सामग्री पर जाएँ

मत्स्यपुराणम्/अध्यायः १९१

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 








नर्मदामाहात्म्ये नानाविधतीर्थमाहात्म्यवर्णनम्।

मार्कण्डेय उवाच।
तदा प्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः।
सेवन्ते नर्म्मदां राजन्! रागक्रोधविवर्जिताः ।। १९१.१

युधिष्ठिर उवाच।
कस्मिन्निपतितं शूलं देवस्य तु महीतले।
तत्र पुण्यं समाख्याहि यथावत् मुनिसत्तम्! ।। १९१.२

मार्कण्डेय उवाच।
शूलभेदेऽति विख्यातं तीर्थंपुण्यतमं महत्।
तत्र स्नात्वाऽर्चयेद्देवं गोसहस्रफलं लभेत् ।। १९१.३

त्रिरात्रं कारयेद्यस्तु तस्मिंस्तीर्थे नराधिप!।
अर्चयित्वा महादेवं पुनर्जन्म न विद्यते ।। १९१.४

भीमेश्वरं ततो गच्छेन्नारदेश्वरमुत्तमम्।
आदित्येशं महापुण्यं तथाघृत मधुस्रवम् ।। १९१.५

नन्दिकेशं परिष्वज्य पर्याप्तं जन्मनः फलम्।
वरुणेशं ततः पश्येत् स्वतन्त्रेश्वरमेव च ।।
सर्वतीर्थफलं तस्य पञ्चायतन दर्शनात् ।। १९१.६

ततो गच्छेत्तु राजेन्द्र! युद्धं यत्र सुसाधितम्।
कोटितीर्थन्तु विख्यातमसुरा यत्र मोहिताः ।। १९१.७

यत्रैव निहता राजन्! दानवा बलदर्पिताः।
तेषां शिरांस्यगृह्णन्त सर्वे देवाः समागताः ।। १९१.८

तैस्तु संस्थापितो देवः शूलपाणिर्वृषध्वजः।
कोटिर्विनिहता तत्र तेन कोटीश्वरः स्मृतः ।। १९१.९

दर्शनात्तस्य तीर्थस्य सदेहः स्वर्गमारुहेत्।
यदा त्विन्द्रेण क्षुद्रत्वात् वज्रङ्कीलेन यन्त्रितम् ।। १९१.१०

तदा प्रभृति लोकानां स्वर्गमार्गो निवारितः।
सघृतं श्रीफलं जग्ध्वा कृत्वा चैष प्रदक्षिणम् ।। १९१.११

पार्वतं सहदीपन्तु शिरसा चैव धारयेत्।
सर्वकामसुसम्पन्नो राजा भवति पाण्डव? ।। १९१.१२

मृतो रुद्रत्वमाप्नोति ततोऽसौ जायते पुनः।
स्वर्गादेत्य भवेद्राजा राज्यं कृत्वा दिवं व्रजेत् ।। १९१.१३

बहुनेत्रं ततः पश्येत् त्रयोदश्यान्तु मानवः।
स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् ।। १९१.१४

ततो गच्छेत्तु राजेन्द्र! तीर्थं परमशोभनम्।
नराणां पापनाशाय ह्यगस्त्येश्वरमुत्तमम् ।। १९१.१५

तत्र स्नात्वा नरो राजन्! ब्रह्मलोके महीयते।
कार्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।। १९१.१६

घृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः।
एकविंशकुलोपेतो न च्यवेदैश्वरात् पुरात् ।। १९१.१७

धेनुमुपाहनच्छत्रे दद्याच्च घृतकम्बलम्।
भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेत् ।। १९१.१८

ततो गच्छेच्च राजेन्द्र! वलाकेश्वरमुत्तमम्।
तत्र स्नात्वा नरो राजन्! सिंहासनपतिर्भवेत् ।। १९१.१९

नर्मदा दक्षिणे कूले तीर्थं शक्रस्य विश्रुतम्।
उपोष्य रजनीमेकां स्नानं तत्र समाचरेत् ।। १९१.२०

स्नानं कृत्वा यथान्यायमर्चयेच्च जनार्दनम्।
गोसहस्रफलं तस्य विष्णुलोकं स गच्छति ।। १९१.२१

ऋषितीर्थं ततो गच्छेत् सर्वपापहरं नृणाम्।
स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ।। १९१.२२

देवतीर्थं ततो गच्छेद् ब्रह्मणा निर्मितं पुरा।
तत्र स्नात्वा नरो राजन्! ब्रह्मलोके महीयते ।। १९१.२३

अमरकण्टकं गच्छेदमरैः स्थापितं पुरा।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।। १९१.२४

ततो गच्छेच्च राजेन्द्र! रावणेश्वरमुत्तमम्।
तत् पञ्चायतनं दृष्ट्वा मुच्यते ब्रह्महत्यया ।। १९१.२५

ऋणतीर्थं ततो गच्छेदृणेभ्यो मुच्यते ध्रुवम्।
वदेश्वरं ततो दृष्ट्वा पर्याप्तं जन्मनः फलम् ।। १९१.२६

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम्।
स्नातमात्रो नरो राजन्! सर्वदुःखैः प्रमुच्यते ।। १९१.२७

ततो गच्छेत्तु राजेन्द्रु! तुरा सङ्गममुत्तमम्।
तत्र स्नात्वा महादेवमर्चयन्सिद्धिमाप्नुयात् ।। १९१.२८

सोमतीर्थं ततो गच्छेत् पश्येच्चन्द्रमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! भक्त्या परमया युतः ।। १९१.२९

तत्क्षणाद्दिव्यदेहस्थः शिववन्मोदते चिरम्।
षष्टिवर्षसहस्राणि रुद्रलोके महीयते ।। १९१.३०

ततो गच्छेत्तु राजेन्द्र! पिङ्गलेश्वरमुत्तमम्।
अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ।। १९१.३१

तस्मिंस्तीर्थे तु राजेन्द्र! कपिलां यः प्रयच्छति।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।। १९१.३२

तावद्वर्षसहस्राणि रुद्रलोके महीयते।
यस्तु प्राणपरित्यागं कुर्यात्तत्र नराधिप! ।। १९१.३३

अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ।
नर्मदा तटमाश्रित्य तिष्ठेयुर्यत्र मानवाः ।। १९१.३४

ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा।
सुरेश्वरं ततो गच्छेन्नाम्ना कर्कोटकेश्वरम् ।। १९१.३५

गङ्गावतरते तत्र दिने पुण्ये न संशयः।
नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।। १९१.३६

तुष्यते तस्य नन्दीशः सोमलोके महीयते।
ततो दीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ।। १९१.३७

निवर्तिता पुरा तत्र व्यासभीता महानदी।
हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ।। १९१.३८

प्रदक्षिणं तु यः कुर्यात् तस्मिन् तीर्थे नराधिप।
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।। १९१.३९

व्यासस्तस्य भवेत् प्रीतः प्राप्नुयादीप्सितं फलम्।
सूत्रेण वेष्टयित्वा तु दीपो देयः सवेदिकः ।। १९१.४०

क्रीडन्ति ह्यक्षयं कालं यथा रुद्रस्तथैव च।
ततो गच्छेच्च राजेन्द्र! ऐरण्डी तीर्थमुत्तमम् ।। १९१.४१

सङ्गमे तु नरः स्नात्वा मुच्यते सर्वपातकैः।
ऐरण्डी त्रिषु लोकेषु विख्याता पापनाशिनी ।। १९१.४२

अथवाश्वयुजे मासि शुक्लपक्षे तु चाष्टमी।
शुचिर्भूत्वा नरः। स्नात्वा सोपवासपरायणः ।। १९१.४३

ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता।
मृत्तिकां शिरसि स्थाप्य ह्यवगाह्य च वै जलम् ।। १९१.४४

नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः।
प्रदक्षिणं तु यः कुर्यात् तस्मिन् तीर्थे नराधिप ।। १९१.४५

प्रदक्षणीकृता तेन सप्तद्वीपा वसुन्धरा।
ततः सुवर्णसलिले स्नात्वा दत्त्वा तु काञ्चनम् ।। १९१.४६

काञ्चनेन विमानेन रुद्रलोके महीयते।
ततः स्वर्गाच्च्युतः कालाद्राजा भवति वीर्यवान् ।। १९१.४७

ततो गच्छेच्च राजेन्द्र! हीक्षुनद्यास्तु सङ्गमम्।
त्रैलोक्यविश्रुतं दिव्यं तत्र सन्निहितः शिवः ।। १९१.४८

तत्र स्नात्वा नरो राजन्! गाणपत्यमवाप्नुयात्।
स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।। १९१.४९

तत्तीर्थं त्रिविधं पापं स्नानमात्राद्व्यपोहति।
लिङ्गसारं ततो गच्छेत् स्नानं तत्र समाचरेत् ।। १९१.५०

गोसहस्रफलं तस्य रुद्रलोके महीयते।
भङ्गतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।। १९१.५१

तत्र गत्वा तु राजेन्द्र! स्नानं तत्र समाचरेत्।
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ।। १९१.५२

वटेश्वरं ततो गच्छेत् सर्वतीर्थमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! गोसहस्रफलं लभेत् ।। १९१.५३

सङ्गमेशन्ततो गच्छेत् सर्वदेवनमस्कृतम्।
स्नानमात्रान्नरस्तत्र चेन्द्रत्वं लभेत् ध्रुवम्।। १९१.५४

कोटितीर्थं ततो गच्छेत् सर्वपापहरं परम्।
तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः ।। १९१.५५

तत्र तीर्थं समासाद्य दत्त्वा दानं तु यो नरः।
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ।। १९१.५६

अथ नरी भवेत् काचित् तत्र स्नानं समाचरेत्।
गौरीतुल्या भवेत् सापि त्विन्द्रपत्नी न संशयः ।। १९१.५७

अङ्गारेशं ततो गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।। १९१.५८

अङ्गारक चतुर्थ्यान्तु स्नानं तत्र समाचरेत्।
अक्षयं मोदते कालं शुचिः प्रयतमानसः ।। १९१.५९

अयोनिसम्भवे स्नात्वा न पश्येद्योनिसङ्कटम्।
पाण्डवेशन्तु तत्रैव स्नानं तत्र समाचरेत् ।। १९१.६०

अक्षयं मोदते कालमबध्यैस्त्रिदशैरपि।
विष्णुलोकं ततो गत्वा क्रीडते भोगसंयुतः ।। १९१.६१

तत्र भुक्त्वा महाभोगान् मर्त्यराजोऽभिजायते।
कठेश्वरं ततो गच्छेत्तत्र स्नानं समाचरेत् ।। १९१.६२

उत्तरायण-संप्राप्तो यदिच्छेत् तस्य तद् भवेत्।
चन्द्रभागां ततो गच्छेत्तत्र स्नानं समाचरेत् ।। १९१.६३

स्नातमात्रो नरो राजन्! सोमलोके महीयते।
ततो गच्छेत्तु राजेन्द्र! तीर्थं शक्रस्य विश्रुतम् ।। १९१.६४

पूजितं देवराजेन देवैरपि नमस्कृम्।
तत्र स्नात्वा नरो राजन्! दानं दत्त्वा तु काञ्चनम् ।। १९१.६५

अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत्।
वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च ।। १९१.६६

तावद्वर्षसहस्राणि नरो हरपुरे वसेत्।
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् ।। १९१.६७

अश्वानां श्वेतवर्णानां सहस्राणां नराधिप!।
स्वामी भवति मर्त्येषु तस्य तीर्थप्रभावतः ।। १९१.६८

ततो गच्छेत्तु राजेन्द्र! ब्रह्मावर्तमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! तर्पयेत् पितृदेवताः ।। १९१.६९

उपोष्य रजनीमेकां पिण्डं दत्त्वा यथाविधि।
कन्यागते तथादित्ये अक्षयं स्यान्नराधिप! ।। १९१.७०

ततो गच्छेच्च राजेन्द्र! कपिला तीर्थमुत्तमम्।
तत्र स्नात्वा नरो राजन्! कपिलां यः प्रयच्छति ।। १९१.७१

सम्पूर्णपृथिवीं दत्त्वा यत् फलं तदवाप्नुयात्।
नर्मदेशं परं तीर्थं न भूतं न भविष्यति ।। १९१.७२

तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत्।
नर्मदा दक्षिणे कूले सङ्गमेश्वरमुत्तमम् ।। १९१.७३

तत्र स्नात्वा नरो राजन्! सर्वयज्ञफलं लभेत्।
तत्र सर्वाद्यतो राजा पृथिव्यामेव जायते ।। १९१.७४

सर्वलक्षणसम्पूर्णः सर्वव्याधिविवर्जितः।
नर्मदे चोत्तरे कूले तीर्थं परमशोभनम् ।। १९१.७५

आदित्यायतनं दिव्यमीश्वरेण तु भाषितम्।
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ।। १९१.७६

हरिद्रा व्याधिनो ये तु ये च दुष्कृतकर्मिणः।
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं तु यान्ति ते ।। १९१.७७

माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमी।
वसेदायतने तत्र निराहारो जितेन्द्रियः ।। १९१.७८

न जरा व्याधितो मूको न चान्धो बधिरोऽथवा।
सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ।। १९१.७९

एवं तीर्थं महापुण्यं मार्कण्डेयेन भाषितम्।
ये न जानन्ति राजेन्द्र! वञ्चितास्ते न संशयः ।। १९१.८०

गर्गेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।। १९१.८१

मोदते स्वर्गलोकस्थो यावदिन्द्राश्चतुर्दश।
समीपतः स्थितं तस्य नागेश्वर तपोवनम् ।। १९१.८२

तत्र स्नात्वा तु राजेन्द्र! नागलोकमवाप्नुयात्।
वह्निभिर्नागकन्याभिः क्रीडते कालमक्षयम् ।। १९१.८३

कुबेरभवनं गच्छेत् कुबेरो यत्र संश्थितः।
कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ।। १९१.८४

तत्र स्नात्वा तु राजेन्द्र! सर्वसम्पदमाप्नुयात्।
ततः पश्चिमतो गच्छेत् मारुतालयमुत्तमम् ।। १९१.८५

तत्र स्नात्वा तु राजेन्द्र! शुचिर्भूत्वा समाहितः।
काञ्चनं तु ततो दद्याद्यथाशक्ति सुबुद्धिमान् ।। १९१.८६

पुष्पकेण विमानेन वायुलोकं स गच्छति।
यमतीर्थं ततो गच्छेत् माघमासे युधिष्ठिर! ।। १९१.८७

कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत्।
नक्तम्भोज्यं ततः कुर्य्यान्नपश्येद्योनिसङ्कटम् ।। १९१.८९

अहल्या तीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत्।
स्नातमात्रो नरस्तत्र ह्यप्सरोभिः प्रमोदते ।। १९१.८९

अहल्या च तपस्तप्त्वा तत्र मुक्तिमुपागता।
चैत्रमासे तु संप्राप्ते शुक्लपक्षे चतुर्दशी ।। १९१.९०

कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत्।
यत्र यत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् ।। १९१.९१

स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः।
अयोध्यान्तु समासाद्य तीर्थं रामस्य विश्रुतम् ।। १९१.९२

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते।
सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।। १९१.९३

स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते।
सोमग्रहे तु राजेन्द्र! पापक्षयकरं नृणाम् ।। १९१.९४

त्रैलोक्यविश्रुतं राजन्! सोमतीर्थं महाफलम्।
यस्तु चान्द्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप! ।। १९१.९५

सर्वपापविशुद्धात्मा सोमलोकं स गच्छति।
अग्निप्रवेशेऽथ जले अथवापि ह्यनाशके ।। १९१.९६

सोमतीर्थे मृतो यस्तु नाऽसौ मर्त्येऽभिजायते।
शुभतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।। १९१.९७

स्नातमात्रो नरस्तत्र गोलोकेषु महीयते।
ततो गच्छेच्च राजेन्द्र! विष्णुतीर्थमनुत्तमम् ।। १९१.९८

योधनी पुरमाख्यातं विष्णुस्थानमनुत्तमम्।
असुरा योधितास्तत्र वासुदेवेन कोटिशः ।। १९१.९९

तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह।
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।। १९१.१००

ततो गच्छेत् तु राजेन्द्र! तापसेश्वसमुत्तमम्।
हरिणीव्याधसन्त्रस्ता पतिता यत्र सा मृगी ।। १९१.१०१

जले प्रक्षिप्त यात्रा तु अन्तरिक्षं गता च सा
व्याधो विस्मित चित्तस्तु परं विस्मयमागतः ।। १९१.१०२

तेन तापेश्वरं तीर्थं न भूतं न भविष्यति।
ततो गच्छेत्तु राजेन्द्र! ब्रह्मतीर्थमनुत्तमम् ।। १९१.१०३

अमोहकमिति ख्यातं पितृंश्वैवात्र तर्पयेत्।
पौर्णमास्याममायान्तु श्राद्धं कुर्याद्यथाविधि ।। १९१.१०४

तत्र स्नात्वा नरो राजन्! पितृपिण्डन्तु दापयेत्।
गजरूपा शिला तत्र तोयमध्ये प्रतिष्ठिता ।। १९१.१०५

तस्यान्तु दापयेत् पिण्डं वैशाख्यान्तु विशेषतः।
तृप्यन्ति पितरस्तत्र यावत्तिष्ठति मेदिनी ।। १९१.१०६

ततो गच्छेच्च राजेन्द्र! सिद्धेश्वरमनुत्तमम्।
तत्र स्नात्वा नरो राजन्! गणपत्यन्तिकं व्रजेत् ।। १९१.१०७

ततो गच्छेत्तु राजेन्द्र! लिङ्गो यत्र जनार्दनः।
तत्र स्नात्वा तु राजेन्द्र! विष्णुलोके महीयते ।। १९१.१०८

नर्मदा दक्षिणे कूले तीर्थं परमशोभनम्।
वामदेवः स्वयं तत्र तपोऽतप्यत वै महत् ।। १९१.१०९

दिव्यं वर्ष सहस्रन्तु हुताशः शुक्रपर्वणि।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संस्थिताः ।। १९१.११०

श्वेतपर्वा यमश्चैव हुताशः शुक्रपर्वणि।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संस्थिताः ।। १९१.१११

श्वेतपर्वा यमश्चैव हुताशः शुक्रपर्वणि।
एते दग्धास्तु ते सर्वे कुसुमेश्वर संश्थिताः ।। १९१.११२

मोक्षयित्वा तु तान् सर्वान् नर्मदा तटमास्थितः।
ततस्तीर्थप्रभावेण पुनर्देवत्वमागताः ।। १९१.११३

त्वत्प्रसादान्महादेव! तीर्थं भवतु चोत्तमम्।
अर्द्धयोजनविस्तीर्णं क्षेत्रं दिक्षु समन्ततः ।। १९१.११४

तस्मिंतीर्थे नरः स्नात्वा चोपवासपरायणः।
कुसुमायुधरूपेण रुद्रलोके महीयते ।। १९१.११५

वैश्वानरो यमाश्चैव कामदेवस्तथा मरुत्।
तपस्तप्त्वा तु राजेन्द्र! परां सिद्धिमवाप्नुयुः ।। १९१.११६

अङ्कोलस्य समीपे तु नास्तिदूरे तु तस्य वै।
स्नानं दानञ्च तत्रैव भोजनं पिण्डमेव च ।। १९१.११७

अग्निप्रवेशेऽथ जले अथवा तुह्यनाशके।
अनिवर्तिका गतिस्तस्य मृतस्यामुत्र जायते ।। १९१.११८

त्र्यम्बकेन तु तोयेन यश्चरुं श्रपयेन्नरः।
अङ्कोलमूले दत्त्वा तु पिण्डं चैव यथाविधि ।। १९१.११९

तृप्यन्ति पितरस्तस्य यावच्चन्द्रदिवाकरौ।
उत्तरे त्वयने प्राप्ते घृतस्नानङ्करोति यः ।। १९१.१२०

पुरुषो वाथ स्त्री वापि वसेदायतने शुचिः।
सिद्धेश्वरस्य देवस्य प्रातः पूजां प्रकल्पयेत् ।। १९१.१२१

स यां गतिमवाप्नोति न तां सर्वैर्महामखैः।
यदावतीर्णः कालेन रूपवान् शुभगो भवेत् ।। १९१.१२२

मर्त्ये भवति राजा च त्वासमुद्रान्त-गोचरे।
क्षेत्रपालं न पश्येत्तु दण्डपाणिं महाबलम् ।। १९१.१२३

वृथा तस्य भवेद्यात्रा ह्यदृष्ट्वा कर्णकुण्डलम्।
एवं तीर्थफलं ज्ञात्वा सर्वे देवाः समागताः
मुञ्चन्ति कुसुमैर्वृष्टिं तेन तत् कुसुमेश्वरम् ।। १९१.१२४