मत्स्यपुराणम्/अध्यायः ८७
दिखावट
तिलपर्वतदानवर्णनम्।
अतः परं प्रवक्ष्यामि तिलशैलं विधानतः।
यत् प्रदानान्नरो याति विष्णुलोकं सनातनम्।। ८७.१ ।।
उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिः स्मृतः।
त्रिभिः कनिष्ठो विप्रेन्द्र! तिलशैलः प्रकीर्तितः।। ८७.२ ।।
पूर्ववच्चापरान् सर्वान् विष्कम्भानभितो गिरीन्।
दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनिपुङ्गव।। ८७.३ ।।
यस्मान् मधुवधे विष्णोर्देहस्वेदसमुद्भवाः।
तिलाः कुशाश्च माषाश्च तस्माच्छन्नो भवत्विह।। ८७.४ ।।
हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम्।
भवादुद्धर शैलेन्द्र! तिलाचल! नमोस्तु ते।। ८७.५ ।।
इत्यामान्त्र्य च यो दद्यात् तिलाचलमनुत्तमम्।
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्।। ८७.६ ।।
दीर्घायुष्यं समाप्नोति पुत्रपौत्रैश्च मोदते।
पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत्।। ८७.७ ।।