मत्स्यपुराणम्/अध्यायः २२७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६
  247. अध्यायः २४७
  248. अध्यायः २४८
  249. अध्यायः २४९
  250. अध्यायः २५०
  251. अध्यायः २५१
  252. अध्यायः २५२
  253. अध्यायः २५३
  254. अध्यायः २५४
  255. अध्यायः २५५
  256. अध्यायः २५६
  257. अध्यायः २५७
  258. अध्यायः २५८
  259. अध्यायः २५९
  260. अध्यायः २६०
  261. अध्यायः २६१
  262. अध्यायः २६२
  263. अध्यायः २६३
  264. अध्यायः २६४
  265. अध्यायः २६५
  266. अध्यायः २६६
  267. अध्यायः २६७
  268. अध्यायः २६८
  269. अध्यायः २६९
  270. अध्यायः २७०
  271. अध्यायः २७१
  272. अध्यायः २७२
  273. अध्यायः २७३
  274. अध्यायः २७४
  275. अध्यायः २७५
  276. अध्यायः २७६
  277. अध्यायः २७७
  278. अध्यायः २७८
  279. अध्यायः २७९
  280. अध्यायः २८०
  281. अध्यायः २८१
  282. अध्यायः २८२
  283. अध्यायः २८३
  284. अध्यायः २८४
  285. अध्यायः २८५
  286. अध्यायः २८६
  287. अध्यायः २८७
  288. अध्यायः २८८
  289. अध्यायः २८९
  290. अध्यायः २९०
  291. अध्यायः २९१

राजधर्मवर्णने दण्डविधानवर्णनम्।

मत्स्य उवाच।
निक्षेप्यस्य समं मूल्यं दण्ड्ये निक्षेपभुक् तथा।
वस्रादिकसमस्तस्य तदा धर्मो न हीयते ।। २२७.१ ।।

यो निक्षेपं नार्पयति यश्चानिक्षेप्य याचते।
तावुभौ चोरवच्छास्यौ दाप्यौ वा द्विगुणन्धनम् ।। २२७.२ ।।

उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः।
स सहायः स हन्तव्यः प्रकामं विविधैर्वधैः ।। २२७.३ ।।

यो याचितं समादाय न तद्दद्याद्यथाक्रमम्।
न निगृह्य बलाद्दाप्यो दण्ड्यो वा पूर्वसाहसम् ।। २२७.४ ।।

अज्ञानाद्यदि वा कुर्यात्परद्रव्यस्य विक्रयम्।
निर्दोषो ज्ञानपूर्वन्तु चोरवद्वधमर्हति ।। २२७.५ ।।

मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति।
दण्ड्यः समूल्यं सकलं धर्मज्ञेन महीक्षिता ।। २२७.६ ।।

द्विजभोज्ये तु सम्प्राप्ते प्रतिवेश्ममभोजयन्।
हिरण्यमाषकं दड्यः पापे नास्ति व्यतिक्रमः ।। २२७.७ ।।

आमन्त्रितो द्विजो यस्तु वर्तमानश्च स्वे गृहे।
निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम् ।। २२७.८ ।।

प्रतिश्रुत्या प्रदातारं सुवर्णं दण्डयेन्नृपः।
भृत्यश्चाज्ञां न कुर्याद्यो दर्पात्कर्म यथोदितम् ।। २२७.९ ।।

स दण्ड्यः कृष्मलान्यष्टौ न देयञ्चास्य वेतनम्।
संगृहीतं न दद्याद्यः काले वेतनमेव च ।। २२७.१० ।।

अकाले तु त्यजेत् भृत्यं दण्ड्यः स्याच्छतमेव च।
यो ग्रामदेशसस्यानां कृत्वा सत्येन सम्विदम् ।। २२७.११ ।।

विसम्वदेन्नरो लोभात् तं राष्ट्राद्विप्र वासयेत्।
क्रीत्वा विक्रयवान् किञ्चित् यस्येहानुशयो भवेत् ।। २२७.१२ ।।

सोऽन्तर्दशाहात्तत्साम्यन्दद्याच्चैवाददीत वा।
परेण तु दशाहस्य न दद्यान्नैव दापयेत् ।। २२७.१३ ।।

आददन्विददंश्चैव राज्ञा दण्ड्यः शतानि षट्।
यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।। २२७.१४ ।।

तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान्।
अकन्यैवेति यः कन्यां ब्रूयाद्दोषेणमानवः ।। २२७.१५ ।।

स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन्।
यस्त्वन्यां दर्शयित्वान्यां वोढुः कन्यां प्रयच्छति ।। २२७.१६ ।।

उत्तमन्तस्य कुर्वीत राजा दण्डं तु साहसम्।
वरो दोषाननाख्याय यः कन्या वरयेदिह ।। २२७.१७ ।।

दत्ताप्यदत्ता सा तस्य राज्ञा दड्यः शतद्वयम्।
प्रदाय कन्यां योऽन्यस्मै पुनस्तांसां प्रयच्छति ।। २२७.१८ ।।

दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तम साहसः।
तत्प्रकारेण वा वाचा युक्तं पण्यमसंशयम् ।। २२७.१९ ।।

लुब्धोह्यन्यत्र विक्रेता षट्शतं दण्डमर्हति।
दुहितुः शुक्लविक्रेता सत्यं कारात्तु सन्त्यजेत् ।। २२७.२० ।।

द्विगुणं दण्डयेदेनमिति धर्मो व्यवस्थितः।
मूल्यैकदेशं दत्वा तु यदि क्रेता धनन्त्यजेत् ।। २२७.२१ ।।

स दण्ड्यो मध्यमं दण्डं तस्य पण्यस्य मोक्षणम्।
दुह्याद्धेनुञ्च यः पालो गृहीत्वा भक्तवेतनम् ।। २२७.२२ ।।

स तु दण्ड्यः शतं राज्ञा सुवर्णञ्चाप्यरक्षिता।
दण्डं दत्वा तु विरमेत् स्वामितः कृतलक्षणः ।। २२७.२३ ।।

बद्धः कार्ष्णायसैः पाशैस्तस्य कर्मकरो भवेत्।
धनुः शतपरीणाहो ग्रामस्य तु समन्ततः ।। २२७.२४ ।।

द्विगुणं त्रिगुणं वापि नगरस्य तु कल्पयेत्।
वृत्तिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ।। २२७.२५ ।।

छिद्रं वा वारयेत्सर्वं श्वसूकरमुखानुगम्।
यत्रापरिकृतं धान्यं विहिंस्तुः पशवो यदि ।। २२७.२६ ।।

न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणे।
अनिर्दशाहाद्गां सूतां वृषं देवपशुं तथा।। २२७.२७ ।।

छिद्रं वा वारयेत्सर्वं न दण्ड्या मनुरब्रवीत्।
अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति ।। २२७.२८ ।।

पाल्यस्य पालक स्वामी विनाशे क्षत्रियस्य तु।
भक्षयित्वोपविष्टस्तु द्विगुणं दण्डमर्हति ।। २२७.२९ ।।

विशं दण्ड्याद्दशगुणं विनाशे क्षत्रियस्य तु।
गृहं तडागमारामं क्षेत्रं वापि समाहरन् ।। २२७.३० ।।

शतानि पञ्चदण्डः स्यादज्ञानाद् द्विशतोदमः।
सीमा बन्धनकाले तु सीमान्तं यो हि कारयेत् ।। २२७.३१ ।।

तेषां संज्ञां ददानस्तु जिह्वाच्छेदनमाप्नुयात्।
अथैनामपि यो दद्यात् संविदं वाधिगच्छति ।। २२७.३२ ।।

उत्तमं साहसं दंड्यः इति स्वायम्भुवोऽब्रवीत्।
वर्णानामानुपूर्व्येण त्रयाणामविशेषतः ।। २२७.३३ ।।

अकार्यकारिणः सर्वान् प्रायश्चित्तानि कारयेत्।
असत्येन प्रमाप्य स्त्री शूद्रहत्या व्रतं चरेत् ।। २२७.३४ ।।

दानेन च धनेनैकं सर्पादीनामशक्नुवन्।
एकैकं स चरेत्कृच्छ्रं द्विजः पापापनुत्तये।। २२७.३५ ।।

फलदानाञ्च वृक्षाणां छेदने जप्यमृक्शतम्।
गुल्मवल्ली लतानाञ्च पुष्पितानाञ्च वीरुधाम् ।। २२७.३६ ।।

अस्थिमताञ्च सत्वानां सहस्रस्य प्रमापणे।
पूर्णेवानस्य वस्थातुं शूद्रहत्या व्रतञ्चरेत् ।। २२७.३७ ।।

किञ्चिद्देयञ्च सत्वानां सहस्रस्य प्रमापणे।
अनस्न्याञ्चैव हिंसायां प्राणायामैर्विशुध्यति ।। २२७.३८ ।।

अन्नादिजानां सत्वानां रसजानाञ्च सर्वशः।
फलपुष्पोद्गतानाञ्च घृतप्राशो विशोधनम् ।। २२७.३९ ।।

कृष्टानामोषधीनाञ्च जातानाञ्च स्वयं वने।
वृथाच्छेदेन गच्छेत दिनमेकं पयोव्रती ।। २२७.४० ।।

एतैर्व्रतैरपोह्यं स्यादेनो हिंसा समुद्भवम्।
स्तेयकर्त्रपहर्तॄणां श्रूयतां व्रतमुत्तमम् ।। २२७.४१ ।।

धान्यान्न धनचौर्याणि कृत्वा कामं द्विजोत्तमः।
सजातीयगृहादेव कृच्छ्रार्द्धेन विशुध्यति ।। २२७.४२ ।।

मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य तु।
कूपवापीजलानान्तु शुद्धिश्चान्द्रायणं स्मृतम् ।। २२७.४३ ।।

द्रव्याणामल्पसाराणां स्तेयं कृत्वान्य वेश्मतः।
चरेत्सान्तपनं कृच्छ्रन्तन्निर्यात्य विशुद्धये ।। २२७.४४ ।।

भक्ष्यभोज्यापहरणे यानशय्यासनस्य तु।
पुष्पमूलफलानान्तु पञ्चगव्यं विशोधनम् ।। २२७.४५ ।।

तृणकाष्ठद्रुमाणान्तु शुष्कान्नस्य गुडस्य च।
चैलचर्मामिषाणान्तु त्रिरात्रं स्यादभोजनम् ।। २२७.४६ ।।

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च।
अयः कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ।। २२७.४७ ।।

कार्पासकीटवर्णानां द्विशफैक शफस्य च।
पक्षिगन्धौषधानाञ्च रज्वाश्चैव त्र्यहं पयः ।। २२७.४८ ।।

एतैर्व्रतैरपोहन्ति पापं स्तेयकृतं द्विजः।
अगम्यागमनीयन्तु व्रतैरेभिरपानुदेत् ।। २२७.४९ ।।

गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु।
सख्युः पुत्रस्य चस्त्रीषु कुमारीष्वंत्यजासु च ।। २२७.५० ।।

पितृष्वस्रीयभगिनीं स्वस्रीयां मातुरेव च।
मातुश्च भ्रातुरार्यायां गत्वा चान्द्रयणं चरेत् ।। २२७.५१ ।।

एतास्त्रियस्तु भार्यार्थे नोपगच्छेत्तु बुद्धिमान्।
ज्ञातींश्च मातुलेयास्ते पतिता उपयन्ति ये ।। २२७.५२ ।।

अमानुषीषु पुरुषो उदक्यायाम योनिषु।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।। २२७.५३ ।।

मैथुनञ्च समालोक्य पुंसि योषिति वा द्विजः।
गोयानेऽप्सुदिवा चैव सवासा स्नानमचरेत् ।। २७७.५४ ।।

चाण्डालान्त्य स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च।
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ।। २२७.५५ ।।

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि।
यत्पुंसः परदारेषु तच्चैनाञ्चारयेद् व्रतम् ।। २२७.५६ ।।

सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता।
कृच्छ्रं चान्द्रायणञ्चैव तत्तस्याः पावनं स्मृतम् ।। २२७.५७ ।।

यः करोत्येकरात्रेण वृषली-सेवनं द्विजः।
तदेकभुक् जपेन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ।। २२७.५८ ।।

एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः।
पतितैः संप्रयुक्तानामिमां श्रृणुत निष्कृतिम् ।। २२७.५९ ।।

संवत्सरेण पतति पतितेन समाचरन्।
याजनाध्यापनाद्यौनादनुयानाशनासनात् ।। २२७.६० ।।

यो येन पतितेनैषां संसर्गं याति मानवः।
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ।। २२७.६१ ।।

पतितस्योदकं कार्यं सपिण्डैर्बान्धवैः सह।
निन्दितेऽहनि सायाह्ने ज्ञातिभिर्गुरुसन्निधौ ।। २२७.६२ ।।

दासीघटमपां पूर्णं पर्यस्येत् प्रेतवत्सदा।
अहोरात्रमुपासीरन् नाशौचं बान्धवैः सह ।। २२७.६३ ।।

निवर्त्तयेरन् तस्मात्तु सम्भाषणसहासनम्।
दायादस्य प्रमाणञ्च यात्रामेवञ्च लौकिकीम् ।। २२७.६४ ।।

ज्येष्ठभावान्निवर्तेत ज्यैष्ठ्यावाप्तं च यत्पुनः।
ज्येष्ठांशं प्राप्नुयाच्चास्य यो वा स्याद् गुणतोऽधिकः ।। २२७.६५ ।।

स्थापिताञ्चापि मर्यादां ये भिन्द्युः पापकर्मिणः।
सर्वे पृथक् दण्डनीया राज्ञा प्रथमसाहसम् ।। २२७.६६ ।।

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति।
वैश्यस्तु द्विशतं राजन्! शूद्रस्तु वधमर्हति ।। २२७.६७ ।।

पञ्चाशद् ब्राह्मणो दण्ड्य क्षत्रियस्याभिशंसने।
वैश्यस्याप्यर्द्धपञ्चाशच्छूद्रे द्वादशको दमः ।। २२७.६८ ।।

क्षत्रिस्याप्नुयाद्वैश्यः साहसं पुनरेव च।
शूद्रः क्षत्रियमाक्रुश्च जिह्वाच्छेदनमाप्नुयात् ।। २२७.६९ ।।

पञ्चाशत् क्षत्रियो दण्ड्यस्तथा वैश्याभिशंसने।
शूद्रे चैवार्द्धपञ्चाशत्तथा धर्मो न हीयते ।। २२७.७० ।।

वैश्यस्याक्रोशने दण्ड्यः शूद्रश्चोत्तमसाहसम्।
शूद्राक्रोशे तथा वैश्यः शतार्द्धं दण्डमर्हति ।। २२७.७१ ।।

सवर्णाक्रोशने दंड्यस्तथा द्वादशकं स्मृतम्।
वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ।। २२७.७२ ।।

एकजातिर्द्विजातिन्तु वाचा दारुणया क्षिपन्।
जिह्वायाः प्राप्नुयाच्छेदं जघन्यः प्रथमो हि सः ।। २२७.७३ ।।

नामजातिगृहं तेषामभद्रोहेण कुर्वतः।
निक्षेप्योऽयो मयः सङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ।। २२७.७४ ।।

धर्मोपदेशं शूद्रस्तु द्विजानामभिकुर्वतः।
तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ।। २२७.७५ ।।

श्रुतिं देशञ्च जातिञ्च कर्म शारीरमेव च।
वितथञ्च ब्रुवन् दण्ड्यो राजा द्विगुणसाहसम् ।। २२७.७६ ।।

यस्तु पातकसंयुक्तः क्षिपेद्वर्णान्तरं नरः।
उत्तमं साहसं दण्डः पात्यस्तस्मिन् यथाक्रमम् ।। २२७.७७ ।।

राज्ञो निवेशनियमं वितथं यान्ति वै मिथः।
सर्वे द्विगुणदण्ड्यास्ते विप्रलम्भान्नृपस्य तु ।। २२७.७८ ।।

प्रीत्या मयास्याभिहितं प्रमादेनाथ वा वदेत्।
भूयो न चैवं वक्ष्यामि स तु दण्डार्द्धभाग् भवेत् ।। २२७.७९ ।।

काणं वाप्यथ वा खञ्जमन्धं चापि तथा विधम्।
तथैवापि ब्रुवन्दाप्यो दण्डं कार्षापणं धनम् ।। २२७.८० ।।

मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुम्।
आक्रोशयन्शतं दण्ड्यः पन्थानं चार्थयन्गुरोः ।। २२७.८१ ।।

गुरुवर्ज्यन्तु मार्गार्हं यो हि मार्गं न यच्छति।
स दाप्यः कृष्णलं राज्ञस्तस्य पापस्य शान्तये ।। २२७.८२ ।।

एकजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात्।
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन् ।। २२७.८३ ।।

अवनिष्ठीवतो दर्पात् द्वावोष्ठौच्छेदयेन्नृप!।
अवमूत्रयतोमेढ्रमपशब्दयतो गुदम् ।। २२७.८४ ।।

सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
कट्यां कृताङ्को निर्वास्यः स्फिचं वाप्यस्य कर्तयेत् ।। २२७.८५ ।।

केशेषु गृह्णतो हस्तं छेदयेदविचारयन्।
पादयोर्नासिकायाञ्च ग्रीवायां वृषणेषु च ।। २२७.८६ ।।

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः।
मांसभेत्ता च षण्णिष्कान् निर्वास्यस्त्वस्थिभेदकः ।। २२७.८७ ।।

अङ्गभङ्गकरस्याङ्गं तदेवापहरेन्नृपः।
दण्डपारुष्यकृद्दण्ड्यौ समुत्थानव्ययन्तथा ।। २२७.८८ ।।

अर्द्धपादकरः कार्यो गोगजाश्वोष्ट्रघातकः।
पशुक्षुद्रमृगाणाञ्च हिंसायां द्विगुणो दमः ।। २२७.८९ ।।

पञ्चाशच्च भवेद्दण्ड्यस्तथैव मृगपक्षिषु।
कृमिकीटेषु दण्ड्यस्याद्रजतस्य च माषकम् ।। २२७.९० ।।

तस्यानुरूपं मौल्यञ्च प्रदद्यात् स्वामिने तथा।
स्वस्वामिकानां सकलं शेषाणां सकलं तथा ।। २२७.९१ ।।

वृक्षन्तु सफलं च्छित्वा सुवर्णं दण्डमर्हति।
द्विगुणं दण्डयेच्चैनं पथिसीम्नि जलाशये ।। २२७.९२ ।।

छेदनादफलस्यापि मध्यमं साहसं स्मृतम्।
गुल्मवल्लीलतानाञ्च सुवर्णस्य च माषकम् ।। २२७.९३ ।।

वृथाच्छेदी तृणस्यापि दण्ड्यः कार्षापणं भवेत्।
त्रिभागं कृष्णला दण्ड्याः प्राणिनस्ताडने तथा ।। २२७.९४ ।।

देशकालानुरूपेण मूल्यं राजा द्रुमादिषु।
तत्स्वामिनस्तथा दण्ड्या दण्डमुक्तन्तु पार्थिव! ।। २२७.९५ ।।

यत्रातिवर्तते युग्यं वैगुण्यात् प्राजकस्य तु।
तत्र स्वामी भवेद्दण्ड्यो नाप्तश्चेत् प्राजको भवेत् ।। २२७.९६ ।।

प्राजकश्च भवेदाप्तः प्राजको दण्डमर्हति।
नास्ति दण्डश्च तस्यापि तथा वै हेतुकल्पकः ।। २२७.९७ ।।

द्रव्याणि यो हरेद् यस्य जानतोऽजानतोऽपि वा।
स तस्योत्पादयेत्तुष्टिं राज्ञो दद्यात्ततो दमम् ।। २२७.९८ ।।

यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च तां प्रपाम्।
स दण्डं प्राप्नुयान्माषं तच्च सम्प्रतिपादयेत् ।। २२७.९९ ।।

धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः।
शेषेऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् ।। २२७.१०० ।।

तथा भक्ष्यान्नपानानां न तथाप्यधिके वधः।
सुवर्णरजतादीनामुत्तमानाञ्च वाससाम् ।। २२७.१०१ ।।

पुरुषाणां कुलीनानां नारीणाञ्च विशेषतः।
महापशूनां हरणे शस्त्राणामौषधस्य च ।। २२७.१०२ ।।

मुख्यानाञ्चैव रत्नानां हरणे वधमर्हति।
दध्नः क्षीरस्य तक्रस्य पानीयस्य रसस्य च ।। २२७.१०३ ।।

वेणु वैदलभाण्डानां लवणानां तथैव च।
मृण्मयानाञ्च सर्वेषां मृदो भस्मन एव च।। २२७.१०४ ।।

कालमासाद्य कार्य्यञ्च राजा दण्डं प्रकल्पयेत्।
गोषु ब्राह्मणसंस्थासु महिषीषु तथैव च ।। २२७.१०५ ।।

अश्वापहारकश्चैव सद्यः कार्योऽर्द्धपादकः।
सूत्रकार्पासकिण्वानां गोमयस्य गुड़स्य च ।। २२७.१०६ ।।

मत्स्यानां पक्षिणाञ्चैव तैलस्य च घृतस्य च।
मांसस्य मधुनश्चैव यच्चान्यद्वस्तु-सम्भवम्।। २२७.१०७ ।।

अन्येषां लवणादीनां मद्यानामोदनस्य च।
पक्वान्नानाञ्च सर्वेषान्तन्मूल्याद् द्विगुणोदमः ।। २२७.१०८ ।।

पुष्पेषु हरिते धान्ये गुल्मवल्लीलतासु च।
अन्नेषु परिपूर्णेषु दण्डः स्यात्पञ्चमाषकम् ।
परिपूर्णेषु धान्येषु शाकमूलफलेषु च ।। २२७.१०९ ।।

निरन्वये शतं दण्ड्यः सान्वये द्विशतन्दमः।
येन येन यथाङ्गेन स्तेनोऽन्येषु विचेष्टते ।। २२७.११० ।।

तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः।
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्ष् द्वे च मूलके ।। २२७.१११ ।।

त्रपुसोर्वारुकौ द्वौ च तावन्मात्रं फलेषु च।
तथाच सर्वधान्यानां मुष्टिग्राहेण पर्थिव! ।। २२७.११२ ।।

शाके शाकप्रमाणेन गृह्यमाणेन दुष्यति।
वानस्पत्यं फलं मूलं दार्वग्न्यर्थं तथैव च ।। २२७.११३ ।।

तृणङ्गेऽभ्यवहारार्थमस्तेयं मनुरब्रवीत्।
अदेववाटिजं पुष्पं देवतार्थं तथैव च ।। २२७.११४ ।।

आददानः परक्षेत्रात् न दण्डं दातुमर्हति।
श्रृङ्गिणं नखिनं राजन्! दंष्ट्रिणञ्च वधोद्यतम् ।। २२७.११५ ।।

यो हन्यान्न स पापेन लिप्यते मनुजेश्वर!।
गुरुं वा बालवृद्धं वा ब्राह्मणं वा बहुश्रुतम् ।। २२७.११६ ।।

आततायिनमायान्तं हन्यादेवाविचारयन्।
आततायिवधे दोषो हन्तुर्भवति कश्चन ।। २२७.११७ ।।

प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति।
गृहक्षेत्राभिहर्तारस्तथागम्याभिगामिनः ।। २२७.११८ ।।

अग्निदोगरदश्चैव तता चाभ्युद्यतायुधः।
अभिचारन्तु कुर्वाणो राजगामि च पैशुनम् ।। २२७.११९ ।।

एते हि कथिता लोके धर्मज्ञैराततायिनः।
परस्त्रीणान्तु सम्भाषे तीर्थेऽरण्येक गृहेऽपि वा ।। २२७.१२० ।।

नदीनाञ्चैव सम्भेदैः स संग्रहणमाप्नुयात्।
न सम्भाषेत्सहस्त्रीभिः प्रतिषिद्धः समाचरेत् ।। २२७.१२१ ।।

प्रतिषिद्धे समाभाष्य सुवर्णं दण्डमर्हति।
नैव चारणदारेषु विधिरात्मोपजीविषु ।। २२७१२२ ।।

सज्जयन्ति मनुष्यैस्ता निगूढं वाचरन्त्युत।
किञ्चिदेवतुदाप्यः स्यात्सम्भाषेणापचारयन् ।। २२७.१२३ ।।

प्रेष्यासु चैव सर्वासु गृहप्रव्रजितासु च।
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति ।। २२७.१२४ ।।

सकामां दूषमाणस्तु प्राप्नुयाद्द्विशतं दमम्।
यश्चसंरक्षकस्तत्र पुरुषः स तथा भवेत् ।। २२७.१२५ ।।

पारदारिकवद्दण्ड्यो योऽपि स्यादवकाशदः।
बलात्संदूषयेद्यस्तु परभार्यां नरः क्वचित् ।। २२७.१२६ ।।

वधो दण्डो भवेत्तस्य नापराधो भवेत्स्त्रियः।
रजस्तृतीयं या कन्या स्वगृहे प्रतिपद्यते ।। २२७.१२७ ।।

अदण्ड्या सा भवेद्राज्ञा वरयन्ती पतिं स्वयम्।
स्वदेशे कन्यकान्दत्त्वा तामादाय तथा व्रजेत् ।। २२७.१२८ ।।

परदेशे भवेद्वध्यः स्त्रीचोरः स यतो भवेत्।
अद्रव्यां मृतपत्नीन्तु संगृह्णन्नापराध्यति ।। २२७.१२९ ।।

सद्रव्यां तां संग्रहीता दण्डन्तु क्षिप्रमर्हति।
उत्कृष्टं या भजेत्कन्या देया तस्यैव सा भवेत् ।। २२७.१३० ।।

यच्चान्यं सेवमानाञ्च संयतां वासयेद्गृहे।
जघन्यमुत्तमा नारी सेवमाना तथैव च ।। २२७.१३१ ।।

भर्त्तारं लङ्घयेद्या स्त्री ज्ञातिभिर्बलदर्पिता।
ताञ्च निष्कासयेद्राजा संख्याने बहुसंस्थिते ।। २२७.१३२ ।।

हृताधिकारं मलिनां पिण्डमात्रोपजीविनीम्।
वासयेत् स्वैरिणीं नित्यं सवर्णोनाभिदूषिताम् ।। २२७.१३३ ।।

ज्यायसा दूषिता नारी मुण्डनं सम???प्नुयात्।
वासश्चमलिनंनित्यंशिखांसंप्राप्नुयाद्दश ।। २२७.१३४ ।।

ब्राह्मणः क्षत्रियो वैश्यः क्षत्रविट्शूद्रयोषितः।
ब्रह्मदाप्यो भवेद्राजादण्डमुत्तमसाहसम् ।। २२७.१३५ ।।

वैश्यागमे च विप्रस्य क्षत्रियस्यान्त्यजागमे।
मध्यमं वैश्योदण्ड्यःशूद्रागमाद्भवेत् ।। २२७.१३६ ।।

शूद्रः सवर्णागमने शतं दण्ड्योमहीक्षिता।
वैश्यस्तुद्विगुणंराजन्! क्षत्रस्तुत्रिगुणन्तथा ।। २२७.१३७ ।।

ब्राह्मणश्च भवेद्दण्ड्यस्तथाराजंश्चतुर्गुणम्।
अगुप्तासुभवेद्दण्डः स्वगुप्तास्वधिको भवेत् ।। २२७.१३८ ।।

मातापितृष्वसाश्वश्रुर्मातुलानी पितृव्याजा।
पितृव्यसखिशिष्यस्त्री गर्भिणी तत्सखी तथा ।। २२७.१३९ ।।

भातृभार्यागमे पूर्वाद् दण्डस्तुक द्विगुणो भवेत्।
चण्डालीञ्च श्वपाकीञ्च गच्छन् वधमवाप्नुयात् ।। २२७.१४० ।।

तिर्यग्योनिञ्च गोवर्ज्यं मैथुनं यो निषेवेते।
वपनं प्राप्नुयाद्दण्कडं तस्याश्च यवसादिकम् ।। २२७.१४१ ।।

सुवर्णञ्च भवेद्दण्ड्यो गां व्रजन्मनुजोत्तम!।
वेश्यागामी द्विजोदण्ड्यो वेश्याशुल्कसमम्पणम् ।। २२७.१४२ ।।

गृहगीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति।
वेतनं द्विगुणं दद्याद्दण्डञ्च द्विगुणं तथा ।। २२७.१४३ ।।

अन्यमुद्दिश्ययोवेश्यांनयेदन्यस्यकारयेत्।
तस्यदण्डोभवेद्राजन्! सुवर्णस्यच माषकम् ।। २२७.१४४ ।।

नीत्वा भोगान्न यो दद्याद्दाप्यो द्विगुणवेतनम्।
राज्ञश्च द्विगुणं दण्डस्तथा धर्म्मो न हीयते ।। २२७.१४५ ।।

बहूनां व्रजतामेकां सर्वे ते द्विगुणन्दमम्।
दद्युः पृथक् पृथक् सर्वे दण्डञ्च द्विगुणं परम् ।। २२७.१४६ ।।

न माता न पिता न स्त्री न ऋत्विग् याज्यमानवाः।
अन्योन्यं पतितास्त्याज्या योगे दण्ड्याः शतानि षट् ।। २२७.१४७ ।।

पतिता गुरुवस्त्याज्या न तु माता कथञ्चन।
गर्भधारणपोषाभ्यां तेन माता गरीयसी ।। २२७.१४८ ।।

अधीयानोऽप्यनध्याये दण्ड्यः कार्षापणत्रयम्।
अध्यापकश्चद्विगुणं तथाचारस्य लङ्घने ।। २२७.१४९ ।।

अनुक्तस्य भवेद्दण्डः सुवर्णस्य च कृष्णलम्।
बार्यापुत्रश्चदासश्चशिष्योभ्राताचसोदरः ।। २२७.१५० ।।

कृतापराधास्ताड्याः स्यु रज्वा वेणुदलेन वा।
पृष्ठतस्तु शरीलस्य नोत्तमाङ्गं कथञ्चन ।। २२७.१५१ ।।

अतोऽन्यथा प्रहरतः प्राप्तःश्याच्योरकिल्विषम्।
दूतीं समाह्वयंश्चैवयोनिषिद्धंसमाचरेत् ।। २२७.१५२ ।।

आच्छन्नं वा प्रकाशं वा स दण्डयः पाथिवेच्छया।
वासांसि फलकैः श्लक्ष्णैर्निर्णिज्याद्रजकः शनैः ।। २२७.१५३ ।।

अतोऽन्यथाहि कुर्वंस्तु दण्ड्यः स्याद्रुक्ममाषकम्।
रक्षास्वधिकृतैश्चैवप्रदेयंयैर्विलुप्यते ।। २२७.१५४ ।।

कर्षकेभ्योऽर्थमादाय यः कुर्यात्करमन्यथा।
तस्य सर्वस्वमादाय तं राजा विप्रवासयेत् ।। २२७.१५५ ।।

ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कार्यिणाम्।
निर्घृणाः क्रूरमनसः सर्वे कर्मापराधिनः ।। २२७.१५६ ।।

धनोष्मणा पच्यंमानास्तान्निः स्वान्कारयेन्नृपः।
कूटशासनकर्तॄं श्चप्रकृतीनाञ्च दूषकान् ।। २२७.१५७ ।।

स्त्रीबालब्राह्मणघ्नांश्च वध्या द्विट्सेविनस्तथा।
अमात्यः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ।। २२७.१५८ ।।

तस्य सर्वस्वमादाय तं र्जा विप्रवासयेत्।
ब्रह्मघ्नश्च सुरापश्च तस्करो गुरुतल्पगः ।। २२७.१५९ ।।

एतान्सर्वान्पृथक्हिंस्यात्महापातकिनोनरान्।
महापातकिनोबध्याब्राह्मणन्तुविवासयेत् ।। २२७.१६० ।।

कृतचिह्नं स्वदेशाच्च श्रृणु चिह्नाकृतिन्ततः।
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।। २२७.१६१ ।।

स्तेने तु श्वपदन्तद्वद्ब्रह्महण्यशिराः पुमान्।
असम्भाष्याह्यसम्भोज्याअसंवाह्याविशेषतः ।। २२७.१६२ ।।

त्यक्तव्यास्चतथारजन्! ज्ञातिसम्बन्धिबान्धवैः।
महापातकिनोवित्तमादायनृपतिःस्वयम् ।। २२७.१६३ ।।

अप्सुप्रवेशयेद्दण्कडवरुणायोपपादयेत्।
सहोढं कन विना चोरं घातयेद्धार्मिको नृपः ।। २२७.१६४ ।।

सहोढं सोपकरणं घातयेदविचारयन्।
ग्रामेष्वपि च ये केचिच्चोराणां भक्ष्यदायकाः ।। २२७.१६५ ।।

भाण्डावकाशदाश्चैव सर्वांस्तानपिघातयेत्।
राष्ट्रेषु राज्ञाधिकृताः सामन्ताश्चैवदूषकाः ।। २२७.१६६ ।।

अभ्यघातेषु मध्यस्थाः क्षिप्रंशास्यास्तु चोरवत्।
ग्रामघाते मठाभङ्गे पथिमोषाफभिमर्दने ।। २२७.१६७ ।।

शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः।
राज्ञः कोशापहर्तॄंश्चक प्रतिकूलेषु संस्थिताम् ।। २२७.१६८ ।।

अरीणामुपजर्तॄंश्च घातयेद्विविधैर्वधैः।
सन्धिं कृत्वा तु ये चौर्यं रात्रौकुर्वन्ति तस्कराः ।। २२७.१६९ ।।

तेषां छित्वा नृपोहस्तौ तीक्ष्णशूले निवेशयेत्।
तड़ागभेदकं हन्यादप्सु शुद्धवधेन तु ।। २२७.१७० ।।

यस्तु पूर्वंनिविष्टंस्यात्तड़ागस्योदकं हरेत्।
आगमञ्चाप्यपंभिन्द्यात्सदाप्यः पूर्वशासनम् ।। २२७.१७१ ।।

कोष्ठागारायुघागारदेवागारविभेदकान्।
पापान् पापसमाचारान् घातयेच्छीघ्रमेव च ।। २२७.१७२ ।।

समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि।
स हि कार्षापणं दण्ड्यस्तत्त्वमेध्यञ्चशोधयेत ।। २२७.१७३ ।।

अजङ्गमोऽथवा वृद्धो गर्भिणी बाल एव च।
परिभाषणमर्हन्ति न च शोध्यमिति स्थितिः ।। २२७.१७४ ।।

प्रथणं साहसं दण्ड्योयश्च मिथ्या चिकित्सते।
परुषे मध्यमं दण्डमुत्तमञ्च तथोत्तमे ।। २२७.१७५ ।।

छत्रस्य ध्वजयष्टिनां प्रतिमानाञ्च भेदकाः।
प्रतिकुर्युस्ततः सर्वे पञ्चदण्ड्याः शतानि च ।। २२७.१७६ ।।

अदूषितानां द्रव्याणां दूषणे भेदने तथा।
मणीनामपि भेदेन दण्ड्य प्रथमसाहसम् ।। २२७.१७७ ।।

समञ्च विषम़ञ्चैव कुरुते मूल्यतोऽपि वा।
समाप्नुयात्स वै पूर्वं दममध्यममेव च ।। २२७.१७८ ।।

बन्धनानि च सर्वाणि राजमार्गेनिवेशयेत्।
कर्षन्तो यत्र दिश्यन्ते विकृताःपापकारिणः ।। २२७.१७९ ।।

प्राकारस्य च भेत्तरं परिखानाञ्च भेदकम्।
द्वाराणां चैव भेत्तारं क्षिप्रं निर्वासयेत् पुरात् ।। २२७.१८० ।।

मूलकर्माभिचारेषु कर्त्वयो द्विशतोदमः।
अवीजविक्रयी यश्च बीजोत्कर्षक एव च ।। २२७.१८१ ।।

मर्यादाभेदकश्चापि विकृतं बन्धमाप्नुयात्।
सर्वसङ्करपापिष्ठं हेमकारं नराधिप! ।। २२७.१८२ ।।

अन्याये वर्तमानञ्च च्छेदयेल्लवशः क्षुरैः।
द्रव्यमादाय वणिजामनर्घेणावरुन्धताम् ।। २२७.१८३ ।।

द्रव्याणां दूषकोयस्तु प्रतिच्छन्नस्य विक्रयी।
मध्यमं प्राप्नुयाद्दण्डं कूटकर्त्तातथोत्तमम् ।। २२७.१८४ ।।

राजा पृथक् पृथक् कुर्याद्दण्डं चोत्तमसाहसम्।
शास्त्राणां यज्ञतपसां देशानां क्षेपको नरः ।। २२७.१८५ ।।

देवतानां सतीनाञ्च उत्तमं दण्डमर्हति।
एकस्य दण्डपारुष्ये बहूनां द्विगुणोदमः ।। २२७.१८६ ।।

कलहो यद्गतोदाप्यो दण्डश्च द्विगुणस्ततः।
मध्यमं ब्राह्मणं राजा विपयाद्विप्रवासयेत् ।। २२७.१८७ ।।

लशूनञ्च पलाण्डुञ्च शूकरं ग्रामकुक्कुटम्।
तथा पञ्चनखं सर्वं भक्ष्यादन्यत्तु भक्षयेत् ।। २२७.१८८ ।।

विवासयेत् क्षिप्रमेव ब्राह्मणं विषयात् स्वकात्।
अभक्ष्यभक्षणे दण्डयः शूद्रो भवति कृष्णलम् ।। २२७.१८९ ।।

ब्राह्मणक्षत्रियविशां चतुस्त्रिद्विगुणं स्मृतम्।
यःसाहसंकारयति सदण्ड्योद्विगुणन्दमम् ।। २२७.१९० ।।

यस्त्वेवमुक्त्वाऽहन्दाता कारयेत्स चतुर्गुणम्।
सन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः ।। २२७.१९१ ।।

पञ्चाशत्पणिको दण्डस्तत्र कार्यो महीक्षिता।
अस्पृश्यञ्चास्पृशन्नार्य्यो ह्ययोग्योऽयोग्यकर्मकृत् ।। २२७.१९२ ।।

पुंस्त्वहर्त्तापशूनाञ्च दासीगर्भविनाशकृत्।
शूद्रप्रव्रजितानाञ्च दैवे पैत्र्ये च भोजकः ।। २२७.१९३ ।।

अव्रजन् वाढ़मुक्त्वा तु तथैव च निमन्त्रणे।
एते कार्षापणशतं सर्वे दण्ड्या महीक्षिता ।। २२७.१९४ ।।

दुःखोत्पादिगृहे द्रव्यं क्षिपेदन्धस्यकृष्णलम्।
पितापुत्रविरोधेच साक्षिणांद्विशतोदमः ।। २२७.१९५ ।।

तुलाशासनमानानां कूटकृन्नाणकस्य च।
एभिश्च व्यवहर्ता च स दण्ड्यो दममुत्तमम् ।। २२७.१९६ ।।

विषाग्निदाम्पतिगुरुनिजापत्यप्रमापणीम्।
विकर्णनासिकांव्योष्ठीं कृत्वागोभिःप्रमापयेत् ।। २२७.१९७ ।।

खलस्य दाहका येच येच क्षेत्रस्य वेश्मनः।
राजपत्न्यभिगामी च दग्धव्यास्तेकटाग्निना ।। २२७.१९८ ।।

ऊनं वाप्यधिकञ्चापि लिखेद्यो राजशासनम्।
परदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ।। २२७.१९९ ।।

अभक्ष्येण द्विजं दूष्य दण्ड उत्तमसाहसः।
क्षत्रियं मध्यमं वैश्यं प्रथमं शूद्रमर्द्धकम् ।। २२७.२०० ।।

मृताङ्गलग्नविक्रेतुर्गान्तु ताडयतस्तथा।
राजयानासनारोढुर्दण्ड उत्तमसाहसः ।। २२७.२०१ ।।

यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः।
तमायान्तं पुनर्जित्वा दण्डयेद् द्विगुणन्दमम् ।। २२७.२०२ ।।

आह्वानकरो मध्यः स्यादनाह्वाने तथाह्वयन्।
दण्डिकस्य च योहस्तादभियुक्तःपलायते ।। २२७.२०३ ।।

हीनपुरुषकारेण तं दण्ड्याद्दाण्डिकोधनम्।
प्रेष्यापराधात्प्रेष्यस्तु स दण्ड्याश्चार्द्धमेवच ।। २२७.२०४ ।।

दण्डार्थं नियमार्थञ्च नीयमानेषु बन्धनम्।
यदि कश्चित्पलायेत दण्डश्चाष्टगुणो भवेत् ।। २२७.२०५ ।।

अनिन्दिते विवादे तु नखरोमावतारणम्।
कारयेद्य स पुरुषो मध्यमं दण्कडमर्हति ।। २२७.२०६ ।।

बन्धनञ्चाप्यवध्यस्य बलान्मोचयते तु यः।
वन्ध्यं विमोचयेद्यस्तु दण्डदुद्विगुणभाग्भवेत् ।। २२७.२०७ ।।

दुर्दृष्टव्यवहाराणां सभ्यानां द्विगुणोदमः।
राज्ञा त्रिंशद्गुणोदण्डः प्रक्षेप्य उदके भवेत् ।। २२७.२०८ ।।

अल्पदण्डेऽधिकं कुर्याद्विपुले चाल्पमेव च।
ऊनाधिकन्तु तं दण्डं सभ्यो दद्यात् स्वकाद् गृहात् ।। २२७.२०९ ।।

यावानवध्यस्य वधे तावान् वध्यस्य रक्षणे।
अधर्मोनृपतेर्दृष्टस्तथा बध्यस्य मोक्षणे ।। २२७.२१० ।।

ब्राह्मणं नैव हन्यात्तु सर्वपापेष्ववस्थितम्।
प्रवासयेत् स्वकाद्राष्ट्रात्समग्रधनसंयुतम् ।। २२७.२११ ।।

न जातु ब्राह्मणंवध्यात् पातकं त्वधिकं भवेत्।
यस्मात्तस्मात्प्रयत्नेनब्रह्महत्यांविवर्जयेत् ।। २२७.२१२ ।।

अदण्ड्यान्दण्कडयेद्राजादण्ड्यांश्चैववाप्यदण्डयन्।
अयशोमहदाप्नोतिनरकञ्चाधिगच्छति ।। २२७.२१३ ।।

ज्ञात्वापराधं पुरुषस्य राजा कालं तथा चानुमतं द्विजानाम्।
दण्ड्येषु दण्डं परिकल्पयेत्तु यो यस्य युक्तः स समीक्ष्य कुर्यात् ।। २२७.२१४ ।।