत् प्रियार्थे निषूदितः।
अविमुक्त गुणानान्तु न तृप्तिरिह जायते ।। १८३.२२ ।।

ईश्वर उवाच।
क्रोधेन दक्षयज्ञस्तु त्वत् प्रियार्थे विनाशितः।
महाप्रिये! महाभागे! नाशितोऽयं वरानने ।। १८३.२३ ।।

अविमुक्ते यजन्ते तु मद्भक्ताः कृतनिश्चयाः।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। १८३.२४ ।।

देव्युवाच।
दुर्लभास्तु गुणा देव! अविमुक्ते तु कीर्त्तिताः।
सर्वांस्तन्मम तत्वेन कथयस्व महेश्वर ।। १८३.२५ ।।

कौतूहलं महादेव! हृदिस्थं मम वर्तते।
तत् सर्वं मम तत्वेन आश्याहि परमेश्वर! ।। १८३.२६ ।।

ईश्वर उवाच।
अक्षया ह्यमराश्चैव ह्यदाहाश्च भवन्ति ते।
मत् प्रसादाद्वरारोहे! मामेव प्रविशन्ति वै ।। १८३.२७ ।।

ब्रूहि ब्रूहि विशालाक्षि! किमन्यच्छ्रोतुमिच्छसि।
देव्युवाच।
अविमुक्ते महाक्षेत्रे अहो पुण्यमहो गुणाः ।। १८३.२८ ।।

न तृप्तिमधिगच्छामि ब्रूहि देव! पुनर्गुणान्।
ईश्वर उवाच।
माहेश्वरि! वरारोहे! श्रृणु तांस्तु मम प्रिये! ।। १८३.२९ ।।

अविमुक्ते गुणाये तु तथान्यानपि तच्छृणु।
शाकपर्णाशिनो दान्ताः संप्रक्षाल्या मरीचिपाः ।। १८३.३० ।।

दन्तोलूखलिनश्चान्ये अश्मकुट्टास्तथापरे।
मासि मासि कुशाग्रेण जलमास्वादयन्ति वै ।। १८३.३१ ।।

वृक्षमूलनिकेताश्च शिलाशय्यास्तथापरै।
आदित्यवपुषः सर्वे जितक्रोधा जितेन्द्रियाः ।। १८३.३२ ।।

एवं बहुविधैर्धर्मैरन्यत्र चरितव्रताः।
त्रिकालमपि भुञ्जाना येऽविमुक्तनिवासिनः ।। १८३.३३ ।।

तपश्चरन्ति वान्यत्र कलां नार्हन्ति षोडशीम्।
अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ।। १८३.३४ ।।

मत्समः पुरुषो नास्ति त्वत्समा नास्ति योषिताम्।
अविमुक्तसमं क्षेत्रं न भूतं न भविष्यति ।। १८३.३५ ।।

अविमुक्तं परो योगो ह्यविमुक्ते परा गतिः।
अविमुक्ते परो मोक्षः क्षेत्रं नैवास्ति तादृशम् ।। १८३.३६ ।।

परं गुह्यं प्रवक्ष्यामि तत्वेन वरवर्णिनि!।
अविमुक्ते महाक्षेत्रे यदुक्तं हि मया पुरा ।। १८३.३७ ।।

जन्मान्तरशतैर्देवि! योगोऽयं यदि लभ्यते।
मोक्षः शतसहस्रेण जन्मना लभ्यते न वा ।। १८३.३८ ।।

अविमुक्तेन सन्देहो मद्भक्तः कृतनिश्चयः।
एकेन जन्मना सोऽपि योगं मोक्षं च विन्दति ।। १८३.३९ ।।

अविमुक्ते नरा देवि! ये व्रजन्ति सुनिश्चिताः।
ते विशन्ति परं स्थानं मोक्षं परमदुर्लभम् ।। १८३.४० ।।

पृथिव्यामीदृशं क्षेत्रं न भूतं न भविष्यति।
चतुर्मूर्तिः सदा धर्मो तस्मिन् सन्निहितः प्रिये! ।। १८३.४१ ।।

चतुर्णामपि वर्णानां गतिस्तु परमा स्मृता।
देव्युवाच।
श्रुता गुणास्ते क्षेत्रस्य इह चान्यत्र ये प्रभो! ।। १८३.४२ ।।

वदस्व भुवि विप्रेन्द्राः कं वा यज्ञैर्यजन्ति ते।
ईश्वर उवाच।
दृष्ट्या चैव तु मन्त्रेण मामेव हि यजन्ति ते ।। १८३.४३ ।।

न तेषां भयमस्तीति भवं रुद्रं यजन्ति यत्।
अमन्त्रो मन्त्रको देवि! द्विविधो विधिरुच्यते ।। १८३.४४ ।।

साङ्ख्यं चैवाथ योगश्च द्विविधो योग उच्यते।
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।। १८३.४५ ।।

सर्वथा वर्तमानोऽपि स योगी मयि वर्त्तते।
आत्मौपम्येन सर्वत्र सर्वं च मयि पश्यति ।। १८३.४६ ।।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।
निर्गुणः सगुणो वापि योगश्च कथितो भुवि ।। १८३.४७ ।।

सगुणश्चैव विज्ञेयो निर्गुणो मनसः परः।
एतत्ते कथितं देवि! यन्मान्त्वं परिपृच्छसि ।। १८३.४८ ।।

देव्युवाच
या भक्ति स्त्रिविधा प्रोक्ता भक्तानां बहुधा त्वया।
तामहं श्रोतुमिच्छामि तत्वतः कथयस्व मे ।। १८३.४९ ।।

ईश्वर उवाच।
श्रृणु पार्वति! देवेशि! भक्तानां भक्तिवत्सले।
प्राप्य सांख्यञ्च योगञ्च दुःखान्तञ्च नियच्छति ।। १८३.५० ।।

सदा यः सेवते भिक्षां ततो भवति रञ्जितः।
रञ्जनात् तन्मयो भूत्वा लीयते स तु भक्तिमान् ।। १८३.५१ ।।

शास्त्राणान्तु वरारोहे! बहुकारणदर्शिनः।
न मां पश्यन्ति ते देवि! ज्ञानवाक्यविवादिनः ।। १८३.५२ ।।

परमार्थज्ञानतृप्ता युक्ता जानन्ति योगिनः।
विद्यया विदितात्मानो योगस्य च द्विजातयः ।। १८३.५३ ।।

प्रत्याहारेण शुद्रात्मा नान्यथा चिन्तयेच्च तत्।
तुष्टिञ्च परमां प्राप्य योगं मोक्षं परं तथा ।। १८३.५४ ।।

त्रिभिर्गुणैः समायुक्तो ज्ञानवान् पश्यतीह माम्।
एतत्ते कथितं देवि! किमन्यच्छ्रोतुमर्हसि ।। १८३.५५ ।।

भूय एव वरारोहे! कथयिष्यामि सुव्रते!।
गुह्यं पवित्रमथवा यच्चापि हृदि वर्तते ।। १८३.५६ ।।

तत्सर्वं कथयिष्यामि श्रृणुष्वेकमनाः प्रिये।
देव्युवाच।
त्वद्रूपं कीदृशं देव! युक्ताः पश्यन्ति योगिनः ।। १८३.५७ ।।

पश्यन् मे संशयं ब्रूहि नमस्ते सुरसत्तम!।
श्रीभगवानुवाच।
अमूर्तं चैव मूर्त्तञ्च ज्योतिरूपं हि तत् स्मृतम् ।। १८३.५८ ।।

तस्योपलब्धिमन्विच्छन् यत्नः कार्यो विजानता।
गुणैर्वियुक्तो भूतात्मा एवं वक्तुं न शक्यते ।। १८३.५९ ।।

शक्यते यदि वक्तुं वै दिव्यैर्वर्षशतैर्न वा।
देव्युवाच।
किं प्रमाणन्तु तत् क्षेत्रं समन्तात् सर्वतो दिशम् ।। १८३.६० ।।

यत्र नित्यं स्तितो देवो महादेवो गणैर्युतः।
ईश्वर उवाच।
द्वियोजनन्तु तत्क्षेत्रं पूर्वपश्चिमतः स्मृतम् ।। १८३.६१ ।।

अर्द्धयोजन विस्तीर्णं तत्क्षेत्रं दक्षिणोत्तरम्।
वाराणसी तदीया च यावच्छुक्लनदी तु वै ।। १८३.६२ ।।

भीष्मचण्डिकमारभ्य पर्वतेश्वरमन्तिके।
गणा यत्रावतिष्ठन्ति सन्नियुक्ता विनायकाः ।। १८३.६३ ।।

कूष्माण्डराजः शम्भोश्च जयन्तश्च मदोत्कटाः।
सिंहव्याघ्रमुखाः केचिद्विकटाः कुब्जवामनाः ।। १८३.६४ ।।

यत्र नन्दी महाकालश्चण्डघण्टो महेश्वरः।
दण्डचण्डेश्वरश्चैव घण्टाकर्णो महाबलः ।। १८३.६५ ।।

एते चान्ये च बहवो गणाश्चैव गणेश्वराः।
महोदरा महाकाया वज्रशक्तिधरास्तथा ।। १८३.६६ ।।

रक्षन्ति सततं देवि! ह्यविमुक्तं तपोवनम्।
द्वारे द्वारे च तिष्ठन्ति शूलमुद्गरपाणयः ।। १८३.६७ ।।

सुवर्णश्रृङ्गीं रौप्यखुराञ्चैलाजिन पयस्विनीम्।
वाराणस्यान्तु यो दद्यात् त्रिवर्णां कञ्जलोचने! ।। १८३.६८ ।।

गां दत्त्वा तु वरारोहे! ब्राह्मणे वेदपारगे।
आसप्तमं कुलं तेन तारितं नात्र संशयः ।। १८३.६९ ।।

यो दद्याद् ब्राह्मणे किञ्चित् तस्मिन् क्षेत्रे वरानने!।
कनकं रजतं वस्त्रमन्नाद्यं बहु विस्तरम् ।। १८३.७० ।।

अक्षयं चाव्ययं चैव स्यातां तस्य सुलोचने!।
श्रृणु तत्वेन तीर्थस्य विभूतिं व्युष्टिमेव च ।। १८३.७१ ।।

तत्र स्नात्वा महाभागे! भवन्ति निरुजा नराः।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ।। १८३.७२ ।।

तदवाप्नोति धर्मात्मा तत्र स्नात्वा वरानने!।
बहुस्वल्पे च यो दद्याद् ब्राह्मणे वेदपारगे ।। १८३.७३ ।।

शुभाङ्गतिमवाप्नोति अग्निवच्चैव दीप्यते।
वाराणसी जाह्नवीभ्यां सङ्गमे लोकविश्रुते ।। १८३.७४ ।।

दत्त्वान्नं च विधानेन न स भूयोऽभिजायते।
एतत्ते कथितं देवि! तीर्थस्य फलमुत्तमम् ।। १८३.७५ ।।

उपवासन्तु यः कृत्वा विप्रान् सन्तर्पयन्नरः।
सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ।। १८३.७६ ।।

एकाहारस्तु यस्तिष्ठेन् मासं तत्र वरानने!
यावज्जीवकृतं पापं सहसा तस्य नश्यति ।। १८३.७७ ।।

अग्निप्रवेशं ये कुर्युरविमुक्ते विधानतः।
प्रविशन्ति मुखन्ते मे निःसन्दिग्धं वरानने! ।। १८३.७८ ।।

दशसौवर्णिकं पुष्पं योऽविमुक्ते प्रयच्छति।
अग्निहोत्रफलं धूपे गन्धदाने तथा श्रुणु ।। १८३.७९ ।।

भूमिदानेन तत्तुल्यं गन्धदानफलं स्मृतम्।
संमार्जने पञ्चशतं सहस्रमनुलेपने ।। १८३.८० ।।

मालया शतसाहस्रमनन्तं गीतवाद्यतः।
देव्युवाच।
अत्यद्भुतमिदं देव स्थानमेतत् प्रकीर्तितम् ।। १८३.८१ ।।

रहस्यं श्रोतुमिच्छामि यदर्थन्त्वं न मुञ्चसि।
ईश्वर उवाच
आसीत् पूर्वं वरारोहे! ब्रह्मणस्तु शिरो वरम् ।। १८३.८२ ।।

पञ्चमं श्रृणु सुश्रोणि! जातं काञ्चन स प्रभम्।
ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः ।। १८३.८३ ।।

तदेवमब्रवीद्देवि! जन्म जानामि ते ह्यहम्।
ततः क्रोधपरीतेन संरक्त नयनेन च ।। १८३.८४ ।।

वामांगुष्ठनखाग्रेण छिन्नं तस्य शिरो मया।
ब्रह्मोवाच।
तदा निरपराधस्य शिरश्छिन्नं त्वया मम ।। १८३.८५ ।।

तस्माच्छापसमायुक्तः कपाली त्वं भविष्यसि।
ब्रह्महत्याकुलो भूत्वा चरतीर्थानि भूतले ।। १८३.८६ ।।

ततोऽहं गतवान् देवि! हिमवन्तं शिलोच्चयम्।
तत्र नारायणः श्रीमान् मया भिक्षां प्रयाचितः ।। १८३.८७ ।।

ततस्तेन स्वकं पार्श्वं नखाग्रेण विदारितम्।
स्रवतो महती धारा तस्य रक्तस्य निःसृता ।। १८३.८८ ।।

प्रयाता सातिविस्तीर्णा योजनार्द्धशतन्तदा।
न संपूर्णं कपालन्तु घोरमद्भुत दर्शनम् ।। १८३.८९ ।।

दिव्यं वर्षसहस्रन्तु सा च धारा प्रवाहिनी।
प्रोवाच भगवान्विष्णुः कपालं कुत ईदृशम् ।। १८३.९० ।।

आश्चर्यभूतं देवेश! संशयो हृदि वर्तते।
कुतश्च सम्भवो देव! सर्वं मे ब्रूहि पृच्छतः ।। १८३.९१ ।।

देवदेव उवाच।
श्रूयतामस्य हे देव! कपालस्य तु सम्भवः।
शतं वर्षसहस्राणां तपस्तप्त्वा सुदारुणम्।। १८३.९२ ।।

ब्रह्माऽसृजद्वपुर्दिव्यमद्भुतं लोमहर्षणम्।
तपसश्च प्रभावेण दिव्यं काञ्चन सन्निभम् ।। १८३.९३ ।।

ज्वलत्तत् पञ्चमं शीर्षं जातं तस्य महात्मनः।
निकृत्तन्तं मया देव! तदिदं पश्य दुर्जयम् ।। १८३.९४ ।।

यत्र यत्र च गच्छामि कपालं तत्र गच्छति।
एवमुक्तस्ततो देवः प्रोवाच पुरुषोत्तमः ।। १८३.९५ ।।

श्रीभगवानुवाच।
गच्छ गच्छ स्वकं स्थानं ब्रह्मणस्त्वं प्रियङ्कुरु।
तस्मिन् स्थास्यति भद्रन्ते कपालं तस्य तेजसा ।। १८३.९६ ।।

ततः सर्वाणि तीर्थानि पुण्यान्यायतनानि च।
गतोऽस्मि पृथुल श्रोणि! न क्वचित् प्रत्यतिष्ठत ।। १८३.९७ ।।

ततोऽहं समनुप्राप्तो ह्यविमुक्ते महाशये।
अवस्थितः स्वके स्थाने शापश्च विगतो मम ।। १८३.९८ ।।

विष्णुप्रसादात् सुश्रोणि! कपालं तत् सहस्रधा।
स्फुटितं बहुधा जातं स्वप्नलब्धं धनं यथा ।। १८३.९९ ।।

ब्रह्महत्यापहं तीर्थं क्षेत्रमेतन्मया कृतम्।
श्मशानमेतद् भद्रं मे देवानां वरवर्णिनि ।। १८३.१०० ।।

कालो भूत्वा जगत् सर्वं संहरामि सृजामि च।
देवेशि! सर्वगुह्यानां स्थानं प्रियतरं मम ।। १८३.१०१ ।।

मद्भक्तास्तत्र गच्छन्ति विष्णुभक्तास्तथैव च।
ये भक्ता भास्करे देवि! लोकनाथे दिवाकरे ।। १८३.१०२ ।।

तत्रस्थो यस्त्यजेद्देहं मामेव प्रविशेत्तु सः।
देव्युवाच।
अत्यद्भुतमिदं देव! यदुक्तं पद्मयोनिना ।। १८३.१०३ ।।

त्रिपुरान्तकरस्थानं गुह्यमेतत् महाद्युते।
सन्निधानात्तु ते सर्वे कलां नार्हन्ति षोडशीम् ।। १८३.१०४ ।।

यत्र तिष्ठति देवेशो यत्र तिष्ठति शङ्करः।
गङ्गा तीर्थसहस्राणां तुल्या भवति वा न वा ।। १८३.१०५ ।।

त्वमेव भक्तिर्देवेश। त्वमेव गतिरुत्तमा।
ब्रह्मादीनान्तु ते देव! गतिरुक्ता सनातनी।
श्राव्ये यद् द्विजातीनां भक्तानामनुकम्पया ।। १८३.१०६ ।।