मत्स्यपुराणम्/अध्यायः १३६
मयस्य महेश्वररूपस्य कालस्य प्रशंसावर्णनम्।
सूत उवाच।
मयः प्रहारं कृत्वा तु मायावी दानवर्षभः।
विवेश तूर्णं त्रिपुरमभ्रं नीलमिवाम्बरम्।। १३६.१ ।।
सदीर्घमुष्णं निःश्वस्य दानवान् वीक्ष्य मध्यगान्।
दध्यौ लोकक्षये प्राप्ते कालं काल इवापरः।। १३६.२ ।।
इन्द्रोऽपि बिभ्यते यस्य स्थितो युद्धेप्सुरग्रतः।
स चापि निधनं प्राप्तो विद्युन्माली महायशाः।। १३६.३ ।।
दुर्गं वै त्रिपुरस्यास्य न समं विद्यते पुरम्।
तस्याप्येषो नयः प्राप्तो न दुर्गं कारणं क्वचित्।। १३६.४ ।।
कालस्यैव वशे सर्वं दुर्गं दुर्गतरञ्च यत्।
काले क्रुद्धे कथं कालात्त्राणं नोऽद्य भविष्यति।। १३६.५ ।।
लोकेषु त्रिषु यत् किञ्चिद्बलं वै सर्वजन्तुषु।
कालस्य तद्वशं सर्वमिति पैतामहो विधिः।। १३६.६ ।।
अस्मिन् कः प्रभवोद्योगोह्यसन्धार्ये मितात्मनि।
लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम्।। १३६.७ ।।
बिभेमि नेन्द्राद्धि यमाद् वरुणान्न च वित्तपात्।
स्वामी चैषान्तु देवानां दुर्जयः स महेश्वरः।। १३६.८ ।।
ऐश्वर्यस्य फलं यत्तत् प्रभुत्वस्य च यत् फलम्।
तदद्य दर्शयिष्यामि यावद्वीराः समन्ततः।। १३६.९ ।।
वापीममृततोयेन पूर्णा स्रक्ष्ये वरौषधीः।
जीविष्यन्ति तदा दैत्याः सञ्जीवनवरौषधीः।। १३६.१० ।।
इति सञ्चित्य बलवान् मयो मायाविनां वरः।
मायया ससृजे वापीं रम्भामिव पितामहः।। १३६.११ ।।
द्वियोजनायतां दीर्घां पूर्णयोजनविस्तृताम्।
आरोहसंक्रमवतीं चित्ररूपां तथैव च।। १३६.१२ ।।
इन्दोः किरणकल्पेन मृष्टेनामृतगन्धिना।
पूर्णां परमतोयेन गुणपूर्णामिवाङ्गनाम्।। १३६.१३ ।।
उत्पलैः कुमुदैः पद्मैर्वृतां कादम्बकैस्तथा।
चन्द्रभास्करवर्णाभैर्भीमैरावरणैर्वृताम्।। १३६.१४ ।।
खगैमधुररावैश्च चारुचामीकरप्रभैः।
कामैषिभिरिवाकीर्णां जीवानामरणीमिव।। १३६.१५ ।।
तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः।
तस्यां प्रक्षापयामास विद्युन्मालिनमादितः।। १३६.१६ ।।
स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः।
उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः।। १३६.१७ ।।
मयस्य चाञ्जलिं कृत्वा तारकाख्योऽभिवादितः।
विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत्।। १३६.१८ ।।
क्व नन्दी सह रुद्रेण वृतः प्रथकजम्बुकैः।
युद्ध्यामो नन्दिनं पीड्य दया देहेषु का हि नः।। १३६.१९ ।।
अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः।
तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः।। १३६,२० ।।
विद्युन्मालेः निशम्यैतन्मयोवचनमूर्जितम्।
तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः।। १३६.२१ ।।
विद्युन्मालिन्न मे राज्यमभिप्रेतन्न जीवितम्।
त्वया विना महाबाहो! किमन्येन महासुर!।। १३६.२२ ।।
महामृतमयी वापी ह्येषा मायाभिरीश्वर!।
सृष्टा दानवदैत्यानां हतानां जीववर्द्धिनी।। १३६.२३ ।।
दिष्ट्या त्वां दैत्य! पश्यामि यमलोकादिहागतम्।
दुर्गतावनयग्रस्तं भोक्ष्यामोऽद्य महानिधिम्।। १३६.२४ ।।
द्रृष्ट्वा द्रृष्ट्वा च तां वापीं मायया मयनिर्मिताम्।
हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन्।। १३६.२५ ।।
दानवा! युद्द्यतेदानीं प्रमथैः सहनिर्भयाः।
मयेन निर्मितावापी हतान् सञ्जीवयिष्यति।। १३६.२६ ।।
ततः क्षुब्धाम्बुनिधिभा भेरीसानु भयङ्करी।
वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः।। १३६.२७ ।।
श्रुत्वा भेरीरवं घोरं मेघारम्भित सन्निभम्।
न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः।। १३६.२८ ।।
लोहरायतसौवर्णैः कटकैर्मणिराजितैः।
आमुक्तैः कुण्डलैहारैर्मुकुटैरपि चोत्कटैः।। १३६.२९ ।।
धूमायिता ह्यविरमा ज्वलन्त इव पावकाः।
आयुधानि समादाय काशिनो द्रृढविक्रमाः।। १३६.३० ।।
नृत्यमाना इव नटा गर्जंन्त इव तोयदा।
करोच्छ्राया इव गजा सिंहा इव च निर्भयाः।। १३६.३१ ।।
ह्रदा इव च गम्भीराः सूर्य्या इव प्रतापिताः।
द्रुमा इव च दैत्येन्द्रा त्रासयन्ते बलं महत्।। १३६.३२ ।।
प्रमथा अपि सोत्साहा गरुड़ोत्पात पातिनः।
युयुत्सवोऽभिधावन्ति दानवान् दानवारयः।। १३६.३३ ।।
नन्दीश्वरेण प्रमथास्तारकाख्येण दानवाः।
चक्रुः संहत्य संग्रामञ्चोद्यमाना बलेन च।। १३६.३४ ।।
तेऽसिभिश्चन्द्रसङ्काशैः शूलैश्चानलपिंगलैः।
बाणैश्च द्रृढनिर्मुक्तैरभिजघ्नुः परस्परम्।। १३०.३५ ।।
शराणां सृज्यमानानामसीनाञ्च निपात्यताम्।
रूपाण्यासन् महोल्कानां पतन्तीनामिवाम्बरात्।। १३०.३६ ।।
शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः।
निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः।। १३६.३७ ।।
हेमकुण्डलयुक्तानि किरीटोत्कटवन्तिच।
शिरांस्युर्व्या पतन्तिस्म गिरिकूटानिवात्यये।। १३६.३८ ।।
परश्वधैः पट्टिशैश्च खङ्गैश्च परिघैस्तथा।
छिन्नाः करिवराकारा निपेतुस्ते धरातले।। १३६.३९ ।।
गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः।
साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम्।। १३६.४० ।।
बलवान् भासि प्रमथ दर्पितो भासि दानव!।
इति चोच्चारयन्वाचं वारणा रणधूर्गताः।। १३६.४१ ।।
परिघैराहता केचिद्दानवैः शङ्करानुगाः।
वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः।। १३६.४२ ।।
प्रमधैरपि नाराचैरसुराः सुरशत्रवः।
द्रुमैश्च गिरिश्रृङ्गैश्च गाढ़मेवाहवे हताः।। १३६.४३ ।।
सूदितानथ तान् दैत्यानन्ये दानवपुङ्गवाः।
उत्क्षिप्य चिक्षिपुर्वाप्यां मयदानव नोदिताः।। १३६.४४ ।।
ते चापि भास्वरैर्देहैः स्वर्गलोक इवामराः।
उत्तस्थुर्वापीमासाद्य सद्रूपा भरणाम्बराः।। १३६.४५ ।।
अथैके दानवाः प्राप्य वापी प्रक्षेपणादसून्।
आस्फोट्य सिंहनादञ्च कृत्वा धावंस्तथा सुराः।। १३६.४६ ।।
दानवाः प्रमथानेतान् प्रसर्पत किमासथ।
हतानपि हि वो वापी पुनरुज्जीवयिष्यति।। १३६.४७ ।।
एवं श्रुत्वा शङ्कुकर्णो वचोऽग्रग्रहसन्निभः।
द्रुतमेवेत्य देवेशमिदं वचनमब्रवीत्।। १३६.४८ ।।
सूदिताः सूदिता देव! प्रमथैरसुराह्यमी।
उत्तिष्ठन्ति पुनर्भीमाः सस्या इव जलोक्षिताः।। १३६.४९ ।।
अस्मिन् किल पुरे वापी पूर्णामृतरसाम्भसा।
निहता निहता यत्र क्षिप्ता जीवन्ति दानवाः।। १३६.५० ।।
इति विज्ञापयेद्देवं शङ्कुकर्णो महेश्वरम्।
अभवन् दानवबल उत्पाता वै सुदारुणाः।। १३६.५१ ।।
तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा।
अभ्यधावत् सुसंक्रुद्धो महादेवरथं प्रति।। १३६.५२ ।।
त्रिपुरे तु महान्घोरो भेरीशङ्खरवो बभौ।
दानवा निः सृता द्रृष्ट्वा देवदेवरथे सुरम्।। १३६.५३ ।।
भूकम्पश्चाभवत्तत्र शताङ्गो भूगतोऽभवत्।
द्रृष्ट्वा क्षोभमगाद्रुद्रः स्वयम्भूश्च पितामहः।। १३६.५४ ।।
ताभ्यां देववरिष्ठाभ्यामन्वितः स रथोत्तमः।
अनायतनमासाद्य सीदते गुणवानिव।। १३६.५५ ।।
धातुक्षये देह इव ग्रीष्मे चाल्पमिवोदकम्।
शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा।। १३६.५६ ।।
रथादुत्पत्यात्मभूर्वै सीदन्तं तु रथोत्तमम्।
वृषरूपं महत् कृत्वा रथं जग्राह दुर्धरम्।। १३६.५७ ।।
तदा शराद्विनिष्पत्य पीतवासा जनार्दनः।
वृषरूपं महत् कृत्वा रथं जग्राह दुर्धरम्।। १३६.५८ ।।
सविषाणाभ्यां त्रैलोक्यं रथमेव महारथः।
प्रगृह्योद्वहते सज्जं कुलं कुलवहो यथा।। १३६.५९ ।।
तारकाख्योऽपि दैत्येन्द्रो गिरीन्द्र इव पक्षवान्।
अभ्यद्रवत्तदा देवं ब्रह्माणं हतवांश्च सः।। १३६.६० ।।
स तारकाख्याभिहतः प्रतोदं न्यस्य कूबरे।
विजज्वाल मुहुर्ब्रह्मा श्वासं वक्त्रात् समुद्गिरन्।। १३६.६१ ।।
तत्र दैत्यैर्महानादो दानवैरपि भैरवः।
तारकाख्यस्य पूजार्थं कृतो जलधरोपमः।। १३६.६२ ।।
रथचरणकरोऽथ महामृधे वृषभवपुर्वृषभेन्द्रपूजितः।
दितितनयबलं विमर्द्य सर्वं त्रिपुरपुरं प्रविवेश केशवः।। १३६.६३ ।।
सजलजलदराजिता समस्तां कुमुदवरोपलफुल्लपङ्कजाढ्याम्।
सुरगुरुरपिबत्पयोऽमृतन्तद्रविरिव सञ्चितशार्वरन्तमोऽन्धम्।। १३६.६४ ।।
वापीं पीत्वा सुरेन्द्राणां पीतवासाजनार्दनः।
नर्दमानो महाबाहुः प्रविवेश शरन्ततः।। १३६.६५ ।।
ततोऽसुरा भीमगणेश्वरैर्हताः प्रहारसम्बर्द्धितशोणितापगाः।
पराङ्मुखाभीममुखैः कृतारणे यथा नयाभ्युद्यततत्परैर्नरः।। १३६.६६ ।।
स तारकाख्यस्तडिमालिरेव च मयेन सार्द्धं प्रमथैरभिद्रुता।
पुरं परा वृत्यनुतेशरार्दिता यथा शरीरं पवनोदये गता।। १३६.६७ ।।
गणेश्वराभ्युद्यतदर्पकाशिनो महेन्द्रनन्दीश्वरषण्मुखायुधि।
विनेदुरुच्चैर्जहसुश्च दुर्मदा जयेम चन्द्रादि दिगीश्वरैः सह।। १३६.६८ ।।