मत्स्यपुराणम्/अध्यायः १७४
सुरसैन्यविस्तारवर्णनम्।
मत्स्य उवाच।
श्रुतस्ते दैत्यसैन्यस्य विस्तरो रविनन्दन!।
सुराणामपि सैन्यस्य विस्तरं वैष्णवं श्रृणु ।। १७४.१ ।।
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ।
सबलाः सानुगाश्चैव सन्नह्यन्त यथाक्रमम् ।। १७४.२ ।।
पुरुहूतस्तु पुरतो लोकपालाः सहस्रदृक्।
ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् ।। १७४.३ ।।
मध्ये चास्य रथः सर्व पक्षि प्रवररंहसः।
सुचारु चक्र चरणो हेमवज्र परिष्कृतः ।। १७४.४ ।।
देव गन्धर्व यक्षौघै रनुयातः सहस्रशः।
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ।। १७४.५ ।।
वज्रविस्फूर्जितोद्भूतैः विद्युदिन्द्रायुधो दितैः।
युक्तो बलाहकगणैः पर्वतैरिव कामगैः ।। १७४.६ ।।
यमारूढः स भगवान् पर्येति सकलं जगत्।
हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः ।। १७४.७ ।।
स्वर्गे शक्रानुयातेषु देवतूर्य निनादिषु।
सुन्दर्यः परिनृत्यन्ति शतशोऽप्सरसाङ्गणे ।। १७४.८ ।।
केतुना नागराजेन राजमानो यथा रविः।
युक्तो हयसहस्रेण मतो मारुतरंहसा ।। १७४.९ ।।
सस्यन्दन वरो भाति गुप्तो मातलिना तदा।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ।। १७४.१० ।।
यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्गरम्।
तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् ।। १७४.११ ।।
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः।
शङ्कमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ।। १७४.१२ ।।
कालपाशान् समाविध्यन् हयैः शशिकरोपमैः।
वाय्वीरितैर्जलाकारैः कुर्वन् लीलाः सहस्रशः ।। १७४.१३ ।।
पाण्डुरोद्धूत वसनः प्रचलन् रुचिराङ्गदः।
मणिश्यामोत्तमवपुर्हरिभारार्पितो वरः ।। १७४.१४ ।।
वरुणः पाशघृङ्मध्ये देवानीकस्य तस्थिवान्।
युद्धवेलामभिलषन् भिन्नवेल इवार्णवः ।। १७४.१५ ।।
यक्षराक्षससैन्येन गुह्यकानां गणैरपि।
युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ।। १७४.१६ ।।
राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत।
विमानयोधी धनदो विमाने पुष्पके स्थितः ।। १७४.१७ ।।
स राजराजः शुशुभे युद्धार्थी नरवाहनः।
उक्षापमास्थितः संख्ये साक्षादिव शिवः स्वयम् ।। १७४.१८ ।।
पूर्वपक्षः सहस्राक्षः पितृराजस्तु दक्षिणः।
वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः ।। १७४.१९ ।।
चतुर्षु युक्ताश्चत्वारो लोकपाला महाबलाः।
स्वासु दिक्षुस्वरक्षन्त तस्य देवबलस्य ते ।। १७४.२० ।।
सूर्यः सप्ताश्वयुक्तेन रथेनामितगामिना।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ।। १७४.२१ ।।
उदयास्तग चक्रेण मेरुपर्वत गामिना।
त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ।। १७४.२२ ।।
सहस्ररश्मि युक्तेन भ्राजमानेन तेजसा।
चचार मध्ये लोकानां द्वादशात्मा दिनेश्वरः ।। १७४.२३ ।।
सोमः श्वेतहये भाति स्यन्दने शीत रश्मिवान्।
हिमवत्तोयपूर्णाभि र्भाभिराह्लादयञ्जगत् ।। १७४.२४ ।।
तमृक्षपूगानुगतं शिशिरांशुं द्विजेश्वरम्।
शशच्छायाङ्कित तनुं नैशस्य तमसः क्षयम् ।। १७४.२५ ।।
ज्योतिषामीश्वरं व्योम्नि रसानां रसदं प्रभुम्।
ओषधीनां सहस्राणां निधानममृतस्य च ।। १७४.२६ ।।
जगतः प्रथमं भागं सौम्यं सत्यमयं रथम्।
ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम् ।। १७४.२७ ।।
यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु।
सप्तधातुगतो लोकां स्त्रीन्दधार चचार च ।। १७४.२८ ।।
यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरम्।
सप्तस्वरगतोयश्च नित्यङ्गीर्भिरुदीर्यते ।। १७४.२९ ।।
यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम्।
यमाहुराकाशगमं शीघ्रगं शब्दयोगिनम् ।। १७४.३० ।।
स वायुः सर्वभूतायुरुद्भूतः स्वेन तेजसा
ववौ प्रव्यथयन् दैत्यान् प्रतिलोमं स तोयदः ।। १७४.३१ ।।
मरुतो दिव्यगन्धर्वैर्विद्याधरगणैः सह।
चिक्रीडु रसिभिः शुभ्रै निर्मुक्तै रिव पन्नगैः ।। १७४.३२ ।।
सृजन्तः सर्पपतयस्तीव्र तोयमयं विषम्।
शरभूता दिवीन्द्राणाञ्चेरुर्व्यात्तानना दिवि ।। १७४.३३ ।।
पर्वतैश्च शिलाश्रृङ्गैः शतशश्चैव पादपैः।
उपतस्थुः सुरगणाः प्रहर्तुं दानवे बले ।। १७४.३४ ।।
यः सदेवो हृषीकेशः पद्मनाभस्त्रिविक्रमः।
युगान्ते कृष्णवर्णाभो विश्वस्य जगतः प्रभुः ।। १७४.३५ ।।
सर्वयोनिः स मधुहा हव्यभुक् क्रतुसंस्थितः।
भूम्यपो व्योमभूतात्मा श्यामः शान्तिकरोऽरिहा ।। १७४.३६ ।।
अरिघ्नममरादीनाञ्चक्रं गृह्य गदाधरः।
अर्कं नगादिवोद्यन्तमुद्यम्योत्तम तेजसा ।। १७४.३७ ।।
सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम्।
करेण कालीं वपुषा शत्रुकालप्रदाङ्गदाम् ।। १७४.३८ ।।
अन्यैर्भुजैः प्रदीप्ताभैर्भुजगारि ध्वजः प्रभुः।
दधारायुध जातानि शार्ङ्गादीनि महाबलः ।। १७४.३९ ।।
सकश्यपस्यात्मभुवं द्विजं भुजगभोजनम्।
पवनाधिकसम्पातं गगनक्षोभणं खगम् ।। १७४.४० ।।
भुजगेन्द्रेण वदने निविष्टेन विराजितम्।
अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ।। १७४.४१ ।।
देवासुरविमर्देषु बहुशो दृढ़विक्रमम्।
महेन्द्रेणामृतस्यार्थे वज्रेण कृत लक्षणम् ।। १७४.४२ ।।
शिखिनं बलिनञ्चैव तप्त कुण्डल भूषणम्।
विचित्रपत्र वसनं धातुमन्तमिवाचलम् ।। १७४.४३ ।।
स्फीत क्रोडावलम्बेन शीतांशु समतेजसा।
भोगिभोगावसिक्तेन मणिरत्नेन भास्वता।। १७४.४४ ।।
पक्षाभ्याञ्चारुपत्राभ्यामावृत्य दिवि लीलया।
युगान्ते सेन्द्र चापाभ्यान्तोयदाभ्यमिवाम्बरम् ।। १७४.४५ ।।
नीललोहितपीताभिः पताकाभिरलङ्कृतम्।
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ।। १७४.४६ ।।
अरुणावरजं श्रीमानारुह्य समरे विभुः।
सुवर्णस्वर्णवपुषा सुपर्णं खेचरोत्तमम् ।। १७४.४७ ।।
तमन्वयुर्देवगणा मुनयश्च समाहिताः।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च जनार्दनम् ।। १७४.४८ ।।
तद्वैश्रवण संश्लिष्टं वैवस्वत पुरःसरम्।
द्विजराजपतिक्षिप्तं देवराजविराजितम् ।। १७४.४९ ।।
चन्द्रप्रभाभिर्विपुलं युद्धाय समवर्तत।
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत।।
स्वस्त्यस्तु दानवानीके उशना वाक्यमाददे ।। १७४.५० ।।