मत्स्यपुराणम्/अध्यायः १२०
मद्रेश्वरस्य क्रीडाविहारवर्णनम्।
सूत उवाच।
स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः।
क्रीडाविहारं गन्धर्वैः पश्यत्यप्सरसां सह।। १२०.१ ।।
कृत्वा पुष्पोच्चयं भूरि ग्रथयित्वा तथा स्रजाः।
अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ।। १२०.२ ।।
पुष्पोच्चयप्रसक्तानां क्रीड़न्तीनां यथा सुखम्।
चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति।। १२०.३ ।।
काचित् पुष्पोच्चये सक्ता लताजालेन वेष्टिता।
सखीजनेन सन्त्यक्ता कान्तेनाभिसमुज्झिता।। १२०.४ ।।
काचित् कमलगन्धाभा निश्वासपवनाहृतैः।
मधुपैराकुलमुखी कान्तेन परिमोचिता।। १२०.५ ।।
मकरन्दसमाक्रान्तनयना काचिदङ्गना।
कान्तनिश्वासवातेन नीरजंस्ककृतेक्षणा।। १२०.६ ।।
काचिदुच्चीय पुष्पाणि ददौ कान्तस्य भामिनी।
कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा।। १२०.७ ।।
उच्चीयस्वयमुद्ग्रथ्य कान्तेन कृतशेखरा।
कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी।। १२०.८ ।।
अस्त्यस्मिनाहने कुञ्जे विशिष्टकुसुमा लता।
काचिदेवं रहो नीता रमणेन रिरंसुना।। १२०.९ ।।
कान्तसन्नामितलता कुसुमानि विचन्वती।
सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम्।। १२०.१० ।।
काश्चित् पश्यन्ति भूपालं नलिनीषु पृथक् पृथक्।
क्रीडमानास्तु गन्धर्वै रममाणामनोरमाः।। १२०.११ ।।
काचिदाताडयत् कान्तमुदकेन शुचिस्मिता।
ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ।। १२०.१२ ।।
कान्तञ्च ताडयामास जातखेदा वराङ्ना।
अद्रृश्यत वरारोहा श्वासनृत्यत्पयोधरा।। १२०.१३ ।।
कान्ताम्बुताडनोद्घृष्टकेशपाशनिबन्धना।
केशाकुलमुखी भाति मधुपैरिव पद्मिनी।। १२०.१४ ।।
स्वचक्षुः सद्रृशैः पुष्पैः संच्छन्ने नलिनीवने।
छन्ना काचिच्चिरात् प्राप्ता कान्तेनान्विष्य यत्नतः।। १२०.१५ ।।
स्नाता शीतापदेशेन काचित् प्राहाङ्गना भृशम्।
रमणालिङ्गनं चक्रे मनोऽभिलषितञ्चिरम्।। १२०.१६ ।।
जलार्द्रवसनं सूक्ष्ममङ्गलीनं शुचिस्मिता।
धारयन्ती जनं चक्रे काचित्तत्र समन्मथम्।। १२०.१७ ।।
कण्ठमाल्यगुणैः काचित् कान्तेनाकृष्यताम्भसि।
त्रुट्यत्स्रग्दामपतितं रमणं प्राह सच्चिरम्।। १२०.१८ ।।
काचिद् भग्ना सखीदत्त जानुदेशे नखक्षता।
संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम्।। १२०.१९ ।।
काचित् पृष्ठकृतादित्या केशनिस्तोयकारिणी।
शिलातलगता भर्त्रा द्रष्टा कामार्तचक्षुषा।। १२०.२० ।।
कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम्।
तरिक्रीडितकान्तेव रराज तत् सरोदकम्।। १२०.२१ ।।
सुस्नातदेवगन्धर्व देवरामागणेन च।
पूज्यमानञ्च दद्रृषे देवदेवं जनार्दनम्।। १२०.२२ ।।
क्वचिच्च दद्रृशे राजा लतागृहगताः स्त्रियः।
मण्डयन्तीः स्वगात्राणि कान्तसंन्यस्तमानसाः।। १२०.२३ ।।
काचिदादर्शनकरा व्यग्रा दूतीमुखोद्रतम्।
श्रृण्वन्ती कान्तवचनमधिका तु तथा बभौ।। १२०.२४ ।।
काचित् सत्वरिता दूत्या भूषणानां विपर्ययम्।
कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना।। १२०.२५ ।।
वायुनुन्नातिसुरिभि कुसुमोत्करमण्डिते।
काञ्चित् पिबन्तीं दद्रृशे मैरेयं नीलशाद्वले।। १२०.२६ ।।
पाययामास रमणं स्वयं काचिद्वराङ्गना।
काचित् पपौ वरारोहा कान्तपाणिसमर्पितम्।। १२०.२७ ।।
काचित् स्वनेत्रचपल नीलोत्पलयुतम्पयः।
पीत्वा पप्रच्छ रमणं क्व गतौ तौ ममोत्पलौ।। १२०.२८ ।।
त्वयैव पीतौ तौ नूनमित्युक्ता रमणेन सा।
तथा विदित्वा मुग्धत्वाद् बभूव व्रीडिता भृशम्।। १२०.२९ ।।
काचित् कान्तार्पितं सुभ्रुः कान्तपीतावशेषितम्।
सविशेषरसं पानं पपौ मन्मथवर्धनम्।। १२०.३० ।।
अपानगोष्ठीषु तथा तासां स नरपुङ्गवः।
शुश्राव विविधङ्गीतं तन्त्रीस्वरविमिश्रितम्।। १२०.३१ ।।
प्रदोषसमये ताश्च देवदेवं जनार्दनम्।
राजन्! सदोपनृत्यन्ति नानावाद्यपुरः सराः।। १२०.३२ ।।
याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात्।
आवसन् संयुताः कान्तैः परर्धिरचिताङ्गुहाम्।। १२०.३३ ।।
नानागन्धान्वितलतां नानागन्धसुगन्धिनीम्।
नानाविचित्रशयनां कुसुमोत्करमण्डिताम्।। १२०.३४ ।।
एवमप्सरसां पश्यन् क्रीडितानि स पर्वते।
तपस्तेपे महाराजन्! केशवार्पितमानसः।। १२०.३५ ।।
तमूचुर्नृपतिङ्गत्वा गन्धर्वाप्सरसाङ्गणाः।
राजन्! स्वर्गोपमन्देशमिमं प्राप्तोऽस्यरिन्दम!।। १२०.३६ ।।
वयं हि प्रदास्यामो मनसः कांक्षितान्वरान्।
तानादाय गृहङ्गच्छ तिष्ठेह यदि वा पुनः।। १२०.३७ ।।
राजोवाच।
अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः।
वरं वितरताद्यैव प्रसादं मधुसूदनात्।। १२०.३८ ।।
एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः।
तत्रोवास सुखीमासं पूजयानो जनार्दनम्।। १२०.३९ ।।
प्रिय एव सदैवासीद् गन्धर्वाप्सरसां नृपः।
तुतोष स जनो राज्ञस्तस्या लौल्येन कर्म्मणा।। १२०.४० ।।
मामस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम्।
तोयाशनस्तत्र उवास मासं यावत् सितान्तो नृप! फाल्गुनस्य।। १२०.४१ ।।
फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः।
तस्यैव देवदेवस्य श्रुतवान् गदितं शुभम्।। १२०.४२ ।।
रात्र्यामस्यां व्यतीतायामत्रिणा त्वं समेष्यसि।
तेन राजन्! समागम्य कृतकृत्यो भविष्यसि।। १२०.४३ ।।
स्वप्नमेवं स राजर्षिर्द्रृष्ट्वा देवेन्द्रविक्रमः।
प्रत्यूषकाले विधिवत् स्नातः स प्रयतेन्द्रियः।। १२०.४४ ।।
कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम्।
ददर्शात्रिं मुनिं राजा प्रत्यक्षं तपसां निधिम्।। १२०.४५ ।।
स्वप्नन्तु देवदेवस्य न्यवेदयत धार्मिकः।
ततः श्रुश्राव वचनं देवतानां समीरितम्।। १२०.४६ ।।
एवमेतन्महीपाल! नात्र कार्य्या विचारणा।
एवं प्रसादं संप्राप्य देवदेवाज्जनार्दनात्।। १२०.४७ ।।
कृतदेवार्चनो राजा तथा हुतहुताशनः।
सर्वान् कामानवाप्तोऽसौ वरदानेन केशवात्।। १२०.४८ ।।
इति श्रीमात्स्ये महापुराणे भुवनकोश ऐलाश्रमवर्णनं नाम विंशत्यधिकशततमोऽध्यायः 120