मत्स्यपुराणम्/अध्यायः ३९
ययात्यष्टकसम्वादवर्णनम्।
अष्टक उवाच।
यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम्।
किं कारणं कार्तयुगप्रधान हित्वा तद्वै वसुधामन्वपद्यः।। ३९.१ ।।
ययातिरुवाच।
ज्ञाति सुहृत् स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हिः।
तथा स्वर्गे क्षीणपुण्यं मनुष्यन्त्यजन्ति सद्यः खेचरा देवसंघाः।। ३९.२ ।।
अष्टक उवाच।
कथं तस्मिन् क्षीणपुण्या भवन्ति संमुह्यते मेऽत्रमनोऽतिमात्रम्।
किं विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे।। ३९.३ ।।
ययातिरुवाच।
इमं भौमं नरकन्ते पतन्ति लालप्यमाना नरदेव!सर्वे।
ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति।। ३९.४ ।।
तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयञ्च कर्म्म।
आख्यातं ते पार्थिव सर्वमेतत् भूयश्चेदानीं वद किन्ते वदामि।। ३९.५ ।।
अष्टक उवाच।
यदा तु तांस्ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः।
कथं भवन्ति कथमा भवन्ति त्वत्तो भीमं नरकमहं श्रृणोमि।। ३९.६ ।।
ययातिरुवाच।
ऊर्ध्वं देहा कर्म्मणो जृम्भमाणात् व्यक्तं पृथिव्यामनुसञ्चरन्ति।
इमं भौमं नरकन्ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्।। ३९.७ ।।
षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिञ्चैव तु वत्सराणाम्।
तान्वै तुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः।। ३९.८ ।।
अष्टक उवाच।
यदेतांस्ते संपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः।
कथं भवन्ति कथमाभवन्ति कथं भूगर्बभूता भवन्ति।। ३९.९ ।।
ययातिरुवाच।
असृग्रेतः पुष्परसानुयुक्तं अन्वेति सद्यः पुरुषेण सृष्टम्।
तद्वै तस्यारज आपद्यते च स गर्भभूतः समुपैति तत्र।। ३९.१० ।।
वनस्पतीनोषधींश्चाविशन्ति अपो वायुं पृथिवीञ्चान्तरिक्षम्।
चतुष्पदं द्विपदञ्चापि सर्व एवं भूता गर्भभूता भवन्ति।। ३९.११ ।।
अन्यद्वपुर्विदधातीह गर्भे उताहो स्वित् स्वेन कामेन याति।
आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात् पृच्छतस्त्वम्।। ३९.१२ ।।
शरीरदेहादिसमुच्छ्रयञ्च चक्षुः श्रोत्रे लभते केन संज्ञाम्।
एतत् सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे।। ३९.१३ ।।
ययातिरुवाच।
वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्परसानुयुक्तम्।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम्।। ३९.१४ ।।
स जायमानोऽथ गृहीतगात्रः संज्ञामधिष्ठाय ततो मनुष्यः।
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च।। ३९.१५ ।।
घ्राणेन गन्धं जिह्वयाथो रसञ्च त्वचा स्पर्शमनसा देवभावम्।
इत्यष्टके होपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे।। ३९.१६ ।।
अष्टक उवाच।
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा।
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात्।। ३९.१७ ।।
ययातिरुवाच।
हित्वा सोऽसून् सुप्तवन्निष्ठितत्वात् पुरोधाय सुकृतं दुष्कृतञ्च।
अन्यं योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह।। ३९.१८ ।।
पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति।
कीटाः पतङ्गाश्च भवन्ति पापान्न मे विवक्षास्ति महानुभाव।। ३९.१९ ।।
चतुष्पदा द्विपदाः पक्षिणश्च तथा भूता गर्भभूता भवन्ति।
आख्यातमेतन्निखिलं हि सर्वं भूयस्तु किं पृच्छसि राजसिंह।। ३९.२० ।।
अष्टक उवाच।
किंस्वित् कृत्वा लभते तात संज्ञां मर्त्यः श्रेष्ठां तपसा विद्यया वा।
तन्मे पृष्टः शंस सर्वं यथावच्छुभान् लोकान् येन गच्छेत् क्रमेण।। ३९.२१ ।।
ययातिरुवाच।
तपश्च दानञ्च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा।
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुसांम्।। ३९.२२ ।।
सर्वाणि चैतानि यथोदितानि तपः प्रधानान्यभिमर्शकेन।
नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः।। ३९.२३ ।।
अधीयानः पण्डितं मन्यमानो यो बिद्यया हन्ति यशः परस्य।
तस्यान्तवन्तः पुरुषस्य लोकानचास्य तद् ब्रह्मफलं ददाति।। ३९.२४ ।।
चत्वारि कर्माणि भयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि।
मानाग्निहोत्रमुतमानमौनं मानेनाधीतमुतमानयज्ञः।। ३९.२५ ।।
न मन्यमानो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात्।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधु बुद्धिं लभन्ते।। ३९.२६ ।।
इति दद्यादिति यजेदित्यधीयीत मे श्रुतम्।
इत्येतान्यभयान्याहुस्तान्यवर्जानि नित्यशः।। ३९.२७ ।।
येनाश्रयं वेदयन्ते पुराणां मनीषिणो मानसे मानयुक्तम्।
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह।। ३९.२८ ।।