मत्स्यपुराणम्/अध्यायः २८६
महाकल्पलताख्यमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः सप्रवक्ष्यामि महादानमनुत्तमम्।
महाकल्पलता नाम महापातकनाशनम् ।। २८६.१
पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मण वाचनम्।
ऋत्विग्मण्डपसम्भार-भूषणाच्छादनादिकम् ।। २८६.२
तुला पुरुषवत् कुर्यात् लोकेशावाहनं बुधः।
चामीकरमयीः कुर्याद्दशकल्पलताः समाः ।। २८६.३
नानापुष्पफलोपेता नानांशुक विभूषिताः।
विद्याधरसुपर्णानां मिथुनैरुपशोभिताः ।। २८६.४
हारानादित्सुभिः सिद्धैः फलानि च विहङ्गमै।
लोकपालानुकारिण्यः कर्तव्यास्तासु देवताः ।। २८६.५
ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत्।
अधस्ताल्लतयोर्मध्ये पद्मशङ्खकरे शुभे ।। २८६.६
इभासनस्था तु गुड़े पूर्वतः कुलिशायुधा।
रजनी संस्थिताग्नायी श्रुवपाणिरथानले ।। २८६.७
याम्ये च महिषारूढा गदिनी तण्डुलोपरि।
घृते तु नैर्ऋती स्थाप्या सखङ्गा दक्षिणापरे ।। २८६.८
वारुणे वारुणी क्षीरे झषस्था नागपाशिनी।
पताकिनी च वायव्ये मृगस्था शर्करोपरि ।। २८६.९
सौम्या तिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता।
माहेश्वरी वृषारूढा नवनीते त्रिशूलिनी ।। २८६.१०
मौलिन्यो वरदा तद्वत् कर्तव्या बालकान्विताः।
शक्त्या पञ्चपलादूर्ध्वमासहस्रात् प्रकल्पयेत् ।। २८६.११
सर्वासामुपरि स्थाप्यं पञ्चवर्णं वितानकम्।
धेनवो दशकुम्भाश्च वस्त्रयुग्मानि चैव हि ।। २८६.१२
मध्यमे द्वे तु गुरवे ऋत्विग्भ्योऽन्यास्तथैव च।
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः ।। २८६.१३
नमो नमः पापविनाशिनीभ्यो ब्रह्माण्डलोकेश्वरपालिनीभ्यः।
आशंसिताधिक्य फलप्रदाभ्यो दिग्भ्यस्तथा कल्पलतावधूभ्यः ।। २८६.१४
इति सकलदिगङ्गना प्रदानं भवभयसूदनकारि यः करोति।
अभिमतफलदे स नागलोके वसति पितामहवत्सराणि त्रिंशत् ।। २८६.१५
पितृशतमथ तारयेद् भवाब्धेर्भवदुरितौघ विघात शुद्ध देहः।
सुर पति वनिता सहस्र संख्यैः परिवृतमम्बुज संसदाभिवन्द्यः ।। २८६.१६
इति विधानमिदं दिगङ्गनानां कनककल्पलता-विनिवेदकम्।
पठति यः स्मरतीह तथेक्षते स पदमेति पुरन्दरसेवितम् ।। २८६.१७