मत्स्यपुराणम्/अध्यायः १६२
नरसिंहमाहात्म्यवर्णनम्।
सूत उवाच।
ततो दृष्ट्वा महात्मानं कालचक्रमिवागतम्।
नरसिंह वपुञ्छन्नं भस्मच्छन्नमिवानलम् ।। १६२.१
हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्।
दिव्येन चक्षुषा सिंहमपश्यद्देवमागतम् ।। १६२.२
तं दृष्ट्वा रुक्मशैलाभमपूर्वान्तनुमाश्रितम्।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ।। १६२.३
प्रह्लाद उवाच।
महाबाहो! महाराज! दैत्यानामादिसम्भव।
न श्रुतं न च नो दृष्टं नारसिंहमिदं वपुः ।। १६२.४
अव्यक्तप्रभवन्दिव्यं किमिदं रूपमागतम्।
दैत्यान्तकरणं घोरं संशतीव मनो मम ।। १६२.५
अस्य देवाः शरीरस्थाः सागराः सरितश्च याः।
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ।। १६२.६
चन्द्रमाश्च सनक्षत्रैरादित्यैर्वसुभिः सह।
धनदो वरुणश्चैव यमः शक्रः शचीपतिः ।। १६२.७
मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः।
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ।। १६२.८
ब्रह्मा देवः पशुपतिर्ललाटस्था भ्रमन्ति वै।
स्थावराणि च सर्वाणि जङ्घमानि तथैव च।। १६२.९
भवांश्च सहितोऽस्माभिः सर्वैर्देवगणैर्वृतः।
विमानशतसङ्कीर्णा तथैव भवतः सभा ।। १६२.१०
सर्वं त्रिभुवनं राजन्! लोकधर्माश्च शाश्वताः।
दृश्यन्ते नारसिंहेऽस्मिस्तथेदमखिलं जगत् ।। १६२.११
प्रजापतिश्चात्र मनुर्महात्मा ग्रहश्च योगश्च महीरुहाश्च।
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यञ्च तपो दमश्च ।। १६२.१२
सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे।
क्रोधश्च कामश्च तथैव हर्षो धर्म्मश्च मोहः पितरश्च सर्वे ।। १६२.१३
प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः।
उवाच दानवान् सर्वान् गणांश्च स गणाधिपः ।। १६२.१४
मृगेन्द्रो गृह्यतामेष अपूर्वं सत्वमास्थितः।
यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ।। १६२.१५
ते दानवगणाः सर्वे मृगेन्द्रं भीमविक्रमम्।
परिक्षिपन्तो मुदिता त्रासयामासु रोजसा ।। १६२.१६
सिंहनादं विमुच्याथ नरसिंहो महाबलः।
बभञ्ज तां सभां सर्वां व्यादितास्य इवान्तकः १६२.१७
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्।
चिक्षेप शस्त्राणि सिंहस्य रोषाद्व्याकुललोचनः ।। १६२.१८
सर्वास्त्राणामथ ज्येष्ठं दण्डमस्त्रं सुदारुणम्।
कालचक्रं तथा घोरं विष्णुचक्रं तथा परम् ।। १६२.१९
पैतामहं तथात्युग्रं त्रैलोक्य दहनं महत्।
विचित्रामशीनीञ्चैव शुष्कार्द्रं चाशनिद्वयम् ।। १६२.२०
रौद्रं तथोग्रं शूलञ्च कङ्कालं मुसलं तथा।
मोहनं शोषणं चैव सन्तापन विलापनम् ।। १६२.२१
वायव्यं मथनं चैव कापालमथ कैङ्करम्।
तथा प्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च ।। १६२.२२
अस्त्रं ब्रह्मशिरश्चैव सोमास्त्रं शिशिरं तथा।
कम्पनं शतनञ्चैव त्वाष्ट्रञ्चैव सुभैरवम्।। १६२.२३
कालमुद्गरमक्षोभ्यं तपनञ्च महाबलम्।
संवर्तनं मादनञ्च तथा मायाधरं परम् ।। १६२.२४
गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम्।
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्।
अस्त्रं पाशुपतञ्चैव यस्याप्रतिहता गतिः ।। १६२.२५
अस्त्रं हयशिरश्चैव ब्राह्ममस्त्रं तथैव च।
नारायणास्त्रमैन्द्रञ्च सार्पमस्त्रं तथाद्भुतम् ।। १६२.२६
पैशाचमस्त्रमजितं शोषदं शामनं तथा।
महाबलं भावनं च प्रस्थापनविकम्पने ।। १६२.२७
एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा।
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ।। १६२.२८
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमाः।
विवस्वान् धर्म्मसमये हिमवन्तमिवांशुभिः ।। १६२.२९
स ह्यमर्षानिलोद्धूतो दैत्यानां सैन्यसागरः।
क्षणेन प्लावयामास मैनाकमिव सागरः ।। १६२.३०
प्रासैः पाशैश्च खङ्गैश्च गदाभिर्मुसलैस्तथा।
वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः ।। १६२.३१
मुद्गरैर्भिन्दिपालैश्च शिलोलूखल पर्वतै।
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ।। १६२.३२
ते दानवाः पाशगृहीतहस्ता महेन्द्र तुल्याशनि वज्रवेगाः।
समन्ततोऽभ्युद्यत-बाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः ।। १६२.३३
सुवर्णमालाकुलभूषिताङ्गाः पीतांशुका भोगविभाविताङ्गाः।
मुक्तावली दाम सनाथ कक्षा हंसा इवा भान्ति विशालपक्षाः ।। १६२.३४
तेषां तु वायुप्रतिमौजसां वै केयूर मौली वलयोत्कटानाम्।
तान्युत्तमाङ्गान्यभितो विभान्ति प्रभात सूर्यांशु समप्रभाणि ।। १६२.३५
क्षिपद्भिरुग्रैर्ज्वलितैर्महाबलैर्महास्त्रपूगैः सुसमावृतो बभौ।
गिरिर्यथा सन्ततवर्षिभिर्घनैः कृतान्धकारान्तर कन्दरो द्रुमैः ।। १६२.३६
तैर्हन्यमानोऽपि महास्त्रजालैर्महाबलैर्दैत्यगणैः समेतैः।
नाकम्पताजौ भगवान् प्रताप स्थितप्रकृत्या हिमवानिवाचलः ।। १६२.३७
सन्त्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावक तुल्य तेजसा।
भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागर वारि सम्भवाः ।। १६२.३८