मत्स्यपुराणम्/अध्यायः २३४
पठन सेटिंग्स
शान्तिविधानवर्णनम्।
गर्ग उवाच।
नगरादपसर्पन्ते समीपमुपयान्ति च।
नद्यो ह्रद प्रस्रवाणि विरसाश्च भवन्ति च ।। २३४.१ ।।
विवर्णं कलुषन्तप्तं फेनवज्जन्तु सङ्कुलम्।
स्नेहं क्षीरं सुरां रक्तं वहन्ते वा कुलोदकाः ।। २३४.२ ।।
षण्मासाभ्यन्तरे तत्र परचक्रभयम्भवेत्।
जलाशया नदन्ते वा प्रज्वलन्ति कथञ्चन ।। २३४.३ ।।
विमुञ्चन्ति तथा ब्रह्मन्! ज्वालाधूमरजांसि च।
अथवा ते जलोत्पत्तिः सुसत्वा वा जलाशयाः ।। २३४.४ ।।
सङ्गीतशब्दाः श्रूयन्ते जनमारभयम्भवेत्।
दिव्यमम्भोमयं सर्पिर्मधुतैलावसेचनम् ।। २३४.५ ।।
जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ।। २३४.६ ।।
मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विज भोजनार्थम्।
गावश्च देयाः सितवस्त्रयुक्तास्तथोदकुम्भाः सलिलाघशान्त्यै ।। २३४.७ ।।