मत्स्यपुराणम्/अध्यायः ५४
अथ चतुष्पञ्चाशोऽध्यायः
सूत उवाच
अतः परं प्रवक्ष्यामि दानधर्मानशेषतः
व्रतोपवाससंयुक्तान्यथामत्स्योदितानिह ५४.१
महादेवस्य संवादे नारदस्य च धीमतः
यथावृत्तं प्रवक्ष्यामि धर्मकामार्थसाधकम् २
कैलासशिखरासीनमपृच्छन्नारदः पुरा
विनयनमनङ्गारिमनङ्गाङ्गहरं हरम् ३
नारद उवाच
भगवन्देवदेवेश ब्रह्मविष्ण्विन्द्र नायक
श्रीमदारोग्यरूपायुर्भाग्यसौभाग्यसम्पदा
संयुक्तस्तव विष्णोर्वा पुमान्भक्तः कथं भवेत् ४
नारी वा विधवा सर्वगुणसौभाग्यसंयुता
क्रमान्मुक्तिप्रदं देव किंचिद्व्रतमिहोच्यताम् ५
ईश्वर उवाच
सम्यक्पृष्टं त्वया ब्रह्मन्सर्वलोकहितावहम्
श्रुतमप्यत्र यच्छान्त्यै तद्व्रतं शृणु नारद ६
नक्षत्रपुरुषं नाम व्रतं नारायणात्मकम्
पादादि कुर्याद्विधिवद्विष्णुनामानुकीर्तनम् ७
प्रतिमां वासुदेवस्य मूलर्क्षादिषु चार्चयेत्
चैत्रमासं समासाद्य कृत्वा ब्राह्मणवाचनम् ८
मूले नमो विश्वधराय पादौ गुल्फावनन्ताय च रोहिणीषु
जङ्घेऽभिपूज्ये वरदाय चैव द्वे जानुनी वाश्विकुमारऋक्षे ९
पूर्वोत्तराषाढयुगे तथोरू नमः शिवायेत्यभिपूजनीयौ
पूर्वोत्तराफल्गुनियुग्मके च मेढ्रं नमः पञ्चशराय पूज्यम् १०
कटिं नमः शार्ङ्गधराय विष्णोः सम्पूजयेन्नारद कृत्तिकासु
तथार्चयेद्भाद्र पदाद्वये च पार्श्वे नमः केशिनिषूदनाय ११
कुक्षिद्वयं नारद रेवतीषु दामोदरायेत्यभिपूजनीयम्
ऋक्षेऽनुराधासु च माधवाय नमस्तथोरःस्थलमेव पूज्यम् १२
पृष्ठं धनिष्ठासु च पूजनीयमघौघविध्वंसकराय तच्च
श्रीशङ्खचक्रासिगदाधराय नमो विशाखासु भुजाश्च पूज्याः १३
हस्ते तु हस्ता मधुसूदनाय नमोऽभिपूज्या इति कैटभारेः
पुनर्वसावङ्गुलिपूर्वभागाः साम्नामधीशाय नमोऽभिपूज्याः १४
भुजंगनक्षत्रदिने नखानि सम्पूजयेन्मत्स्यशरीरभाजः
कूर्मस्य पादौ शरणं व्रजामि ज्येष्ठासु कण्ठे हरिरर्चनीयः १५
श्रोत्रे वराहाय नमोऽभिपूज्या जनार्दनस्य श्रवणेन सम्यक्
पुष्ये मुखं दानवसूदनाय नमो नृसिंहाय च पूजनीयम् १६
नमो नमः कारणवामनाय स्वातीषु दन्ताग्रमथार्चनीयम्
आस्यं हरेर्भार्गवनन्दनाय संपूजनीयं द्विज वारुणे तु १७
नमोऽस्तु रामाय मघासु नासा संपूजनीया रघुनन्दनस्य
मृगोत्तमाङ्गे नयनेऽभिपूज्ये नमोऽस्तु ते राम विघूर्णिताक्ष १८
बुद्धाय शान्ताय नमो ललाटं चित्रासु संपूज्यतमं मुरारेः
शिरोऽभिपूज्यं भरणीषु विष्णोर्नमोऽस्तु विश्वेश्वर कल्किरूपिणे १९
आद्रा र्सु! केशाः पुरुषोत्तमस्य संपूजनीया हरये नमस्ते
उपोषितेनर्क्षदिनेषु भक्त्या संपूजनीया द्विजपुंगवाः स्युः २०
पूर्णे व्रते सर्वगुणान्विताय वाग्रूपशीलाय च सामगाय
हैमीं विशालायतबाहुदण्डां मुक्ताफलेन्दूपलवज्रयुक्ताम् २१
जलस्य पूर्णे कलशे निविष्टामर्चां हरेर्वस्त्रगवा सहैव
शय्यां तथोपस्करभाजनादियुक्तां प्रदद्याद्द्विजपुंगवाय २२
यद्यस्ति यत्किंचिदिहास्ति देयं दद्याद्द्विजायात्महिताय सर्वम्
मनोरथान्नः सफलीकुरुष्व हिरण्यगर्भाच्युतरुद्र रूपिन् २३
सलक्ष्मीकं सभार्याय काञ्चनं पुरुषोत्तमम्
शय्यां च दद्यान्मन्त्रेण ग्रन्थिभेदविवर्जिताम् २४
यथा न विष्णुभक्तानां वृजिनं जायते क्वचित्
तथा सुरूपतारोग्यं केशवे भक्तिमुत्तमाम् ५४.२५
यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन
शय्या ममाप्यशून्यास्तु कृष्ण जन्मनि जन्मनि २६
एवं निवेद्य तत्सर्वं वस्त्रमाल्यानुलेपनम्
नक्षत्रपुरुषज्ञाय विप्रायाथ विसर्जयेत् २७
भुञ्जीतातैललवणं सर्वर्क्षेष्वप्युपोषितः
भोजनं च यथाशक्ति वित्तशाठ्यविवर्जितः २८
इति नक्षत्रपुरुषमुपास्य विधिवत्स्वयम्
सर्वान्कामानवाप्नोति विष्णुलोके महीयते २९
ब्रह्महत्यादिकं किंचिदिह वामुत्र वा कृतम्
आत्मना वाथ पितृभिस्तत्सर्वं क्षयमाप्नुयात् ३०
इति पठति शृणोति वातिभक्त्या पुरुषवरो व्रतमङ्गनाथ कुर्यात्
कलिकलुषविदारणं मुरारेः सकलविभूतिफलप्रदं च पुंसाम् ३१
इति श्रीमात्स्ये महापुराणे नक्षत्रपुरुषव्रत नाम चतुष्पञ्चाशोऽध्यायः ५४