मत्स्यपुराणम्/अध्यायः २६०
देवाकारप्रमाणवर्णनम्।
सूत उवाच।
अधुना सम्प्रवक्ष्यामि अर्धनारीश्वरं परम्।
अर्धेन देवदेवस्य नारीरूपं सुशोभनम्।। २६०.१
ईशार्धे तु जटाभागो बालेन्दुकलयायुतः।
उमार्धेचापि दातव्यौ सीमन्ततिलकावुभौ ।। २६०.२
वासुकिर्दक्षिणे कर्णे वामे कुण्डलमादिशेत्।
बालिका चोपरिष्टात्तु कपालं दक्षिणे करे ।। २६०.३
त्रिशूलं वापि कर्तव्यं देवदेवस्य शूलिनः।
वामतो दर्पणं दद्यादुत्पलन्तु विशेषतः ।। २६०.४ ।
वामबाहुश्च कर्तव्यः केयूरवलयान्वितः।
उपवीतञ्च कर्तव्यं मणिमुक्तामयन्तथा ।। २६०.५
स्तनभारं तथार्धे तु वामे पीनं प्रकल्पयेत्।
परार्घ्यमुज्वलं कुर्य्याच्छ्रोण्यर्धे तु तथैव च ।। २६०.६
लिङ्गार्द्धमूर्ध्वगं कुर्य्यात् व्यालाजिनकृताम्बरम्।
वामे लम्बपरीधानं कटिसूत्र त्रयान्वितम् ।। २६०.७
नानारत्नसमोपेतं दक्षिणे भुजगान्वितम्।
देवस्य दक्षिणं पादं पद्मोपरि सुसंस्थितम् ।। २६०.८
कञ्चिदर्धे तथा वामं भूषितं नूपुरेण तु।
रत्नैर्विभूषितान् कुर्य्यादङ्गुलीष्वङ्गुलीयकान् ।। २६०.९
सालक्तकं तथा पादं पार्वत्या दर्शयेत्सदा।
अर्धनारिश्वरस्येदं रूपमस्मिन्नुदाहृतम् ।। २६०.१०
उमामहेश्वरस्यापि लक्षणं श्रृणु तद्विजाः।
संस्थानन्तु तयोर्वक्ष्ये लीलाललित-विभ्रमम् ।। २६०.११
चतुर्भुजं द्विबाहुं वा जटाभारेन्दुभूषणम्।
लोचनत्रयसंयुक्तमुमैकस्कन्धपाणिनम् ।। २६०.१२
दक्षिणेनोत्पलं शूलं वामेकुचभरेकरम्।
द्वीपिचर्मपरीधानं नानारत्नोपशोभितम् ।। २६०.१३
सुप्रतिष्ठं सुवेषञ्च तथार्धेन्दुकृताननाम्।
वामे तु संस्थिता देवी तस्योरौ बाहुगूहिता ।। २६०.१४
शिरोभूषणसंयुक्तैरलकैर्ललितानना।
सवालिका कर्णवती ललाटतिलकोज्वला ।। २६०.१५
मणिकुण्डलसंयुक्ता कर्णिकाभरणा क्वचित्।
हारकेयूर बहुला हरवक्त्रावलोकिनी ।। २६०.१६
वामांसन् देवदेवस्य स्पृशन्ती लीलया ततः।
दक्षिणान्तु बहिः कृत्वा बाहुं दक्षिणतस्तथा ।। २६०.१७
स्कन्धं वा दक्षिणे कुक्षौ स्पृशन्त्यङ्गुलजैः क्वचित्।
वामे तु दर्पणं दद्यादुत्पलं वा सुशोभनम् ।। २६०.१८
कटिसूत्र त्रयं चैव नितम्बे स्यात्प्रलम्बकम्।
जया च विजया चैव कार्तिकेयविनायकौ ।। २६०.१९
पार्श्वयोर्द्दर्शयेत्तत्र तोरणे गणगुह्यकान्।
माला विद्याधरास्तद्वत् वीणावानप्सरोगणः ।। २६०.२०
एतद्रूपमुमेशस्य कर्तव्यं भूतिमिच्छता।
शिवनारायणं वक्ष्ये सर्वपापप्रणाशनम् ।। २६०.२१
वामार्धे माधवं विद्याद् दक्षिणे शूलपाणिनम्।
बाहुद्वयञ्च कृष्णस्य मणिकेयूरभूषितम् ।। २६०.२२
शङ्खचक्रधरं शान्तमारक्तांगुलिविभ्रमम्।
चक्रस्थाने गदां वापि पाणौ दद्याद् गदाभृतः ।। २६०.२३
शङ्खञ्चैवेतरे दद्यात् कट्यर्थं भूषणोज्वलम्।
पीतवस्त्रपरीधानं चरणं मणिभूषणम् ।। २६०.२४
दक्षिणार्धे जटाभारमर्धेन्दुकृतभूषणम्।
भुजङ्गहारवलयं वरदं दक्षिणं करम् ।। २६०.२५
द्वितीयञ्चापि कुर्वीत त्रिशूलवरधारिणम्।
व्यालोपवीतसंयुक्तं कट्यर्धं कृत्तिवाससम् ।। २६०.२६
मणिरत्नैश्च संयुक्तं पादं नागविभूषितम्।
शिवनारायणस्यैवं कल्पयेद्रूपमुत्तमम् ।। २६०.२७
महावराहं वक्ष्यामि पद्महस्तं गदाधरम्।
तीक्ष्णदंष्ट्राग्र घोणास्यं मेदिनीवामकूर्परम् ।। २६०.२८
दंष्ट्राग्रेणोद्धृतां दान्तां धरणीमुत्पलान्विताम्।
विस्मयोत्फुल्लवदनामुपरिष्टात्प्रकल्पयेत् ।। २६०.२९
दक्षिणं कटिसंस्थन्तु करं तस्याः प्रकल्पयेत्।
कूर्मोपरि तथा पादमेकं नागेन्द्रमूर्धनि ।। २६०.३०
संस्तूयमानं लोकेशैः समन्तात्परिकल्पयेत्।
नारसिंहन्तु कर्तव्यं भुजाष्टकसमन्वितम् ।। २६०.३१
रौद्रं सिंहासनं तद्वत् विदारितमुखेक्षणम्।
स्तब्धपीन सटाकर्णं दारयन्तन्दितेः सुतम् ।। २६०.३२
विनिर्गतान्त्रजालञ्च दानवं परिकल्पयेत्।
वमन्तं रुधिरं घोरं भ्रुकुटीवदनेक्षणम् ।। २६०.३३
युध्यमानश्च कर्तव्यः क्वचित्करणबन्धनैः।
परिश्रान्तेन दैत्येन तर्ज्यमानो मुहुर्मुहुः ।। २६०.३४
दैत्यं प्रदर्शयेत्तत्र खड्गखेटकधारिणम्।
स्तूयमानं तथा विष्णुं दर्शयेदमरादिपैः ।। २६०.३५
तथा त्रिविक्रमं वक्ष्ये ब्रह्माण्डक्रमणोल्बणम्।
पादपार्श्वे तथा बाहुमुपरिष्टात् प्रकल्पयेत् ।। २६०.३६
अधस्ताद्वामनं तद्वत्कल्पयेत्सकमण्डलुम्।
दक्षिणे छत्रिकां दद्यान्मुखं दीनं प्रकल्पयेत् । २६०.३७
भृङ्गारधारिणं तद्वद् बलिं तस्य च पार्श्वतः।
बन्धनञ्चास्य कुर्वन्तं गरुडन्तस्य दर्शयेत् ।। २६०.३८
मत्स्यरूपं तथा मात्स्यं कूर्मं कूर्माकृतिं न्यसेत्।
एवं रूपस्तु भगवान् कार्यो नारायणो हरिः ।। २६०.३९
ब्रह्मा कमण्डलुधरः कर्तव्यः स चतुर्मुखः।
हंसारूढः क्वचित्कार्य्यः क्वचिच्च कमलासनः ।। २६०.४०
वर्णतः पद्मगर्भाभ श्चतुर्बाहुः शुभेक्षणः।
कमण्डलुं वामकरे स्रुवं हस्ते तु दक्षिणे ।। २६०.४१
वामेदण्डधरं तद्वत् स्तुवञ्चापि प्रदर्शयेत्।
मुनिभिर्देवगन्धर्वैः स्तूयमानं समन्ततः ।। २६०.४२
कुर्वाणमिव लोकांस्त्रीन् शुक्लाम्बरधरं विभुम्।
मृगचर्मधरञ्चापि दिव्ययज्ञोपवीतिनम् ।। २६०.४३
आज्यस्थालिं न्यसेत्पार्श्वे वेदांश्च चतुरः पुनः।
वामपार्श्वेऽस्य सावित्रीं दक्षिणे च सरस्वतीम् ।। २६०.४४
अग्रे च ऋषयस्तद्वत्कार्य्याः पैतामहे पदे।
कार्तिकेयं प्रवक्ष्यामि तरुणादित्यसप्रभम् ।। २६०.४५
कमलोदरवर्णाभं कुमारं सुकुमारकम्।
दण्डकैश्चीरकैर्युक्तं मयूरवरवाहनम् ।। २६०.४६
स्थापयेत्स्वेष्टनगरे भुजान् द्वादश कारयेत्।
चतुर्भुजः खर्वटे स्याद्वने ग्रामे द्विबाहुकः ।। २६०.४७
शक्तिः पाशस्तथा खड्गः शरः शूलं तथैव च।
वरदश्चैकहस्तः स्यादथचाभयदो भवेत् ।। २६०.४८
एते दक्षिणतो ज्ञेयाः केयूरकटकोज्वलाः।
धनुः पताकामुष्टिश्च तर्जनी तु प्रसारिता ।। २६०.४९
खेटकं ताम्रचूडञ्च वामहस्ते तु शस्यते।
द्विभुजस्य करे शक्तिर्वामे स्यात् कुक्कुटोपरि ।। २६०.५०
चतुर्भुजे शक्तिपाशो वामतो दक्षिणे त्वसिः।
वरदोभयदो वापि दक्षिणः स्यात्तुरीयकः ।। २६०.५१
विनायकं प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम्।
लम्बोदरं शूर्पकर्णं व्यालयज्ञोपवीतिनम् ।। २६०.५२
ध्वस्तकर्णं बृहत्तुण्डमेकदंष्ट्रं पृथूदरम्।
स्वदन्तं दक्षिणकरे उत्पलञ्चापरे तथा ।। २६०.५३
मोदकं परशुञ्चैव वामतः परिकल्पयेत्।
बृहत्वात् क्षिप्तवदनं पीनस्कन्धाङ्घ्रिपाणिकम्।। २६०.५४
युक्तन्तु ऋद्धिबुद्धिभ्यामधस्तान्मूषकान्वितम्।
कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजं तथा ।। २६०.५५
त्रयाणामपि देवानामनुकारानुकारिणीम्।
जटाजूटसमायुक्तामर्द्धेन्दुकृतलक्षणाम् ।। २६०.५६
लोचनत्रयसम्पन्नां पद्मेन्दुसदृशाननाम्।
अतसी पुष्पसङ्काशां सुप्रतिष्ठां सुलोचनाम् ।। २६०.५७
नव यौवनसम्पन्नां सर्वाभरणभूषिताम्।
सुचारुदशनान्तद्वत् पीनोन्नतपयोधराम् ।। २६०.५८
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम्।
त्रिशूलं दक्षिणे दद्यात् शङ्खं चक्रं तथैव च ।। २६०.५९
तीक्ष्णं बाणं तथा शक्तिं वामतोऽपि निबोधत।
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ।। २६०.६०
घण्टां वा परशुञ्चापि वामतः सन्निवेशयेत्।
अधस्तान्महिषन्तद्वद्विशिरस्कं प्रदर्शयेत् ।। २६०.६२
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम्।
वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् ।। २६०.६३
देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम्।
किञ्चिदूर्ध्वं तथा वाममंगुष्ठं महिषोपरि ।। २६०.६४
स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् ।
इदानीं सुरराजस्य रूपं वक्ष्ये विशेषतः ।। २६०.६५
सहस्रनयनं देवं मत्तवारणसंस्थितम्।
पृथूरुवक्षोवदनं सिंहस्कन्धं महाभुजम् ।। २६०.६६
किरीटकुण्डलधरं पीवरोरुभुजेक्षणम्।
वज्रोत्पलधरं तद्वन्नानाभरणभूषितम् ।। २६०.६७
पूजितं देवगन्धर्वैरप्सरोगणसेवितम्।
छत्रचामरधारिण्यः स्त्रियः पार्श्वे प्रदर्शयेत् ।। २६०.६८
सिंहासनगतञ्चापि गन्धर्वगणसंयुतम्।
इन्द्राणीं वामतश्चास्य कुर्य्यादुत्पलधारिणीम् ।। २६०.६९