मत्स्यपुराणम्/अध्यायः २४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 







chapter ccxlv.
बलिप्रह्लादसंवादवर्णनम्।

शौनक उवाच।
निस्तेजसोऽसुरान् दृष्ट्वा समस्तानसुरेश्वरः।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ।। २४५.१ ।।

बलिरुवाच।
तात! निस्तेजसो दैत्या निर्दग्धा इव वह्निना।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ।। २४५.२ ।।

दुरिष्टं किन्नु दैत्यानां किं कृत्या वैरिनिर्मिता।
नाशायैषा समुद्भूता यया निस्तेजसोऽसुराः ।। २४५.३ ।।

शौनक उवाच।
इति दैत्यपतिर्धीरः पृष्टः पौत्रेण पार्थिव!।
चिरन्ध्यात्वा जगादैनमसुरेन्द्रं बलिन्तदा ।। २४५.४ ।।

चलन्ति गिरयो भूमिर्जहाति सहसा धृतिम्।
सर्वे समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ।। २४५.५ ।।

सूर्योदयो यथा पूर्वं तथा गच्छन्ति न ग्रहाः।
देवानाञ्च परा लक्ष्मीः कारणैरनुमीयते।। २४५.६ ।।

महदेतन्महाबाहो! कारणं दानवेश्वर!।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं सुरार्दन! ।। २४५.७ ।।

शौनक उवाच।
इत्युक्त्वा दानवपतिं प्रह्लादः सोऽसुरोत्तमः।
अत्यन्तभक्तो देवेशं जगाम मनसा हरिम् ।। २४५.८ ।।

स ध्यानयोगं कृत्वाऽथ प्रह्लादः सुमनोहरम्।
विचारयामास ततो यतो देवजनार्दनः ।। २४५.९ ।।

स ददर्शोदरेऽदित्या प्रह्लादो वामनाकृतिम्।
अन्तस्थान् बिभ्रतं सप्त लोकानादिप्रजापतिम् ।। २४५.१० ।।

तदन्तस्थान् वसून् रुद्रानश्विनौ मरुतस्तथा।
साध्यान् विश्वांस्तथादित्यान् गन्धर्वोरगराक्षसान् ।। २४५.११ ।।

विरोचनं स्वतनयं बलिञ्चासुरनायकम्।
जम्भं कुजम्भं नरकं तत्रैवान्यान्महासुरान् ।। २४५.१२ ।।

आत्मानमुर्वीङ्गगनं वायुमम्भो हुताशनम्।
समुद्रान्वै द्रुमसरित् सरांसि च पशून्मृगान्
वयोमनुष्यानशिलांस्तथैव च सरीसृपान् ।। २४५.१३ ।।

प्रह्लाद उवाच।
वत्स! ज्ञातं मया सर्वं यदर्थं भवतामियम्।
तेजसोहानिरुत्पन्ना तच्छृणु त्वमशेषतः ।। २४५.१४ ।।

देवदेवो जगद्योनिरयोनिर्जगदादिकृत्।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ।। २४५.१५ ।।

परम्पराणां परमः परः परवतामपि।
प्रमाणञ्च प्रमाणानां सप्तलोकगुरोर्गुरुः ।। २४५.१६ ।।

प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः।
त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्माऽदितिजोऽवतीर्णः ।। २४५.१७ ।।

न तस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमुख्याः।
जानन्ति दैत्याधिप! यत्स्वरूपं स वासुदेवः कलयावतीर्णः ।। २४५.१८ ।।

योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरं ममेशः।
यः सर्वयोगी शमनो निवासः स वासुदेवः कलयावतीर्णः ।। २४५.१९ ।।

यमक्षरं वेदविदो विदित्वा विशन्ति यं ज्ञानविधूतपापाः।
यस्मिन् प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि नित्यम् ।। २४५.२० ।।

भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम्।
लयञ्च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ।। २४५.२१ ।।

न यस्य रूपं न बलप्रभावौ न यस्य भावः परमस्य पुंसः।
विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यजस्रम् ।। २४५.२२ ।।

रूपस्य चक्षुर्ग्रहणे त्वगिष्टा स्पर्शे ग्रहित्री रसना रसस्य।
श्रोत्रञ्च शब्दग्रहणे नराणां घ्राणञ्च गन्धग्रहणे नियुक्तम् ।। २४५.२३ ।।

येनैकदंष्ट्राग्रसमुद्धृतेयं धराचलान् धारयतीह सर्वान्।
यस्मिंश्च शेते सकलं जगच्च तमीशमाद्यं प्रणतोऽस्मि विष्णुम् ।। २४५.२४ ।।

न घ्राणग्राह्यः श्रवणादिभिर्यः सर्वेश्वरो वेदितुमक्षयात्मा।
शक्यस्तमीड्यं मनसैव देवं ग्राह्यन्ततोऽहं हरिमीशितारम् ।। २४५.२५ ।।

अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम्।
नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ।। २४५.२६ ।।

देवो जगद्योनिरयं महात्मा स षोड़शांशेन महासुरेन्द्र!।
स देवमातुर्जठरं प्रविष्टो हृतानि वस्तेन बलाद्वपूंषि ।। २४५.२७ ।।

बलिरुवाच।
तात! कोऽयं हरिर्नाम यतो नोभयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ।। २४५.२८ ।।

विप्रचित्तिः शिविः शङ्कुरयः शङ्कुस्तथैव च।
अयः शिराश्चाश्वशिरा भङ्गकारो महाहनुः ।। २४५.२९ ।।

प्रतापः प्रघसः शम्भुः ककुरश्च सुदुर्जयः।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा।। २४५.३० ।।

महाबला महावीर्या भूभारोद्धरणक्षमाः।
एषामेकैकशः कृष्णो न वीर्यार्द्धेन सम्मितः ।। २४५.३१ ।।

शौनक उवाच।
पौत्रस्यैतद्चः श्रुत्वा प्रह्लादो दैत्यपुङ्गवः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम् ।। २४५.३२ ।।

प्रह्लाद उवाच।
विनाशमुपयास्यन्ति मन्ये दैतेयदानवाः!।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ।। २४५.३३ ।।

देवदेवं महाभागं वासुदेवमजं विभुम्।
त्वामृते पापसङ्कल्पः कोऽन्य एवं वदिष्यति ।। २४५.३४ ।।

य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः।
सब्रह्मकास्तथा देवाः स्थावरानन्तभूमयः।। २४५.३५ ।।

त्वञ्चाहञ्च जगच्चेदं साद्रिद्रुमनदीनदम्।
समुद्रद्वीपलोकाश्च न समं केशवस्य हि ।। २४५.३६ ।।

यस्यातिवन्द्य-वन्द्यस्य व्यापिनः परमात्मनः।
एकांशेन जगत्सर्वं कस्तमेवं प्रवक्ष्यति ।। २४५.३७ ।।

ऋते विनाशाभिमुखं त्वामेकमविवेकिनम्।
कुबुद्धिमजितात्मानं वृद्धानां शासनातिगम् ।। २४५.३८ ।।

शोच्योऽहं यस्य मे गेहे जातस्तव पिताधमः।
यस्य त्वमीदृशः पुत्रो देवदेवस्य निन्दकः ।। २४५.३९ ।।

तिष्ठत्येषा हि संसार सम्भृताघ विनाशिनी।
कृष्णो भक्तिरहन्तावदवेक्ष्य भवता नु किम्।। २४५.४० ।।

न मे प्रियतमः कृष्णादपि देहो महात्मनः।
इति जानात्ययं लोको न भवान्दितिजाधम!।। २४५.४१ ।।

न जानासि प्रियतरं प्राणेभ्योऽपि हरिं मम।
निन्दां करोषि तस्य त्वमकुर्वन्गौरवं मम ।। २४५.४२ ।।

विरोचनस्तव गुरुर्गुरुस्तस्याप्यहं बले!।
ममापि सर्वजगतां गुरोर्नारायणो गुरुः ।। २४५.४३ ।।

निन्दां करोषि यस्तस्मिन् कृष्णे गुरुगुरोर्गुरौ।
यस्मात्तस्मादिहैश्वर्यादचिराद् भ्रंशमेष्यसि ।। २४५.४४ ।।

मम देवो जगन्नाथो बले! तस्माज्जनार्दनः।
भवत्वहमुपेक्ष्यस्ते प्रीतिमानस्तु मे गुरुः ।। २४५.४५ ।।

एतावन्मात्रमप्येवं निन्दितो जगतो गुरुः।
नावेक्षितं त्वया यस्मात् तस्मात् शापन्ददामि ते ।। २४५.४६ ।।

यथा मे शिरसः च्छेदादिदं गुरुतरं वचः।
त्वयोक्तमच्युताक्षेपि राज्यभ्रष्टस्तथा पत ।। २४५.४७ ।।

यथा च कृष्णान्न परं परित्राणं भवार्णवे।
तथाऽचिरेण पश्येयं भवन्तं राज्यविच्युतम् ।। २४५.४८ ।।

शौनक उवाच।
इति दैत्यपतिः श्रुत्वा गुरोर्वचनमप्रियम्।
प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः ।। २४५.४९ ।।

बलिरुवाच।
प्रसीद तात! मा कोपं कुरु मोहहते मयि।
बलावलेपमत्तेन मयैतद्वाक्यमीरितम् ।। २४५.५० ।।

मोहोपहतविज्ञानः पापोऽहं दितिजोत्तम!।
यच्छप्तोऽस्मि दुराचरास्तत्साधु भवता कृतम् ।। २४५.५१ ।।

राज्यभ्रंशं वसुभ्रंशं प्राप्यैव न तथाप्यहम्।
विषण्णोऽस्मि यथा तात! तथैवाविनये कृते ।। २४५.५२ ।।

त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्।
संसारे दुर्लभास्ते तु गुरवो ये भवद्विधाः ।। २४५.५३ ।।

तत्प्रसीद न मे कोपं कर्तुमर्हसि दैत्यप!।
त्वत्कोपदृष्ट्या ताताहं परितप्ये न शापतः।। २४५.५४ ।।

प्रह्लाद उवाच।
वत्स! कोपो न मोहेन जनितस्तेन ते मया।
शापो दत्तो विवेकश्च मोहेनापहृतो मम।। २४५.५५ ।।

यदि मोहेन मे ज्ञानं न क्षिप्तं स्यान्महासुर!।
तत्कथं सर्वगं जानन् हरिं किञ्चिच्छपाम्यहम् ।। २४५.५६ ।।

योऽयं शापो मया दत्तो भवतोऽसुरपुङ्गव!।
भाव्यमेतेन नूनन्ते तस्मान्मा त्वं विषीद वै ।। २४५.५७ ।।

अद्य प्रभृति देवेशे भगवत्यच्युते हरौ।
भवेथा भक्तिमानीशे स ते त्राता भविष्यति ।। २४५.५८ ।।

शापं प्रप्याथ मां वीर! संस्मरेथाः स्मृतस्त्वया।
तथा तथा यतिष्येऽहं श्रेयसा योज्यसे यथा ।। २४५.५९ ।।

एवमुक्त्वा स दैत्येन्द्रं विरराम महाद्युतिः।
अजायत सगोविन्दो भगवान् वामनाकृतिः ।। २४५.६० ।।

अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे।
देवाश्च मुमुचुर्दुःखं देवमाताऽदितिस्तथा ।। २४५.६१ ।।

ववुर्वाताः सुखस्पर्शा विरजस्कमभून्नभः।
धर्मे च सर्वभूतानां तदा मतिरजायत ।। २४५.६२ ।।

नोद्वेगश्चाप्यभूत्तत्र मनुजेन्द्रासुरेष्वपि।
तदादि सर्वभूतानां भूम्यम्बरदिवौकसाम् ।। २४५.६३ ।।

तं जातमात्रं भगवान् ब्रह्मा लोकपितामहः।
जातकर्मादिकं कृत्वा कृष्णं दृष्ट्वा च पार्थिव!
तुष्टाव देवदेवेशमृषीणाञ्चैव श्रृण्वताम् ।। २४५.६४ ।।

ब्रह्मेवाच।
जयाद्येश! जयाजेय! जय सर्वात्मकात्मक।
जय जन्मजरापेत! जयानन्त! जयाच्युत! ।। २४५.६५ ।।

जयाजित! जयामेय! जयाव्यक्तस्थिते! जय।
परमार्थार्थसर्वज्ञ! ज्ञानज्ञेयात्म निःसृत! ।। २४५.६६ ।।

जयाशेष! जगत्साक्षिन्! जगत्कर्त्तः! जगद्गुरो!
जगतोऽस्यान्तकृद्देव स्थितिं पालयितुं जय ।। २४५.६७ ।।

जयाशेष! जयाशेष! जयाखिल! हृदि स्थित!।
जयादिमध्यान्त! जय सर्वज्ञाननिधे! जय ।। २४५.६८ ।।

मुमुक्षुभिरनिर्देश्य! स्वयं हृष्टजनेश्वर!।
योगिना मुक्तिफलद! दमादिगुणभूषण! ।। २४५.६९ ।।

जयातिसूक्ष्म! दुर्ज्ञेय! जयस्थूल! जगन्मय!।
जय स्थूलातिसूक्ष्म! त्वं जयातीन्द्रिय! सेन्द्रिय! ।। २४५.७० ।।

जय स्वमाया योगस्थ! शेषभोग! जयाक्षर!।
जयैकदंष्ट्रा प्रान्ताग्र समुद्धृतवसुन्धर! ।। २४५.७१ ।।

नृकेसरिन्! जयाराति वक्षस्थलविदारण!।
साम्प्रतं जय विश्वात्मन्! जय वामन! केशव! ।। २४५.७२ ।।

निजमायापटच्छन्न! जगन्मूर्त्ते! जनार्दन!।
ययाजित! जयानेक स्वरूपैकविध! प्रभो! ।। २४५.७३ ।।

वर्द्धस्व वर्धिताशेष विकारप्रकृते! हरे!।
त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः ।। २४५.७४ ।।

न त्वामहं न चेशानो नेन्द्राद्या स्त्रिदशा हरे!।
न ज्ञातुमीशा मुनयः सनकाद्या नयोगिनः ।। २४५.७५ ।।

त्वन्मायापटसम्वीते जगत्यत्र जगत्पते!।
कस्त्वा वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः ।। २४५.७६ ।।

त्वमेवाराधितो येन प्रसादसुमुख!प्रभो!।
स एकः केवलो देव! वेत्ति त्वां नेतरे जनाः ।। २४५.७७ ।।

नन्दीश्वरेश्वरेशान! प्रभो! वर्धस्व वामन!।
प्रभवायास्य विश्वस्य विश्वात्मन्! पृथुलोचन! ।। २४५.७८ ।।

शौनक उवाच।
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः।
प्रहस्य भावगम्भीरमुवाचाब्जसमुद्भवम् ।। २४५.७९ ।।

स्तुतोऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ।। २४५.८० ।।

भूयश्चाहं स्तुतो देव्या तस्याश्चापि प्रतिश्रुतम्।
यथाशक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ।। २४५.८१ ।।

सोऽहन्तथा करिष्यामि महेन्द्रो जगतः पतिः।
भविष्यति सहस्राक्षः सत्यमेतद् ब्रवीमि वः ।। २४५.८२ ।।

ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्।
यज्ञोपवीतं भगवान् ददौ तस्मै बृहस्पतिः ।। २४५.८३ ।।

आषाढ़मददाद्दण्डं मरीचिर्ब्रह्मणः सुतः।
कमण्डलुं वसिष्ठञ्च कौशं वेदमथाङ्गिराः ।। २४५.८४ ।।

अक्षसूत्रञ्च पुलहः पुलस्त्यः सितवाससी।
उपतस्थुश्च तं वेदाः प्रणवोच्चारभूषणाः ।। २४५.८५ ।।

शास्त्राण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः।
सवामनो जटी दण्डी छत्री धृतकमण्डलुः ।। २४५.८६ ।।

सर्वदेवमयो भूत्वा बलेरध्वरमभ्यगात्।
यत्र यत्र पदम्भूयो भूभागे वामनो ददौ ।। २४५.८७ ।।

ददाति भूमिर्विवरं तत्र तत्रातिपीड़िता।
स वामनो जड़गतिर्मृदु गच्छन् सपर्वताम् ।।
साब्धिद्वीपवतीं सर्वाञ्चालयामास मेदिनीम् ।। २४५.८८ ।।