मत्स्यपुराणम्/अध्यायः ५२
कर्मयोगवर्णनम्।
ऋषय ऊचुः।
इदानीं प्राह यद्विष्णुः पृष्टः परममुत्तमम्।
तमिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम्।। ५२.१ ।।
सूत उवाच।
एवमेकार्णवे तस्मिन् मत्स्यरूपी जनार्दनः।
विस्तारमादिसर्गस्य प्रतिसर्गस्य चाखिलम्।। ५२.२ ।।
कथयामास विश्वात्मा मनवे सूर्यसूनवे।
कर्म्मयोगञ्च साङ्ख्यञ्च यथावद्विस्तरान्वितम्।। ५२.३ ।।
ऋषय ऊचुः।
श्रोतुमिच्छामहे सूत! कर्म्मयोगस्य लक्षणम्।
यस्मादविदितं लोके न किञ्चित् तव सुव्रत।। ५२.४ ।।
सूत उवाच।
कर्म्मयोगञ्च वक्ष्यामि यथा विष्णु विभाषितम्।
ज्ञानयोगसहस्राद्धि कर्म्मयोगः प्रशस्यते।। ५२.५ ।।
कर्म्मयोगोद्भवं ज्ञानं तस्मात् तत् परमं पदम्।
कर्म्म ज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्म्मणः।। ५२.६ ।।
तस्मात् कर्मणि युक्तात्मा तत्वमाप्नोति शाश्वतम्।
वेदोऽखिलो धनं मूलमाचारश्चैव तद्धितम्।। ५२.७ ।।
अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिताः।
दया सर्वेषु भूतेषु क्षान्तीर क्षातुरस्य च।। ५२.८ ।।
अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः।
अनायासेषु कार्येषु माङ्गल्याचारसेवनम्।। ५२.९ ।।
न च द्रव्येषु कार्पण्यमार्तेषूपार्जितेषु च।
तथा स्पृहा परद्रव्ये परस्त्रीषु च सर्वदा।। ५२.१० ।।
अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः।
अयमेव क्रियायोगो ज्ञानयोगस्य साधकः।। ५२.११ ।।
कर्म्मयोगं विना ज्ञानं कस्यचिन्नेह द्रृश्यते।
श्रुतिस्मृत्युदितं धर्ममुपतिष्ठेत् प्रयत्नतः।। ५२.१२ ।।
देवतानां पितॄणाञ्च मनुष्याणाञ्च सर्वदा।
कुर्यादहरहर्यज्ञैर्भूतर्षि गणतर्पणम्।। ५२.१३ ।।
स्वाध्यायैरर्चयेच्चर्षीन् होमैर्विद्वान् यथाविधि।
पितृन् श्राद्धैरन्नदानैर्भूतानि बलिकर्मभिः।। ५२.१४ ।।
पञ्चैते विहिता यज्ञाः पञ्चसूनापनुत्तये।
कण्डनी पेषणी चुल्ली जलकुम्भी प्रमार्जनी।। ५२.१५ ।।
पञ्चसूना गृहस्थस्य तेन स्वर्गे न गच्छति।
तत्पापनाशनायामी पञ्चयज्ञाः प्रकीर्त्तिताः।। ५२.१६ ।।
द्वाविंशति तथाष्टौ च ये संस्काराः प्रकीर्त्तिताः।
तद्युक्तोऽपि न मोक्षाय यस्त्वात्मगुणवर्जितः।। ५२.१७ ।।
तस्मादात्मगुणोपेतः श्रुतिकर्म्म समाचरेत्।
गोब्राह्मणानां वित्तेन सर्वदा भद्रमाचरेत्।। ५२.१८ ।।
गोभूहिरण्यवासोभिर्गन्धमाल्योदकेन च।
पूजयेद् ब्रह्मविष्ण्वर्क रुद्रवस्वात्मकं शिवम्।। ५२.१९ ।।
व्रतोपवासैर्विधिवत् श्रद्धया च विमत्सरः।
योऽसावतीन्द्रियः शान्तः सूक्ष्मोऽव्यक्तः सनातनः।।
वासुदेवो जगन्मूर्त्तिस्तस्य सम्भूतयो ह्यमी।। ५२.२० ।।
ब्रह्मा विष्णुश्च भगवान् मार्त्तण्डो वृषवाहनः।
अष्टौ च वसवस्तद्वदेकादशगणाधिपाः।
लोकपालाधिपालैश्च पितरो मातरस्तथा।। ५२.२१ ।।
इमा विभूतयः प्रोक्ता श्चराचरसमन्विताः।
ब्रह्माद्याश्चतुरो मूलमव्यक्ताधिपतिः स्मृतः।। ५२.२२ ।।
ब्रह्मणा चाथ सूर्य्येण विष्णुनाथ शिवेन वा।
अभेदात् पूजितेन स्यात् पूजितं सचराचरम्।। ५२.२३ ।।
ब्रह्मादीनां परन्धाम त्रयाणामपि संस्थितिः।
वेदमूर्तावतः पूषा पूजनीयः प्रयत्नतः।। ५२.२४ ।।
तस्मादग्निद्विजमुखान् कृत्वा संपूजयेदिमान्।
दानेर्व्रतोपवासैश्च जपहोमादिना नरः।। ५२.२५ ।।
इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्सलस्य।
विकर्म्मभीतस्य सदा न किञ्चित् प्राप्तव्यमस्तीह परे च लोके ।। ५२.२६ ।।