मत्स्यपुराणम्/अध्यायः ३१
ययाति चरित्रम्।
शौनक उवाच।
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसन्निभम्।
प्रविश्यान्तः पुरं तत्र देवयानीं न्यवेशयत्।। ३१.१ ।।
देवयान्याश्चानुमते सुतां तां वृषपर्वणः।
अशोकवनिकाभ्यासे गृहं कृत्वा न्यवेशयत्।। ३१.२ ।।
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्।
वासोभिरन्नपानैश्च संभिज्य सुसंवृताम्।। ३१.३ ।।
देवयान्यातु सहितः स नृपो नहुषात्मजः।
विजहार बहूनब्दान् देववन्मुदितो भृशम्।। ३१.४ ।।
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना।
लेभे गर्भं प्रथमतः कुमारश्च व्यजायत।। ३१.५ ।।
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी।
ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा।। ३१.६ ।।
चिन्तयामास दर्म्मज्ञा ऋतु प्राप्तौ च भामिनी।
ऋतुकालश्च संप्राप्तो न कश्चिन् मे पतिर्वृतः।। ३१.७ ।।
किं प्राप्तं किञ्च कर्तव्यं कथं कृत्वा सुखं भवेत्।
देवयानी प्रसूतासौ वृथाऽहं प्राप्तयौवना।। ३१.८ ।।
यथा तथावृतो भर्ता तथैवाहं वृणोमि तम्।
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः।।
अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत्।। ३१.९ ।।
अथनिष्क्रम्य राजाऽसौ तस्मिन् काले यदृच्छया।
अशोकवनिकाभ्यासे शार्मिष्ठां प्राप्य धिष्ठितः।। ३१.१० ।।
तमेकं रहसि द्रृष्ट्वा शर्मिष्ठा चारुहासिनी।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्।। ३१.११ ।।
सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणाश्च वा।
तव वा नाहुषगृहे कः स्त्रियं द्रष्टुमर्हति।। ३१.१२ ।।
रूपाभिजनशीलैर्हि त्वं राजन्! वेत्थ मां सदा।
सा त्त्वां याचे प्रसाद्येऽहरन्तु मे हि नराधिप!।। ३१.१३ ।।
ययातिरुवाच।
वेद्मित्वाशीलसम्पन्नां दैत्य कन्यामनिन्दिताम्।
रूपन्तु ते न पश्यामि सूच्यग्रमपि निन्दितम्।। ३१.१४ ।।
मामब्रवीत्तदा शुक्रो देवयानीं यदावहम्।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी।। ३१.१५ ।।
शर्मिष्ठोवाच।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्नविवाहकाले।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि।। ३१.१६।।
पृष्ठास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्या वचना नरेन्द्र ते।
एकार्थतायान्तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति।। ३१.१७ ।।
ययातिरुवाच।
राजा प्रमाणं भूतानां स विनश्येत् मृषा वदन्।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे।। ३१.१८ ।।
शर्मिष्ठोवाच।
समावेतौ मतौ राजन्। पतिः सख्याश्च यः पतिः।
समं विवाह इत्याहुः सख्यामेऽसि पतिर्यतः।। ३१.१९ ।।
दातव्यं याचमानस्य हीति मे व्रतमाहितम्।
त्वञ्च याचसि कामं मां ब्रूहि किङ्करवाणि तत्।। ३१.२० ।।
शर्मिष्ठोवाच।
अधर्मात् त्राहि मां राजन्! धर्मञ्च प्रतिपादय।
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्।। ३१.२१ ।।
त्रय एवाधना राजन्! भार्या दासस्तथा सुतः।
यत्ते समघिगच्छन्ति यस्य ते तस्य तद्धनम्।। ३१.२२ ।।
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी।
स चाहं च त्वया राजन्! भरणीयां भजस्व माम्।। ३१.२३ ।।
शौनक उवाच।
एव मुक्तस्तया राजा ताड्यमित्यभिजज्ञवान्।
पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयत्।। ३१.२४ ।।
स समागम्य शर्मिष्ठां यथा काममवाप्य च।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम्।। ३१.२५ ।।
तस्मिन् समागमे सुभ्रुः शर्मिष्ठा वार्षपर्वणी।
लेभे गर्भं प्रथमतः तस्मात् नृपति सत्तमात्।। ३१.२६ ।।
प्रजज्ञे च ततः काले राज्ञी राजीवलोचना।
कुमारं देवगर्भाभमादित्यसमतेजसम्।। २१.२७ ।।