मत्स्यपुराणम्/अध्यायः २०६
कृष्णमृगचर्मदानविधिवर्णनम्।
मनुरुवाच।
कृष्णाजिनप्रदानस्य विधिकालौ ममानघ।
ब्राह्मणञ्च तथाचक्ष्व तत्र मे संशयो महान् ॥ २०६.१ ॥
मत्स्य उवाच।
वैशाखी पौर्णमासी च ग्रहणे शशिसूर्ययोः।
पौर्णमासीतु या माघे ह्याषाढी कार्तिकी तथा ॥ २०६.२ ॥
उत्तरायणं द्वादशी वा तस्यां दत्तं महाफलम्।
आहिताग्निर्द्विजो यस्तु तद्देयं तस्य पार्थिव ॥ २०६.३ ॥
यथा येन विधानेन तन्मे निगदतः श्रृणु।
गोमयेनोपलिप्ते तु शूचौ देशे नराधिप ॥ २०६.४ ॥
आदावेव समास्तीर्य शोभनं शस्तमाविकम्।
ततः सश्रृङ्गं सखुरमास्तरेत् कृष्णमार्गकम् ॥ २०६.५ ॥
कर्तव्यं रुक्मश्रृङ्गं तद्रौप्यदन्तं तथैव च।
लाङ्गलं मौक्तिकैर्युक्तं तिलच्छन्नं तथैव च ॥ २०६.६ ॥
तिलैश्च शिखितं कृत्वा वाससाच्छादयेच्छुचि।
सुवर्णनाभं तत्कुर्यादलङ्कुर्याद्विशेषतः ॥ २०६.७ ॥
रत्नैर्गन्धैर्यथाशक्त्या तस्य दिक्षु च विन्यसेत्।
कांस्यपात्राणि चत्वारि तेषु दद्याद्यथाक्रमम् ॥ २०६.८ ॥
मृण्मयेषु च पात्रेषु पूर्वादिषु यथाक्रमम्।
घृतं क्षीरं दधि क्षौद्रमेवं दद्याद्यथाविधि ॥ २०६.९ ॥
चम्पकस्य तथा शाखामव्रणं कुम्भमेव च।
बाह्योपस्थापनं कृत्वा शुभचित्तो निवेशयेत् ॥ २०६.१० ॥
सूक्ष्मवस्त्रं शुभम्पीतं मार्जनार्थं प्रयोजयेत्।
तथा धातुमयीः पात्रीः पादयोस्तस्य दापयेत् ॥ २०६.११ ॥
यानि कानि च पापानि मया लोभात् कृतानि वै।
लोहपात्रादि दानेन प्रणश्यन्तु ममाशु वै ॥ २०६.१२ ॥
तिलपूर्णं ततः कृत्वा वामपादे निवेशयेत्।
यानि कानिच पापानि कर्णोत्थानि कृतानि च ॥ २०६.१३ ॥
कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा।
मधुपूर्णन्तु तत्कृत्वा पादे वै दक्षिणे न्यसेत् ॥ २०६.१४ ॥
परापवादपैशून्याद्वृथा मांसस्य भक्षणात्।
तत्रोत्थितञ्च मे पापं ताम्रपात्रात्प्रणश्यतु ॥ २०६.१५ ॥
कन्यानृतात् गवाञ्चैव परदाराभिमर्शनात्।
रौप्यपात्रप्रदानाद्धि क्षिप्रं नाशं प्रयातु मे ॥ २०६.१६ ॥
ऊर्ध्वपादे त्विमे कार्ये ताम्रस्य रजतस्य च।
जन्मजन्मसहस्रेषु कृतं पापं कुबुद्धिना ॥ २०६.१७ ॥
सुवर्णपात्रदानात्तु नाशयाशु जनार्द्दन!।
हेममुक्ताविद्रुमञ्च दाड़िमं बीजपूरकम् ॥ २०६.१८ ॥
प्रशस्तपत्रे श्रवणे खुरे श्रृङ्गाटकानि च।
एवं कृत्वा यथोक्तेन सर्वशाकफलानि च ॥ २०६.१९ ॥
तत्प्रतिग्रहविद्विद्वानाहिताग्निर्द्विजोत्तमः।
स्नातो वस्त्रयुगच्छन्नः स्वशक्त्या चाप्यलङ्कृतः ॥ २०६.२० ॥
प्रतिग्रहश्च तस्योक्तः पुच्छदेशे महीपते!।
तत एवं समीपे तु मन्त्रमेनमुदीरयेत् ॥ २०६.२१ ॥
कृष्णः कृष्णगलोदेवः कृष्णाजिनधरस्तथा।
तद्दानाद्धूतपापस्य प्रीयतां वृषभध्वजः ॥ २०६.२२ ॥
अनेन विधिना दत्त्वा यथावत् कृष्णमार्गकम्।
न स्पृश्योऽसौ द्विजो राजन्! चितियूपसमो हि सः ॥ २०६.२३ ॥
स दाने श्राद्धकाले च दूरतः परिवर्जयेत्।
स्वगृहात्प्रेष्य तं विप्रं मङ्गलस्नानमाचरेत् ॥ २०६.२४ ॥
पूर्णकुम्भेन राजेन्द्र! शाखया चम्पकस्य तु।
कृत्वाचार्यश्च कलशं मन्त्रेणानेन मूर्द्धनि॥ २०६.२५ ॥
आप्यायस्व समुद्रज्येष्ठा ऋचा संस्नाप्य षोड़श।
अहतेवाससीवत आचान्तः शुचितामियात् ॥ २०६.२६ ॥
तद्वासः कुम्भसहितं नीत्वा क्षेप्यं चतुष्पथे।
कृतेनानेन या तुष्टिर्न सा शक्या सुरैरपि ॥ २०६.२७ ॥
वक्तुं हि नृपतिश्रेष्ठ! तथाप्युद्देशतः श्रृणु।
समग्रभूमिदानस्य फलं प्राप्नोत्यसंशयम् ॥ २०६.२८ ॥
सर्वान् लोकांश्च जयति कामचारी विहङ्गवत्।
आभूतसंप्लवं यावत्सर्गमाप्नोत्यसंशयम् ॥ २०६.२९ ॥
न पिता पुत्रमरणं वियोगं भार्यया सह।
धनदेशपरित्यागं न चैवेहाप्नुयात् क्वचित् ॥ २०६.३० ॥
कृष्णेप्सितं कृष्णमृगस्य चर्म दत्त्वा द्विजेन्द्राय समाहितात्मा।
यथोक्तमेतन्मरणं न शोचेत् प्राप्नोत्यभीष्टं मनसः फलं तत् ॥ २०६.३१ ॥