मत्स्यपुराणम्/अध्यायः १५८
वीरक पार्वती संवादः।
वीरक उवाच।
एवमुक्त्वा गिरिसुता माता मे स्नेहवत्सला।
प्रवेशं लभते नान्या नारी कमललोचने ।। २.१५८.१
इत्युक्ता तु तदा देवी चिन्तयामास चेतसा।
न सा नारीति दैत्योऽसौ वायुर्मे यामभाषत ।। २.१५८.२
वृथैव वीरकः शप्तो मया क्रोधपरीतया।
अकार्यं क्रियते मूढैः प्रायः क्रोधसमीरितैः ।। २.१५८.३
क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम्।
अपरिच्छन्नतत्वार्था पुत्रं शापितवत्यहम् ।। २.१५८.४
विपरीतार्थ बुद्धीनां सुलभो विपदोदयः।
सञ्चिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा ।। २.१५८.५
लज्जा सज्जविकारेण वदनेनाम्बुजत्विषा।
देव्युवाच।
अहं वीरक! ते माता मा तेऽस्तु मनसो भ्रमः। २.१५८.६
शङ्करस्यास्मि दयिता सुता तु हिमभूभृतः।
मम गात्रच्छविभ्रान्त्या माशङ्कां पुत्र! भावय ।। २.१५८.७
तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना।
मया शप्तोऽस्य विदिते वृत्तान्ते दैत्यनिर्मिते ।। २.१५८.८
ज्ञात्वा नारीप्रवेशन्तु शङ्करे रहसि स्थिते।
न निवर्तयितुं शक्यः शापः किन्तु ब्रवीमि ते ।। २.१५८.९
शीघ्रमेष्यसि मानुष्यात् स त्वं कामसमन्वितः।
शिरसा तु ततोवन्द्य मातरं पूर्णमानसः ।।
उवाचार्चित पूर्णेन्दु द्युतिञ्च हिमशैलजाम् ।। २.१५८.१०
वीरक उवाच।
नतसुरासुर मौलिमिलन् मणिप्रचय कान्ति कराल नखाङ्किते।
नगसुते! शरणागतवत्सले! तव नतोऽस्मि नतार्त्तिविनाशिनि ।। २.१५८.११
तपनमण्डलमण्डितकन्धरै! पृथुसुवर्णसुवर्णनगद्युते।
विषभुजङ्गनिषङ्गविभूषिते ! गिरिसुते! भवतीमहमाश्रये ।। २.१५८.१२
जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा।
जगति काञ्च न वाञ्छति शङ्करो भुवनधृत्तनये! भवतीं यथा ।। २.१५८.१३
विमलयोग विनिर्मित दुर्जय स्वतनु तुल्यमहेश्वर मण्डले।
विदलितान्धक बान्धवसंहतिः सुरवरैः प्रयमन्त्वमभिष्टुता ।। २.१५८.१४
सितसटापटलोद्धत कन्धरा भरमहा मृगराज रथास्थिता।
विमलशक्तिमुखानलपिङ्गला यतभुजौघ विपिष्टमहासुरा ।। २.१५८.१५
निगदिता भुवनैरिति चण्डिका जननि! शुम्भ निशुम्ब निषूदनी।
प्रणत चिन्तित दानव दानव प्रमथनैकरतिस्तरसा भुवि ।। २.१५८.१६
वियति वायुपथे ज्वलनोज्वलेऽवनितले तव देवि! च यद्वपुः।
तदजितेऽप्रतिमे प्रणमाम्यहं भुवन भाविनि! ते भववल्लभे ।। २.१५८.१७
जलधयो ललितोद्धत वीचयो हुतवहद्युतयश्च चराचरम्।
फणसहस्रभृतश्च भुजङ्गमा स्त्वदभिधास्यति मय्यभयङ्कराः ।। २.१५८.१८
भगवति! स्थिरभक्तजनाश्रये! प्रतिगतो भवती -चरणाश्रयम्।
करणजातमिहास्तु ममाचलन्नुतिलवाप्तिफलासयहेतुतः ।।
प्रशममेहि ममात्मज वत्सले! नमोऽस्तु ते देवि! जगत्त्रयाश्रये! ।।२.१५८.१९
सूत उवाच।
प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता।
प्रविवेश शुभं भर्तुर्भवनं भूधरात्मजा ।। २.१५८.२०
द्वारस्थो वीरको देवान् हरदर्शनकाङ्क्षिणः।
व्यसर्जयत् स्वान्येव गृहाण्यादरपूर्वकः ।। २.१५८.२१
नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः।
निभृतः क्रीड़तीत्युक्ता ययुस्ते च यथागतम् ।। २.१५८.२२
गते वर्षसहस्रे तु देवास्त्वरितमानसाः।
ज्वलनं चोदयामासुः ज्ञातुं शङ्करचेष्टितम् ।। २.१५८.२३
प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः।
ददृशे नयने शर्वं रतं गिरिजया सह ।। २.१५८.२४
ददृशे तञ्च देवेशो हुताशं शुकरूपिणम्।
तमुवाच महादेवः किञ्चित् कोपसमन्वितः ।। २.१५८.२५
यस्मात्तु त्वत्कृतो विघ्नस्तस्मात्वय्युपपद्यते।
इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितम् ।। २.१५८.२६
तेनापूर्यत तान्देवांस्तत्तत्काय बिभेदतः।
विपाट्य जठरन्तेषां वीर्यं माहेश्वरन्ततः ।। २.१५८.२७
निष्क्रान्तं तप्तहेमाभं वितते शङ्कराश्रमे।
तस्मिन् सरो महज्जातं विमलं बहु योजनम् ।। २.१५८.२८
प्रोत्फुल्लहेमकमलं नानाविहगनादितम्।
तच्छ्रुत्वा तु ततो देवी हेमद्रुम महाजलम्।। २.१५८.२९
तत्र कृत्वा जलक्रीड़ां तदब्जकृतशेखरा।
उपविष्टा ततस्तस्य तीरे हेमद्रुम महाजलम् ।। २.१५८.३०
पातुकामा च तत्तोयं स्वादु निर्मल पङ्कजम्।
अपश्यन् कृत्तिकाः स्नाताः षडर्कद्युतिसन्निभम् ।। २.१५८.३१
पद्मपत्रे तु तद्वारि गृहित्वोपस्थिता गृहम्।
हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः ।। २.१५८.३२
ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजम्।
कृत्तिका ऊचुः।
दास्यामो यदि ते गर्भः सम्भूतो यो भविष्यति ।। २.१५८.३३
सोऽस्माकमपि पुत्रः स्यादस्मन्नाम्ना च वर्तताम्।
भवेल्लोकेषु विख्यातः सर्वेष्वपि शुभानने!।। २.१५८.३४
इत्युक्तोवाच गिरिजा कथं मद्गात्रसम्भवः।
सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत्।। २.१५८.३५
ततस्तां कृत्तिका ऊचु र्विधास्यामोऽस्य वै वयम्।
उत्तमान्युत्तमङ्गानि यद्येवन्तु भविष्यति ।। २.१५८.३६
उक्ता वै शैलजा प्राह भवत्वेवमनिन्दितः।
ततस्ताहर्षसम्पूर्णाः पद्मपत्रस्थितं पयः।। २.१५८.३७
तस्यै ददुस्तया चापि तत्प्रीतं क्रमशो जलम्।
पीते तु सलिले तस्मिंस्ततस्तस्मिन् सरोवरे ।। २.१५८.३८
विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः।
निश्चक्रामद्भुतो बालः सर्वलोक विभासकः ।। २.१५८.३९
प्रभाकरप्रभाकारः प्रकाशकनकप्रभः।
गृहीतनिर्मलोदग्र शक्तिशूलः षड़ाननः ।। २.१५८.४०
दीप्तो मारयितुं दैत्यान् कुत्सितान् कनकच्छिविः।
एतस्मात् कारणाद्देवः कुमारश्चापि सोऽभवम् ।। २.१५८.४१