मत्स्यपुराणम्/अध्यायः २३७
शान्तिविधानवर्णनम्।
गर्ग उवाच।
प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः।
अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः ।। २३७.१ ।।
स्थलजाश्च जलं यान्ति घोरं वाशन्ति निर्भयाः।
राजद्वारे पुरद्वारे शिवा चाप्यशिवप्रदा ।। २३७.२ ।।
दिवारात्रिञ्चरावापि रात्रावपि दिवाचराः।
ग्राम्यास्त्यजन्ति ग्रामञ्च शून्यतां तस्य निर्दिशेत् ।। २३७.३ ।।
दीप्तावाशन्ति सन्ध्यासु मण्डलानि च कुर्वते।
वाशन्ति विस्वरं यत्र तदाप्येतत् फलं लभेत् ।। २३७.४ ।।
प्रदोषे कुक्कुटो वाशेद् धेमन्ते वापि कोकिलः।
अर्कोदये त्वभिमुखी शिवा रौति भयं वदेत् ।। २३७.५ ।।
गृहं कपोतः प्रविशेत् क्रव्यादो मूर्ध्नि लीयते।
मधुवा मक्षिकाः कुर्युर्मृत्युर्गृहपतेर्भवेत् ।। २३७.६ ।।
प्राकारद्वारगेहेषु तोरणापणवीथिषु।
केतुच्छत्रायुधाद्येषु क्रव्यादं प्रपतेद्यदि ।। २३७.७ ।।
जायन्ते वाथ वल्मीका मधु वा स्यन्दते यदि।
सदेशो नाशमायाति राजा च म्रियते तथा ।। २३७.८ ।।
मूषकान् शलभान् दृष्ट्वा प्रभूतं क्षुद् भयं भवेत्।
काष्ठोल्मुकास्थिश्रृङ्गाढ्याः श्वानो मर्कटवेदनाः ।। २३७.९ ।।
दुर्भिक्षवेदना ज्ञेया काकाधान्यमुखा यदि।
जनानभिभवन्तीह निर्भया रणवेदिनः ।। २३७.१० ।।
काको मैथुनसक्तश्च श्वेतस्तु यदि दृश्यते।
राजा वा म्रियते तत्र स च देशो विनश्यति ।। २३७.११ ।।
उलूको दृश्यते यत्र नृपद्वारे तथा गृहे ।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ।। २३७.१२ ।।
मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम्।
देवा कपोता इति वा जप्तव्याः पञ्चभिर्द्विजैः ।। २३७.१३ ।।
गावश्च देया विधिवद् द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः।
एवं कृते शान्तिमुपैति पापं मृगैर्द्विजैर्वा विनिवेदितं यत् ।। २३७.१४ ।।