मत्स्यपुराणम्/अध्यायः २७६
ब्रह्माण्डमहादानविधिवर्णनम्।
मत्स्य उवाच।
अथातः सम्प्रवक्ष्यामि ब्रह्माण्डविधिमुत्तमम्।
यच्छ्रेष्ठं सर्वदानानां महापातकनाशनम् ।। २७६.१
पुण्यं दिनमथासाद्य तुला पुरुष दानवत्।
ऋत्विग्मण्डपसम्भार भूषणाच्छादनादिकम् ।। २७६.२
लोकेशावाहनं कुर्य्यादधिवासनकं तथा।
कुर्य्याद्विंशपलादूर्ध्वमासहस्राच्च शक्तितः ।। २७६.३
कलशद्वयसंयुक्तं ब्रह्माण्डं काञ्चनं बुधः।
दिग्गजाष्टकसंयुक्तं षड्वेदाङ्ग समन्वितम् ।। २७६.४
लोकपालाष्टकोपेतं मध्यस्थित चतुर्मुखम्।
शिवाच्युतार्कशिखरमुमा लक्ष्मी समन्वितम् ।। २७६.५
वस्वादित्यमरुद्गर्भं महारत्नसमन्वितम्।
वितस्तेरं गुलशतं यावदायाम विस्तरम् ।। २७६.६
कौशेयवस्त्रसम्वीतं तिलद्रोणोपरि न्यसेत्।
तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ।। २७६.७
पूर्वेणानन्तशयनं प्रद्युम्नं पूर्वदक्षिणे।
प्रकृतिं दक्षिणे देशे सङ्कर्षणमतः परम् ।। २७६.८
पश्चिमे चतुरो वेदाननिरुद्धमतः परम्।
अग्निमुत्तरतो हैमं वासुदेवमतः परम् ।। २७६.९
समन्ताद् गुड़पीठस्थानर्चयेत् काञ्चनान् बुधः।
स्थापयेद्वस्त्रसम्वीतान् पूर्णकुम्भान् दशैव तु ।। २७६.१०
दशैव धेनवो देयाः सहैवाम्बरदोहनाः।
पादुकोपानहच्छत्र चामरासनदर्पणैः।
भक्ष्यभोज्यान्नदी पेक्षु फलमाल्यानुलेपनैः ।। २७६.११
होमाधिवासनान्ते च स्नापितो वेदपुङ्गवैः।
इममुच्चारयेन्मन्त्रं त्रिः कृत्वाथ प्रदक्षिणम् ।। २७६.१२
नमोऽस्तु विश्वेश्वर! विश्वधाम! जगत्सवित्रे भगवन्नमस्ते।
सप्तर्षिलोकामरभूतलेश! गर्भेण सार्धं वितराभिरक्षाम् ।। २७६.१३
ये दुःखितास्ते सुखिनो भवन्तु प्रयान्तु पापानि चराचराणाम्।
त्वद्दानशस्त्राहतपातकानां ब्रह्माण्डदोषः प्रलयं व्रजन्तु ।। २७६.१४
एवं प्रणम्यामरविश्वगर्भं दद्याद् द्विजेभ्यो दशधा विभज्य।
भागद्वयं तत्र गुरो प्रकल्प्य समं भजेच्छेषमनुक्रमेण ।। २७६.१५
स्वल्पे च होमं गुरुरेक एव कुर्य्यादथैकाग्निविधानयुक्त्या।
स एव सम्पूज्यतमोऽल्पवित्ते यतोक्तवस्त्राभरणादिकेन ।। २७६.१६
इत्थं य एतदखिलं पुरुषोऽत्र कुर्य्याद् ब्रह्माण्डदानमधिगम्य महद्विमानम्।
निर्धूतकल्मषविशुद्धतनुर्मुरारे रानन्दकृत्पदमुपैति सहाप्सरोभिः ।। २७६.१७
सन्तारयेत् पितृपितामहपुत्रपौत्र बन्धुप्रियातिथि कलत्र शताष्टकं सः।
ब्रह्माण्डदानशकलीकृतपातकौघमानन्दयेच्च जननीकुलमप्यशेषम् ।। २७६.१८
इति पठति श्रुणोति वा य एतत् सुरभवनेषु गृहेषु धार्मिकाणाम्।
मतिमपि च ददाति मोदतेऽसावमरपतेर्भवने सहाप्सरोभिः ।। २७६.१९