मत्स्यपुराणम्/अध्यायः १६९
ब्रह्मण उत्पत्तिवर्णनम्।
मत्स्य उवाच।
अथ योगवतां श्रेष्ठमसृजत् भूरि तेजसम्।
स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतो मुखम् ।। १६९.१ ।।
यस्मिन् हिरण्मये पद्मे बहुयोजन विस्तृते।
सर्वतेजो गुममयं पार्थिवैर्लक्षणैर्वृतम् ।। १६९.२ ।।
तच्च पद्मं पुराणाज्ञाः पृथिवी रूपमुत्तमम्।
नारायण समुद्भूतं प्रवदन्ति महर्षयः ।। १६९.३ ।।
या पद्मा सा रसा देवी पृथिवी परिचक्षते।
ये पद्मसारगुरवस्तान्दिव्यान्पर्वतान् विदुः ।। १६९.४व ।।
हिमवन्तं च मेरुं च लीलं निषधमेव च।
कैलासं मुञ्जवन्तं च तथान्यं गन्धमादनम् ।। १६९.५ ।।
पुण्यं त्रिशिखरञ्चैव कान्तं मन्दरमेव च।
उदयं पिञ्जरं चैव विन्ध्यवन्तं च पर्वतम् ।। १६९.६ ।।
एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम्।
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः ।। १६९.७ ।।
एतेषामन्तरे देशो जम्बूद्वीप इति स्मृतः।
जम्बूद्वीपस्य संस्थानं यज्ञिया यत्र वै क्रिया ।। १६९.८ ।।
एभ्यो यत् स्रवते तोयं दिव्यामृतरसोपमम्।
दिव्यास्तीर्थशताधाराः सुरम्याः सरितः स्मृताः ।। १६९.९ ।।
स्मृतानि यानि पद्मस्य केसराणिसमन्ततः।
असंख्येयाः पृथिव्यास्ते विश्वे वै धातुपर्वताः ।। १६९.१० ।।
यानि पद्मस्य पर्णानि भूरीणि तु नराधिप।
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ।। १६९.११ ।।
यान्यधोभागपर्णानि ते निवासास्तु भागशः।
दैत्यानामुरगाणाञ्च पतङ्गानाञ्च पार्थिव ।। १६९.१२ ।।
तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ञितम्।
महापातक कर्माणो मज्जन्ते यत्र मानवाः ।। १६९.१३ ।।
पद्मस्यान्तरतो यत्तदेकार्णवगता मही।
प्रोक्ताथ दिक्षु सर्वासु चत्वारः सलिलाकराः ।। १६९.१४ ।।
एवं नारायणस्यार्थे मही पुष्करसम्भवा।
प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः ।। १६९.१५ ।।
एतस्मात् कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः।
याज्ञियैर्वेददृष्टान्तै र्यज्ञेपद्मविधिः स्मृतः ।। १६९.१६ ।।
एवं भगवता तेन विश्वया धरया विधिः।
पर्वतानां नदीनाञ्च ह्रदानां चैव निर्मितः ।। १६९.१७ ।।
विभुस्तथैवाप्रतिम प्रभावः प्रभाकराभो वरुणासितद्युतिः।
शनैः स्वयम्भूः शयनं सृजत्तदा जगन्मयं पद्मविधि महार्णवे ।। १६९.१८ ।।